अध्यायः 267
कोटिकाश्यम् प्रति द्रौपद्या जननादिस्वीयवृत्तान्तकथनम् ॥ 1 ॥
वैशम्पायन उवाच KK03-16-267-001
अथाब्रवीद्द्रौपदी राजपुत्री पृष्टा शिबीनां प्रवरेण तेन । KK03-16-267-001a
अवेक्ष्य मन्दं प्रविमुच्य शाखां सङ्गृह्णती कौशिकमुत्तरीयम् ॥ KK03-16-267-001c
बुद्ध्याऽभिजानामि नरेन्द्रपुत्र न मादृशी त्वामभिभाष्टुमर्हति । KK03-16-267-002a
न त्वेह वक्ताऽस्ति तवेह वाक्यमन्यो नरो वाऽप्यथवाऽपि नारी ॥ KK03-16-267-002c
एका ह्यहं सम्प्रति तेन वाचं ददानि वै भद्र निबोध चेदम् । KK03-16-267-003a
अहं ह्यरण्ये कथमेकमेका त्वामालपेयं निरता स्वधर्मे ॥ KK03-16-267-003c
जानामि च त्वां सुरथस्य पुत्रं यं कोटिकाश्येति विदुर्मनुष्याः । KK03-16-267-004a
तस्मादहं शैब्य तथैव तुभ्यमाख्यामि बन्धून्प्रथितं कुलं च ॥ KK03-16-267-004c
अपत्यमस्मि द्रुपदस्य राज्ञः कृष्णेति मां शैब्य विदुर्मनुष्याः । KK03-16-267-005a
साऽहं वृणे पञ्च जनान्पतित्वे ये खाण्डवप्रस्थगताः श्रुतास्ते ॥ KK03-16-267-005c
युधिष्ठिरो भीमसेनार्जुनौ च माद्र्र्याश्च पुत्रौ पुरुषप्रवीरौ । KK03-16-267-006a
ते मां निवेश्येह दिशश्चतस्रो विभज्य पार्था मृगयां प्रयाताः ॥ KK03-16-267-006c
प्राचीं राजा दक्षिणां भीमसेनो जयः प्रतीचीं यमजावुदीचीम् । KK03-16-267-007a
मन्ये तु तेषां रथसत्तमानां कालो बहुः प्राप्त इहोपयातुम् ॥ KK03-16-267-007c
सम्मानिता यास्यथ तैर्यथेष्टं विमुच्य वाहानवरोहयध्वम् । KK03-16-267-008a
प्रियातिथिर्धर्मसुतो महात्मा प्रीतो भविष्यत्यभिवीक्ष्य युष्मान् ॥ KK03-16-267-008c
एतावदुक्त्वा द्रुपदात्मजा सा शैब्यात्मजं चन्द्रमुखी प्रतीता । KK03-16-267-009a
विवेश तां पर्णशालां प्रशस्तां सञ्चिन्त्य तेषामतिथिस्वधर्मम् ॥ KK03-16-267-009c
इति श्रीमन्महाभारते अरण्यपर्वणि द्रौपदीहरणपर्वणि सप्तषष्ट्यधिकद्विशततमोऽध्यायः ॥ 267 ॥
3-267-2 अभिभाष्टुम् अभिभाषितुम् । त्वामपि द्रष्टुमर्हेति ध. पाठः ॥ 3-267-3 तेन कारणेन ॥ 3-267-7 जयोऽर्जुनः ॥