अध्यायः 268

कोटिकाश्याद्द्रौपदीतत्वं विदितवता जयद्रथेन द्रौपदीमेत्य स्वभार्यात्वयाचना ॥ 1 ॥

वैशम्पायन उवाच KK03-16-268-001
तथाऽऽसीनेषु सर्वेषु तेषु राजसु भारत । KK03-16-268-001a
'कोटिकाश्यो जगामाशु सिन्धुराजनिवेशनम् ॥ KK03-16-268-001c
यदुक्तं कृष्णया सार्धं तत्सर्वं प्रत्यवेदयत् । KK03-16-268-002a
कोटिकाश्यवचः श्रुत्वा शैब्यं सौवीरकोऽब्रवीत् ॥ KK03-16-268-002c
यदा वाचं व्याहरन्त्यामस्यां मे रमते मनः । KK03-16-268-003a
सीमन्तिनीनां मुख्यायां विनिवृत्तः कथं भवान् ॥ KK03-16-268-003c
एतां दृष्ट्वा स्त्रियो मेऽन्या यथा शाखामृगस्त्रियः । KK03-16-268-004a
प्रतिभान्ति महाबाहो सत्यमेतद्ब्रवीमि ते ॥ KK03-16-268-004c
दर्शनादेव हि मनस्तया मेऽपहृतं भृशम् । KK03-16-268-005a
तां समाचक्ष्व कल्याणीं यदि स्याच्छैब्य मानुषी ॥ KK03-16-268-005c
कोटिक उवाच KK03-16-268-006
एषा वै द्रौपदी कृष्णा राजपुत्री यशस्विनी । KK03-16-268-006a
पञ्चानां पाण्डुपुत्राणां महिषी सम्मता भृशम् ॥ KK03-16-268-006c
सर्वेषां चैव पार्थानां प्रिया बहुमता सती । KK03-16-268-007a
तया समेत्य सौवीर सौवीराभिमुखो व्रज ॥ KK03-16-268-007c
वैशम्पायन उवाच KK03-16-268-008
एवमुक्तः प्रत्युवाच पश्यामि द्रौपदीमिति । KK03-16-268-008a
पतिः सौवीरसिन्धूनां दुष्टभावो जयद्रथः ॥ KK03-16-268-008c
स प्रविश्याश्रमं पुण्यं सिंहगोष्ठं वृको यथा । KK03-16-268-009a
आत्मना सप्तमः कृष्णामिदं वचनमब्रवीत् ॥ KK03-16-268-009c
कुशलं ते वरारोहे भर्तारस्तेऽप्यनामयाः । KK03-16-268-010a
येषां कुशलकामासि तेऽपि कच्चिदनामयाः ॥ KK03-16-268-010c
द्रौपद्युवाच KK03-16-268-011
अपि ते कुशलं राजन्राष्ट्रे कोशे बले तथा । KK03-16-268-011a
कच्चिदेकः शिबीनाढ्यान्सौवीरान्सह सिन्धुभिः । KK03-16-268-011c
अनुतिष्ठसि धर्मेण ये चान्ये विदितास्त्वया ॥ KK03-16-268-011e
कौरव्यः कुशली राजा कुन्तीपुत्रो युधिष्ठिरः । KK03-16-268-012a
अहं च भ्रातरश्चास्य यांश्चान्यान्परिपृच्छसि ॥ KK03-16-268-012c
पाद्यं प्रतिगृहाणेदमासनं च नृपात्मज । KK03-16-268-013a
मृगान्विता मृगीश्चैव प्रातराशं ददानि ते ॥ KK03-16-268-013c
ऐणेयान्पृषतान्न्यङ्कून्हरिणाञ्शरभाञ्शशान् । KK03-16-268-014a
ऋक्षान्रुरूञ्शम्बरांश्च गवयांश्च मृगान्बहून् ॥ KK03-16-268-014c
वराहान्महिषांश्चैव याश्चान्या मृगजातयः । KK03-16-268-015a
प्रदास्यति स्वयं तुभ्यं कुन्तीपुत्रो युधिष्टिरः ॥ KK03-16-268-015c
जयद्रथ उवाच KK03-16-268-016
कुशलं प्रातराशस्य सर्वं मे दित्सितं त्वया । KK03-16-268-016a
एहि मे रथमारोह सुखमाप्नुहि केवलम् ॥ KK03-16-268-016c
गतश्रीकान्हृतराज्यान्कृपणान्गतचेतसः । KK03-16-268-017a
अरण्यवासिनः पार्थान्नानुरोद्धुं त्वमर्हसि ॥ KK03-16-268-017c
नैव प्राज्ञा गतश्रीकं भर्तारमुपयुञ्जते । KK03-16-268-018a
युञ्जानमनुयुञ्जीत न शरियः सङ्क्षये वसेत् ॥ KK03-16-268-018c
श्रिया विहीना राष्ट्राच्च विनष्टाः शाश्वतीः समाः । KK03-16-268-019a
अलं ते पाण्डुपुत्राणां भक्त्या क्लेशमुपासितुम् ॥ KK03-16-268-019c
भार्या मे भव सुश्रोणि त्यजैनान्मुखमाप्नुहि । KK03-16-268-020a
अखिलान्सिन्धुसौवीरानाप्नुहि त्वं मया सह ॥ KK03-16-268-020c
वैशम्पायन उवाच KK03-16-268-021
इत्युक्ता सिन्धुराजेन वाक्यं हृदयकम्पनम् । KK03-16-268-021a
कृष्णा तस्मादपाक्रामद्देशात्सभ्रुकुटीमुखी ॥ KK03-16-268-021c
अवमत्यास्य तद्वाक्यमाक्षिप्य च सुमध्यमा । KK03-16-268-022a
मैवमित्यब्रवीत्कृष्णा लज्जस्वेति च सैन्धवम् ॥ KK03-16-268-022c
सा काङ्क्षमाणा भर्तॄणामुपयातमनिन्दिता । KK03-16-268-023a
विलम्बयामास परं वाक्यैर्वाक्यानि युञ्जती ॥ KK03-16-268-023c
द्रैपद्युवाच KK03-16-268-024
नैवं वद महाबाहो न्याय्यं त्वं न च मन्यसे । KK03-16-268-024a
पाण्डूनां धार्तराष्ट्राणां स्वसा चैव कनीयसी ॥ KK03-16-268-024c
दुश्शला नाम तस्यास्त्वं भर्ता राजकुलोद्वह । KK03-16-268-025a
मम भ्राता च न्याय्येन त्वया रक्ष्या महारथ ॥ KK03-16-268-025c
धर्मिष्ठानां कुले जातो न धर्मं त्वमवेक्षसे । KK03-16-268-026a
इत्युक्तः सिन्धुराजोथ वाक्यमुत्तरमब्रवीत् ॥ KK03-16-268-026c
राज्ञां धर्मं न जानीषे स्त्रियो रत्नानि चैव हि । KK03-16-268-027a
साधारणानि लोकेऽस्मिन्प्रवदन्ति मनीषिणः ॥ KK03-16-268-027c
स्वसा च स्वस्रिया चैव भ्रातृभार्या तथैव च । KK03-16-268-028a
सुखं गृह्णन्ति राजानस्ताश्च तत्र नृपोद्भवाः' ॥ KK03-16-268-028c

इति श्रीमन्महाभारते अरण्यपर्वणि द्रौपदीहरणपर्वणि अष्टषष्ट्यधिकद्विशततमोऽध्यायः ॥ 268 ॥

3-268-3 सौवीरको जयद्रथः ॥ 3-268-7 यदास्यां मे मनोरमते तदा भवान्कथं विनिवृत्त इति योज्यम् ॥ 3-268-9 सिंहगोष्ठं गोष्ठमिव गोष्ठं स्थानम् ॥ 3-268-11 अनुतिष्ठसि पालयसि । विदिता लब्धाः ॥ 3-268-18 श्रियः सङ्क्षये सतीति शेषः । हीनलक्ष्मीके इत्यर्थः ॥ 3-268-19 समाः संवत्सरान् ॥ 3-268-23 विलोभयामास परमिति झ. पाठः ॥