अध्यायः 270
मृगयागतैः पाण्डवैर्दुर्निमित्तदर्शनाद्विपदाशङ्कया सत्वरं स्वाश्रमाभिगमनम् ॥ 1 ॥ तदा दास्या द्रौपदीवृत्तान्तावगमेन जयद्रथपथानुगतैस्तदवलोकनेन कोपात्समुत्क्रोशनम् ॥ 2 ॥
वैशम्पायन उवाच KK03-16-270-001
ततो दिशः सम्परिवृत्य पार्था मृगान्वराहान्महिषांश्च हन्वा । KK03-16-270-001a
धनुर्धराः श्रेष्ठतमाः पृथिव्यां पृथक्चरन्तः सहिता बभूवुः ॥ KK03-16-270-001c
ततो मृगव्यालजनानुकीर्णं महावनं तद्विहगोपघुष्टम् । KK03-16-270-002a
भ्रातॄंश्च तानभ्यवदद्युधिष्ठिरः श्रुत्वा गिरो व्याहरतां मृगाणाम् ॥ KK03-16-270-002c
आदित्यदीप्तां दिशमभ्युपेत्य मृगा द्विजाः क्रूरमिमे वदन्ति । KK03-16-270-003a
आयासमुग्रं प्रतिवेदयन्तो महाभयं शत्रुभिर्वाऽवमानम् ॥ KK03-16-270-003c
क्षिप्रं निवर्तध्वमलं मृगैर्नो मनो हि मे दूयति दह्यते च । KK03-16-270-004a
बुद्धिं समाच्छाद्य च मे समन्युरुद्धूयते प्राणपतिः शरीरे ॥ KK03-16-270-004c
सरः सुपर्णन हृतोरगेन्द्रमराजकं राष्ट्रमिवेह शान्तम् । KK03-16-270-005a
एवंविधं मे प्रतिभाति काम्यकं शौण्डैर्यथा पीतसुरश्च कुम्भः ॥ KK03-16-270-005c
ते सैन्धवैरग्न्यनिलोग्रवेगैर्महाजवैर्वाजिभिरुह्यमानाः । KK03-16-270-006a
युक्तैर्बृहद्भिः सुरथैर्नृवीरास्तदाश्रमायाभिमुखा बभूवुः ॥ KK03-16-270-006c
तेषां तु गोमायुरनल्पघोषो निवर्ततां वाममुपेत्य पार्श्वम् । KK03-16-270-007a
प्रव्याहरत्तत्प्रविमृश्य राजा प्रोवाच भीमं च धनञ्जयं च ॥ KK03-16-270-007c
यथा वदत्येष विहीनयोनिः सालावृको वाममुपेत्य पार्श्वम् । KK03-16-270-008a
सुव्यक्तमस्मानवमत्य पापैः कृतोऽभिमर्दः कुरुभिः प्रसह्य ॥ KK03-16-270-008c
एत्याथ ते तद्वनमाविशन्तो महत्यरण्ये मृगयां चरित्वा । KK03-16-270-009a
बालामपश्यन्त तदा रुदन्तीं धात्रेयिकां प्रेष्यवधूं प्रियायाः ॥ KK03-16-270-009c
तामिन्द्रसेनस्त्वरितोऽभिसृत्य रथादवप्लुत्य ततोऽभ्यधावत् । KK03-16-270-010a
प्रोवाच चैनां वचनं नरेन्द्र धात्रेयिकामार्ततरस्तदानीम् ॥ KK03-16-270-010c
किं रोदिषि त्वं पतिता धरण्यां किं ते मुखं शुष्यति दीनवर्णम् । KK03-16-270-011a
कच्चिन्न पापैः सुनृशंसकृद्भिः प्रमाथिता द्रौपदी राजपुत्री । KK03-16-270-011c
'गतेष्वरण्यं हि सुतेषु पाण्डोः कच्चित्परैर्नापकृतं वनेऽस्मिन् ॥ KK03-16-270-011e
पर्याकुला साधु समीक्ष्यसूतमभ्यापतन्तं द्रुतमिन्द्रसेनम् । KK03-16-270-012a
उरो घ्नती कष्टतरं तदानीमुच्चैः प्रचुक्रोश हृतेति देवी ॥ KK03-16-270-012c
इन्द्रसेन उवाच KK03-16-270-013
अनिन्द्यरूपा तु विशालनेत्रा शरीरतुल्या कुरुपुङ्गवानाम् । KK03-16-270-013a
'केनात्मनाशाय यदापनीता छिद्रं समासाद्य नरेन्द्रपत्नी' ॥ KK03-16-270-013c
यद्येव देवीं पृथिवीं प्रविष्टा दिवं प्रपन्नाऽप्यथवा समुद्रम् । KK03-16-270-014a
तस्या गमिष्यन्ति पदे हि पार्थास्तथा हि सन्तप्यति धर्मराजः ॥ KK03-16-270-014c
को हीदृशानामरिमर्दनानां क्लेशक्षमाणामपराजितानाम् । KK03-16-270-015a
प्राणैः समामिष्टतमां जिहीर्षेदनुत्तमं रत्नमिव प्रमूढः ॥ KK03-16-270-015c
न बुध्यते नाथवतीमिहाद्य बहिश्चरं हृदयं पाण्डवानाम् । KK03-16-270-016a
कस्याद्य कायं प्रतिभिद्य घोरा महीं प्रवेक्ष्यन्ति शिताः शराग्र्याः ॥ KK03-16-270-016c
मा त्वं शुचस्तां प्रति भीरु विद्धि यथाऽद्य कृष्णा पुनरेष्यतीति । KK03-16-270-017a
निहत्य सर्वान्द्विषतः समग्रान्पार्थाः समेष्यन्त्यथ याज्ञसेन्या ॥ KK03-16-270-017c
अथाब्रवीच्चारुमुखं प्रमृज्य धात्रेयिका सारथिमिन्द्रसेनम् । KK03-16-270-018a
जयद्रथेनापहृता प्रमथ्य पञ्चेन्द्रकल्पान्परिभूय कृष्णा ॥ KK03-16-270-018c
तिष्ठन्ति वर्त्मानि नवान्यमूनि वृक्षाश्च न म्लान्ति तथैव भग्नाः । KK03-16-270-019a
आवर्तयध्वं ह्यनुयात शीघ्रं न दूरयातैव हि राजपुत्री ॥ KK03-16-270-019c
सन्नह्यध्वं सर्व एवेन्द्रकल्पा महान्ति चारूणि च दंशनानि । KK03-16-270-020a
गृह्णीत चापानि महाधनानि शरांश्च शीघ्रं पदवीं व्रजध्वम् ॥ KK03-16-270-020c
पुरा हि निर्भर्त्सनदण्डमोहिता प्रमूढचित्ता वदनेन शुष्यता । KK03-16-270-021a
ददाति कस्मैचिदनर्हते तनुं वराज्यपूर्णामिव भस्मनि स्रुचम् ॥ KK03-16-270-021c
पुरा तुषाग्नाविव हूयते हविः पुरा श्मशाने स्रगिवापविद्ध्यते । KK03-16-270-022a
पुरा च सोमोऽध्वरगोऽवलिह्यते शुना यथा विप्रजने प्रमोहिते ॥ KK03-16-270-022c
'पुरा हि पार्थाश्च दृतौ च कापिली प्रसिच्यते क्षीरधारा यतध्वम्' । KK03-16-270-023a
महत्यरण्ये मृगयां चरित्वा पुरा सृगालो नलिनीं विगाहते ॥ KK03-16-270-023c
'पुरा हि मन्त्राहुतिपूजितायां हुताग्निवेद्यां बलिभुङ्निलीयते । KK03-16-270-024a
श्रुतिं च सम्यक्प्रसृतां महाध्वरे ग्राम्यो जनो यद्वदसौ न नाशयेत्' ॥ KK03-16-270-024c
मा वः प्रियायाः सुनसं सुलोचनं चन्द्रप्रभाच्छं वदनं प्रसन्नम् । KK03-16-270-025a
स्पृश्याच्छुभं कश्चिदकृत्यकारी श्वा वै पुरोडाशमिवाध्वरस्थम् ॥ KK03-16-270-025c
एतानि वर्त्मान्यनुयात शीघ्रं मा वः कालः क्षिप्रमिहात्यगाद्वै ॥ KK03-16-270-026ac
'शीघ्रं प्रधावध्वमितो नरेन्द्रा यावन्न दूरं व्रजतीति पापः । KK03-16-270-027a
प्रत्याहरध्वं द्विषतां सकाशाल्लक्ष्मीमिव स्वां दयितां नृसिंहाः' ॥ KK03-16-270-027c
युधिष्ठिर उवाच KK03-16-270-028
भद्रे प्रतिक्राम नियच्छ वाचं माऽस्मत्सकाशे परुषाण्यवोचः । KK03-16-270-028a
राजानो वा यदि वा राजपुत्रा बलेन मत्ताः पञ्चतां प्राप्नुवन्ति ॥ KK03-16-270-028c
वैशम्पायन उवाच KK03-16-270-029
एतावदुक्त्वा प्रययुर्हि शीघ्रं तान्येव वर्त्मान्यनुवर्तमानाः । KK03-16-270-029a
मुहुर्मुहुर्व्यालवदुच्छ्वसन्तो ज्यां विक्षिपन्तश्च महाधनुर्भ्यः ॥ KK03-16-270-029c
ततोऽपश्यंस्तस्य सैन्यस्य रेणुमुद्धूतं वै वाजिखुरप्रणुन्नम् । KK03-16-270-030a
पदातीनां मध्यगतं च धौम्यं विक्रोशन्तं भीम पार्थेत्यभीक्ष्णम् ॥ KK03-16-270-030c
ते सान्त्व्य धौम्यं परिदीनसत्वाः सुखं भवानेत्विति राजपुत्राः । KK03-16-270-031a
श्येना यथैवामिषसम्प्रयुक्ता जवेन तत्सैन्यमथाभ्यधावन् ॥ KK03-16-270-031c
तेषां महेन्द्रोपमविक्रमाणां संरब्धानां धर्षणाद्याज्ञसेन्याः । KK03-16-270-032a
क्रोधः प्रजज्वाल जयद्रथं च दृष्ट्वा प्रियां तस्य रथे स्थितां च ॥ KK03-16-270-032c
प्रचुक्रुशुश्चाप्यथ सिन्धुराजं वृकोदरश्चैव धनञ्जयश्च । KK03-16-270-033a
यमौ च राजा च महाधनुर्धरास्ततो दिशः सम्मुमुहुः परेषाम् ॥ KK03-16-270-033c
इति श्रीमन्महाभारते अरण्यपर्वणि द्रौपदीहरणपर्वणि सप्तत्यधिकद्विशततमोऽध्यायः ॥ 270 ॥
3-270-2 मृगव्यालगणानुकीर्णं इति झ. पाठः ॥ 3-270-3 महावनं शत्रुभिर्बाध्यमानम् इति झ. पाठः ॥ 3-270-4 समाच्छाद्य मोहयित्वा । समन्युः दैन्यसहितः । प्राणानाम् आध्यात्मिकानामिन्द्रियाणां पतिर्मुख्यः प्राणः ॥ 3-270-6 सैन्धवैः सिन्धुदेशजैर्वाजिभिरश्वैः । सुरथैः शोभनरथैः ॥ 3-270-9 प्रेष्यवधूं दासीम् ॥ 3-270-21 पुरा यावदनर्हते तनुं न ददाति तावच्छीघ्रमनुयातेत्युत्तरेण सम्बन्धः ॥ 3-270-28 प्रतिक्राम दूरे भव । वरुषाणि अनर्हते तनुं ददातीत्यादीनि ॥ 3-270-32 धर्षणात् पराभवात् ॥