अध्यायः 269
द्रौपद्या स्वाभिलाषिणो जयद्रथस्य गर्हणम् ॥ 1 ॥ तथा बलात्स्ववस्त्रान्तकर्षिणस्तस्याक्षेपादधःपातनपूर्वकं स्वयमेव तद्रथारोहणम् ॥ 2 ॥
वैशम्पायन उवाच KK03-16-269-001
सरोषरागोपहतेन वल्गुना सरागनेत्रेण नतोन्नतभ्रुवा । KK03-16-269-001a
मुखेन विस्फूर्य सुवीरराष्ट्रपं ततोऽब्रवीत्तं द्रुपदात्मजा पुनः ॥ KK03-16-269-001c
यशस्विनस्तीक्ष्णविषान्महारथानभिब्रुवन्मूढ न लज्जसे कथम् । KK03-16-269-002a
महेन्द्रकल्पान्निरतान्स्वकर्मसु स्थितान्समूहेष्वपि यक्षरक्षसाम् ॥ KK03-16-269-002c
न किञ्चिदार्याः प्रवदन्ति पापं वनेचरं वा गृहमेधिनं वा । KK03-16-269-003a
तपस्विनं सम्परिपूर्णविद्यं भजन्ति चैवं सुनराः सुवीर ॥ KK03-16-269-003c
अहं तु मन्ये तव नास्ति कश्चिदेतादृशे क्षत्रियसन्निवेशे । KK03-16-269-004a
यस्त्वद्य पातालमुखे पतन्तं पाणौ गृहीत्वा प्रतिसंहरेत ॥ KK03-16-269-004c
नागं प्रभिन्नं गिरिकूटकल्पमुपत्यकां हैमवतीं चरन्तम् । KK03-16-269-005a
दण्डीव यूथादपसेधसि त्वं यो जेतुमाशंससि धर्मराजम् ॥ KK03-16-269-005c
बाल्यात्प्रसुप्तस्य महाबलस्य सिंहस्य पक्ष्माणि मुखाल्लुनासि । KK03-16-269-006a
पदा समाहत्य पलायमानः क्रुद्धं यदा द्रक्ष्यसि भीमसेनम् ॥ KK03-16-269-006c
महाबलं घोरतरं प्रवृद्धं जातं हरिं पर्वतकन्दरेषु । KK03-16-269-007a
प्रसुप्तमुग्रं प्रपदेन हंसि यः क्रुद्धमायोत्स्यसि जिष्णुमुग्रम् ॥ KK03-16-269-007c
कृष्णोरगौ तीक्ष्णमुखौ द्विजिह्वौ मत्तः पदा क्रामसि पुच्छदेशे । KK03-16-269-008a
यः पाण्डवाभ्यां पुरुषोत्तमाभ्यां जघन्यजाभ्यां प्रयुयुत्ससे त्वम् ॥ KK03-16-269-008c
यथा च वेणुः कदली नलो वा फलन्त्यभावाय न भूतयेऽऽत्मनः । KK03-16-269-009a
तथैव मां तैः परिरक्ष्यमाणामादास्यसे कर्कटकीव गर्भम् ॥ KK03-16-269-009c
जयद्रथ उवाच KK03-16-269-010
जानामि कृष्णे विदितं ममैतद्यथाविधास्ते नरदेवपुत्राः । KK03-16-269-010a
न त्वेवमेतेन विभीषणेन शक्या वयं त्रासयितुं त्वयाऽद्य ॥ KK03-16-269-010c
वयं पुनः सप्तदशेषु कृष्णे कुलेषु सर्वेऽनवमेषु जाताः । KK03-16-269-011a
षड्भ्यो गुणेभ्योऽभ्यधिका विहीनान्मन्यामहे द्रौपदी पाण्डुपुत्रान् ॥ KK03-16-269-011c
सा क्षिप्रमातिष्ठ गजं रथं वा न वाक्यमात्रेण वयं हि शक्याः । KK03-16-269-012a
आशंस वा त्वं कृपणं वदन्ती सौवीरराजस्य पुनः प्रसादम् ॥ KK03-16-269-012c
द्रौपद्युवाच KK03-16-269-013
महाबला किन्त्विह दुर्बलेव सौवीरराजस्य मताऽहमस्मि । KK03-16-269-013a
नाहं प्रमाथादिह सम्प्रतीता सौवीरराजं कृपणं वदेयम् ॥ KK03-16-269-013c
यस्या हि कृष्णौ पदवीं चरेतां समास्थितावेकरथे समेतौ । KK03-16-269-014a
इन्द्रोऽपि तां नापहरेत्कथञ्चिन्मनुष्यमात्रः कृपणः कुतोऽन्यः ॥ KK03-16-269-014c
यथा किरीटी परवीरघाती निघ्नन्रथस्थो द्विषतां मनांसि । KK03-16-269-015a
मदन्तरे त्वद्ध्वजिनीं प्रवेष्टा कक्षं दहन्नग्निरिवोष्णगेषु ॥ KK03-16-269-015c
जनार्दनः सान्धकवृष्णिवीरो महेष्वासाः केकयाश्चापि सर्वे । KK03-16-269-016a
एते हि सर्वे मम राजपुत्राः प्रहृष्टरूपाः पदवीं चरेयुः ॥ KK03-16-269-016c
मौर्वीविसृष्टाः स्तनयित्नुघोषा गाण्डीवमुक्तास्त्वतिवेगवन्तः । KK03-16-269-017a
हस्तं समाहत्य धनञ्जयस्य भीमाः शब्दं घोरतरं नदन्ति ॥ KK03-16-269-017c
गाण्डीवमुक्तांश्च महाशरौघान्पतङ्गसङ्घानिव शीघ्रवेगान् । KK03-16-269-018a
यदा द्रष्टास्यर्जुनं वीर्यशालिनं तदा स्वबुद्धिं प्रतिनिन्दितासि ॥ KK03-16-269-018c
सशङ्खघोषः सतलत्रघोषो गाण्डीवधन्वा मुहुरुद्वहंश्च । KK03-16-269-019a
यदा शरानर्पयिता तवोरसि तदा मनस्ते किमिवाभविष्यत् ॥ KK03-16-269-019c
गदाहस्तं भीममभिद्रवन्तं माद्रीपुत्रौ सम्पतन्तौ दिशश्च । KK03-16-269-020a
अमर्षजं क्रोधविषं वमन्तौ दृष्ट्वा चिरं तापमुपैष्यसेऽधम ॥ KK03-16-269-020c
यथा वाऽहं नातिचरे कथञ्चित्पतीन्महार्हान्मनसाऽपि जातु । KK03-16-269-021a
तेनाद्य सत्येन वशीकृतं त्वां द्रष्टास्मि पार्थैः परिकृष्यमाणम् ॥ KK03-16-269-021c
न सम्भ्रमं गन्तुमहं हि शक्ष्ये त्वया नृशंसेन विकृष्यमाणा । KK03-16-269-022a
समागताऽहं हि कुरुप्रवीरैः पुनर्वनं काम्यकमागताऽस्मि ॥ KK03-16-269-022c
वैशम्पायन उवाच KK03-16-269-023
'इत्येवमुक्तस्तु स सिन्धुनाथस्तां द्रौपदीमाह विशालनेत्राम् । KK03-16-269-023a
आरुह्यतामाशु रथं मदीयं मा त्वां वलाद्द्रौपदि कर्षयेहम्' ॥ KK03-16-269-023c
सा ताननुप्रेक्ष्य विशालनेत्रा जिघृक्षमाणानवभर्त्सयन्ती । KK03-16-269-024a
प्रोवाच मा मा स्पृशतेति भीता धौम्यं प्रचुक्रोश पुरोहितं सा ॥ KK03-16-269-024c
जग्राह तामुत्तरवस्त्रदेशे जयद्रथस्तं समवाक्षिपत्सा । KK03-16-269-025a
तया समाक्षिप्ततनुः स पापः पपात शाखीव निकृत्तमूलः ॥ KK03-16-269-025c
प्रगृह्यमाणा तु महाजवेन मुहुर्विनिःश्वस्य च राजपुत्री । KK03-16-269-026a
सा मृष्यमाणा रथमारुरोह धौम्यस्य पादावभिवाद्य कृष्णा ॥ KK03-16-269-026c
धौम्य उवाच KK03-16-269-027
नेयं शक्या त्वया नेतुमविजित्य महारथान् । KK03-16-269-027a
धर्मं क्षत्रस्य पौराणमवेक्षस्व जयद्रथ ॥ KK03-16-269-027c
क्षुद्रं कृत्वा फलं पापं त्वं प्राप्स्यसि न संशयः । KK03-16-269-028a
आसाद्य पाण्डवान्वीरान्धर्मराजपुरोगमान् ॥ KK03-16-269-028c
वैशम्पायन उवाच KK03-16-269-029
इत्युक्त्वा ह्रियमाणां तां राजपुत्रीं यशस्विनीम् । KK03-16-269-029a
अन्वगच्छत्तदा धौम्यः पदातिगणमध्यगः ॥ KK03-16-269-029c
इति श्रीमन्महाभारते अरण्यपर्वणि द्रौपदीहरणपर्वणि एकोनसप्तत्यधिकद्विशततमोऽध्यायः ॥ 269 ॥
3-269-1 रोषेण रागो रक्तिमा तेन सहितं सरोषरागं तदुपहतं च म्लानं च तेन । वल्गुना सुन्दरेण । नते स्वभावत उन्नते क्रोधेन भ्रुवौ यस्यास्तथा । विस्फूर्य फूत्कारं कृत्वा । सरोषवाचोपहितेनेति ध. पाठः ॥ 3-269-2 अभि अभिक्रम्य ब्रुवन् । स्थितानचलान् । यक्षादिभिरप्यजेयानित्यर्थः ॥ 3-269-3 भषन्ति हैवं सुनराः सुवीरेति झ. पाठः ॥ 3-269-4 क्षत्रियसन्निवेशे नृपसमाजे । पातालमुखे महागर्ते । प्रतिसंहरेत् प्रतिषेधेत ॥ 3-269-5 उपत्यकामद्रिसमीपभूमिम् । दण्डी दण्डमात्रायुधो यूथात्समूहादपसेधसि अपकर्षसि ॥ 3-269-6 बाल्यात् मौढ्यात् पक्ष्माणि मुखोपरिस्थकेशान् । पदा समाहत्य लुनासि छिनत्सि॥ 3-269-9 वेण्वादयः फलिता एव नश्यन्ति । कर्कटी च परिणतगर्भा नश्यतीति लोकप्रसिद्धम् ॥ 3-269-10 विभीषणेन भयप्रदर्शनेन ॥ 3-269-11 सप्तदश अष्टौ कर्माणि नवशक्त्यादयश्च नित्यं सन्ति येषु तानि सप्तदशानि । नित्ययोगे मत्वर्थीयोर्शआद्यच् । अनवमेषु अनीचेषु । षड्गुणाः शौर्यतेजोधृतिदाक्षिण्यदानैश्वर्याणि ॥ 3-269-12 शक्याः निवारितुमिति शेषः । पुनरिति पाण्डवपराजयानन्तरम् । त्वं मत्प्रसादम् आशंस प्रार्थय ॥ 3-269-13 प्रमाथात् निग्रहात् । प्रतीता प्रख्याता । सभायां वस्त्रराशिप्रदानेन भगवदनुग्रहीतत्वात् । महाबलाः किन्त्विह दुर्बला वा सौवीरराजस्य सुताहमस्मि । साहं प्रमादादिह सम्प्रभीतेति ध. पाठः ॥ 3-269-14 कृष्णौ वासुदेवार्जुनौ ॥ 3-269-15 मदन्तरे मन्निमित्तम् । प्रवेष्टा प्रकर्षेण वेष्टयिष्यति । उष्णगेषु निदाघेषु ॥ 3-269-17 गाण्डीवमुक्ताः शरा इति शेषः ॥ 3-269-19 अभविष्यत् भविष्यतीत्यर्थे व्यत्ययेन लृङ् ॥