विराटपर्व अध्यायः 001 युधिष्ठिरेण ब्राह्मणाय मृगापहृतारणिभाण्डप्रत्यर्पणम् ॥ 1 ॥ धौम्येन ब्राह्मणमध्ये दुर्योधनापनयादिकथनेन शोचतो युधिष्ठिरस्य दुःखानुभवविषये देवादिनिदर्शनप्रदर्शनेन परिसान्त्वनम् ॥ 2 ॥ पाण्डवैः स्वसहचरब्राह्मणाभ्यनुज्ञानसम्पादनेन तद्विसर्जनपूर्वकं धौम्येनसह मन्त्राय क्वचिदुपवेशनम् ॥ 3 ॥
॥ श्रीवेदव्यासाय नमः ॥ 001a नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । 001c देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ 001 ॥ जनमेजय उवाच । 001a कथं विराटनगरे मम पूर्वपितामहाः । 001c अज्ञातवासमुपिता दुर्योधनभयार्दिताः ॥ 002a पतिव्रता महाभागा सततं सुखभागिनी । 002c द्रौपदी सा कथं ब्रह्मन्नज्ञाता दुःखिताऽवसत् ॥ 003a ते च ब्राह्मणमुख्याश्च सूतपौरोगवैः सह । 003c अज्ञातवासमुषिताः कथं च परिचारकाः ॥ 004 वैशम्पायन उवाच । 004a यथा विराटनगरे तव पूर्वपितामहाः । 004c अज्ञातवासमुषितास्तावद्वक्ष्यामि तच्छृणु ॥ 005a तथा स तान्वराल्ँलब्ध्वा धर्मराजो युधिष्ठिरः । 005c गत्वाऽऽश्रमं ब्राह्मणेभ्य आचख्यौ वृत्तमात्मनः ॥ 006a कथयित्वा च तत्सर्वं ब्राह्मणेभ्यो युधिष्ठिरः । 006c अरणीसहितं भाण्डं ब्राह्मणाय न्यवेदयत् ॥ 007a ततो युधिष्ठिरो राजा कुन्तीपुत्रो दृढव्रतः । 007c समाहूयानुजान्सर्वानिति होवाच भारत ॥ 008a द्वादशेमानि वर्षाणि राष्ट्राद्विप्रोषिता वयम् । 008c छद्मना हृतराज्याश्च निस्वाश्च बहुशः कृताः ॥ 009a उषिताश्च वने वासं यथा द्वादश वत्सरान् । 009c अज्ञातचर्यां वत्स्यामश्छन्ना वर्षं त्रयोदशम् ॥ 010 वैशम्पायन उवाच । 010a धर्मेण तेऽभ्यनुज्ञाताः पाण्डवाः सत्यविक्रमाः । 010c अज्ञातवासं वत्स्यन्तश्छन्ना वर्षं त्रयोदशम् ॥ 011a उपोपविश्य विद्वांसः स्नातकाः संशितव्रताः । 011c ये तत्र ब्राह्मणा आसन्वनवाससहायिनः । 011e ये च भक्ता वसन्ति स्म वनवासे तपस्विनः ॥ 012a तानब्रुवन्महात्मानो हृष्टाः प्राञ्जलयः स्थिताः । 012c अभ्यनुज्ञापयिष्यन्तस्तान्प्रवासे धृतव्रताः ॥ 013a विदितं भवतां सर्वं धार्तराष्ट्रैर्यथा वयम् । 013c छद्मना हृतराज्याश्च निस्वाश्च बहुशः कृताः ॥ 014a उषिताश्च वने वासं यथा द्वादशवत्सरान् । 014c भवद्भिरेव सहिता वन्याहारा द्विजोत्तमाः ॥ 015a अज्ञातवाससमयं शेषं वर्षं त्रयोदशम् । 015c तद्वत्स्यामो वयं छन्नास्तदनुज्ञातुमर्हथ ॥ 016a सुयोधनश्च दुष्टात्मा कर्णश्च सहसौबलः । 016c जानन्तो विषमं कुर्युरस्मास्वत्यन्तवैरिणः ॥ 017a युक्तचाराश्च यत्ताश्च दाये स्वस्य जनस्य च । 017c दुरात्मनां हि कस्तेषां विश्वासं गन्तुमर्हति ॥ 018a अपि नस्तद्भवेद्भूयो यद्वयं ब्राह्मणैः सह । 018c समस्तेषु च राष्ट्रेषु स्वराज्यस्था भवेम हि ॥ 019a इत्युक्त्वा दुःखशोकार्तः शुचिर्धर्मसुतस्तदा । 019c सम्मूर्च्छितोऽभवद्राजा साश्रुकण्ठो युधिष्ठिरः ॥ 020a तमथाश्वासयन्सर्वे ब्राह्मणा भ्रातृभिः सह ॥ 021a प्रबुध्य दुःखमोहार्तो धौम्यं धर्मभृतांवरम् । 021c प्रावैक्षत तदा राजा साश्रुकण्ठो युधिष्ठिरः ॥ 022a अथ धौम्योऽब्रवीद्वाक्यं महार्थं नृपतिं तदा । 022c आश्वासयंस्तं स नृपं भ्रातॄंश्च ब्राह्मणैः सह ॥ 023a राजन्विद्वान्भवान्दान्तः सत्यसन्धो जितेन्द्रियः । 023c नैवंविधाः प्रमुह्यन्ति धीराः कस्याञ्चिदापदि ॥ 024a देवैरप्यापदः प्राप्ताश्छन्नैश्च बहुभिस्तदा । 024c तत्रतत्र सपत्नानां निग्रहार्थं महात्मभिः ॥ 025a दितिपुत्रैर्हृते राज्ये देवराजः सुदुःखितः । 025c ब्रह्माणं तोषयिष्यंश्च ब्रह्मरूपं विधाय च ॥ 026a इन्द्रेण निषधं प्राप्य गिरिप्रस्थाह्वये पुरे । 026c छन्नेनोष्य कृतं कर्म द्विषतां बलनिग्रहे ॥ 027a प्रसादाद्ब्रह्मणो राजन्दितेः पुत्रान्महाबलान् । 027c निर्जित्य तरसा शत्रून्पुनर्लोकाञ्जुगोप च ॥ 028a विष्णुनाऽश्मगिरिं प्राप्य तदा दित्यां निवत्स्यता । 028c गर्भे वधार्थं दैत्यानामज्ञातेनोषितं चिरम् ॥ 029a प्रोष्य वामनरूपेण च्छन्नेन ब्रह्मचारिणा । 029c बलेर्यथा हृतं राज्यं विक्रमैस्तच्च ते श्रुतम् ॥ 030a और्वेण वसता छन्नमूरौ ब्रह्मर्षिणा तदा । 030c यत्कृतं तात लोकेषु तच्च सर्वं श्रुतं त्वया ॥ 031a प्रच्छन्नेनापि सर्वत्र हरिणा वृत्रनिग्रहे । 031c वज्रं प्रविश्य शक्रस्य यत्कृतं तच्च ते श्रुतम् ॥ 032a हुताशनेन यच्चापः प्रविश्य च्छन्नमूषितम् । 032c विबुधानां हि यत्कर्म कृतं तच्चापि ते श्रुतम् ॥ 033a यथा विवस्वता तात छन्नेनोत्तमतेजसा । 033c निर्दग्धाः शत्रवः सर्वे वसता गवि वर्षशः ॥ 034a विष्णुना वसता चात्र गृहे दशरथस्य वै । 034c दशग्रीवो हतश्छन्नं संयुगे भीमकर्मणा ॥ 035a एवमेते महात्मानः प्रच्छन्नास्तत्रतत्र हि । 035c अजयञ्छात्रवान्मुख्यांस्तथा त्वमपि जेष्यसि ॥ 036 वैशम्पायन उवाच । 036a इति धौम्येन धर्मज्ञो वाक्यैः स परिहर्षितः । 036c शान्तबुद्धिः पुनर्भूत्वा व्यष्टम्भत युधिष्ठिरः ॥ 037a अथाब्रवीन्महाबाहुर्भीमसेनो महाबलः । 037c राजानं बलिनां श्रेष्ठो गिरा सम्परिहर्षयन् ॥ 038a अवेक्षय महाराज तव गाण्डीवधन्वना । 038c धर्मार्थपरया बुद्ध्या न किञ्चित्साहसं कृतम् ॥ 039a सहदेवो मया नित्यं नकुलश्च निवारितौ । 039c शक्तौ विध्वंसने तेषां शत्रुघ्नौ भीमविक्रमौ ॥ 040a न वयं वर्त्म हास्यामो यस्मिन्योक्ष्यति नो भवान् । 040c तद्विधत्तां भवान्सर्वं क्षिप्रं जेष्यामहे परान् ॥ 041a इत्युक्तो भीमसेनेन धर्मराजो युधिष्ठिरः । 041c सुखोपविष्टो विद्वद्भिस्तापसैः संशितव्रतैः ॥ 042a ये तद्भक्त्याऽभवंस्तस्मिन्वनवासे तपस्विनः । 042c तानब्रवीन्महाप्राज्ञः शिष्टान्राजा कृताञ्जलिः । 042e अभ्यनुज्ञापयिष्यन्वै तस्मिन्वासे धृतव्रतः ॥ 043a विदितं भवतां सर्वे र्धार्तराष्ट्रैर्यथा वयम् । 043c सम्मन्त्राहृतराज्याश्च निस्स्वाश्च बहुशः कृताः । 043e उषिताः स्मो वने कृच्छ्रं तथा वर्षाणि द्वादश ॥ 044a अज्ञातचर्यासमयं शेषं वर्षं त्रयोदशम् । 044c तद्वत्स्यामः क्वचिच्छन्नास्तदनुज्ञातुमर्हथ ॥ 045a इत्युक्ता धर्मराजेन ब्राह्मणाः परमाशिषः । 045c प्रयुज्यापृच्छ्य भरतान्यथास्वं प्रययुर्गृहान् ॥ 046a सर्वे वेदविदो मुख्या यतयो मुनयस्तदा । 046c आशीरुक्त्वा यथान्यायं पुनर्दर्शनकाङ्क्षिणः ॥ 047a ते तु भृत्याश्च दूताश्च शिल्पिनः परिचारकाः । 047c अनुज्ञाप्य यथान्यायं पुनर्दर्शनकाङ्क्षिणः ॥ 048a सह धौम्येन विद्वांसस्तथा ते पञ्च पाण्डवाः । 048c उत्थाय प्रययुर्वीराः कृष्णामादाय भारत ॥ 049a क्रोशमात्रमतिक्रम्य तस्माद्वासान्निमित्ततः । 049c श्वोभूते मनुजव्याघ्राश्छन्नवासार्थमुद्यताः ॥ 050a पृथक् शास्त्रविदः सर्वे सर्वे मन्त्रविशारदाः । 050c सन्धिविग्रहतत्वज्ञा मन्त्राय समुपाविशन् ॥ ॥
इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि प्रथमोऽध्यायः ॥ 1 ॥
4-1-1अयमध्यायो झo पुस्तके वनपर्वान्तिमाध्यायतया वर्तते । विराटo ।