अध्यायः 266
जयद्रथचोदनया कोटिकाश्येन द्रौपदीम् प्रति तत्पितृभर्तृकुलादिप्रश्नः ॥ 1 ॥
कोटिक उवाच KK03-16-266-001
का त्वं कदम्बस्य विनम्य शाखां किमाश्रमे तिष्ठसि शोभमाना । KK03-16-266-001a
देदीप्यमानाऽग्निशिखेव नक्तं व्याधूयमाना पवनेन सूभ्रूः ॥ KK03-16-266-001c
अतीव रूपेण समन्विता त्वं न चाप्यरण्येषु बिभेषि किन्नु । KK03-16-266-002a
देवी नु यक्षी यदि दानवी वा वराप्सरा दैत्यवराङ्गना वा ॥ KK03-16-266-002c
वपुष्मती वोरगराजकन्या वनेचरी वा क्षणदाचरस्त्री । KK03-16-266-003a
त्वं देवराज्ञो वरुणस्य पत्नी यमस्य सोमस्य धनेश्वरस्य ॥ KK03-16-266-003c
धातुर्विधातुः सवितुर्विभोर्वा शक्रस्य वा त्वं सदनात्प्रपन्ना । KK03-16-266-004a
न ह्येव नः पृच्छसि ये वयं स्म न चापि जानीम तवेह नाथम् ॥ KK03-16-266-004c
वयं हि मानं तव वर्धयन्तः पृच्छाम भद्रे प्रभवं प्रभुं च । KK03-16-266-005a
आचक्ष्व बन्धूंश्च पतिं कुलं च जातिं च यच्चेह करोषि कार्यम् ॥ KK03-16-266-005c
अहं तु राज्ञः सुरथस्य पुत्रो यं कोटिकाश्येति विदुर्मनुष्याः । KK03-16-266-006a
'वश्येन्द्रियः सत्यरतिर्वरोरु वृद्धोपसेवी गुरुपूजकश्च' ॥ KK03-16-266-006c
असौ तु यस्तिष्ठतिकाञ्चनाङ्गे रथे हुतोऽग्निश्चयने यथैव । KK03-16-266-007a
त्रिगर्तराजः कमलायताक्षः क्षेमङ्करो नाम स एष वीरः ॥ KK03-16-266-007c
अस्मात्परस्त्वेष महाधनुष्मान्पुत्रः कुलिन्दाधिपतेर्वरिष्ठः । KK03-16-266-008a
निरीक्षते त्वां विपुलायताक्षः सुपुष्पितः पर्वतवासनित्यः ॥ KK03-16-266-008c
असौ तु यः पुष्करिणीसमीपे श्यामो युवा तिष्ठति दर्शनीयः । KK03-16-266-009a
इक्ष्वाकुराजः सुबलस्य पुत्रः स एव हन्ता द्विषतां सुगात्रि ॥ KK03-16-266-009c
यस्यानुयात्रं ध्वजिनः प्रयान्ति सौवीरका द्वादशराजपुत्राः । KK03-16-266-010a
शोणाश्वयुक्तेषु रथेषु सर्वे मखेषु दीप्ता इव हव्यवाहाः ॥ KK03-16-266-010c
अङ्गारकः कुञ्जरो गुप्तकश्च शत्रुञ्जयः सञ्जयसुप्रवृद्धौ । KK03-16-266-011a
प्रभङ्करोऽथ भ्रमरो रविश्च शूरः प्रतापः कुहनश्च नाम ॥ KK03-16-266-011c
यं षट्सहस्रा रथिनोऽनुयान्ति नागा हयाश्चैव पदातिनश्च । KK03-16-266-012a
जयद्रथो नाम यदि श्रुतस्ते सौवीरराजः सुभगे स एषः ॥ KK03-16-266-012c
तस्यापरे भ्रातरोऽदीनसत्वा बलाहकानीकविदारणाद्याः । KK03-16-266-013a
सौवीरवीराः प्रवरा युवानो राजानमेते बलिनोऽनुयान्ति ॥ KK03-16-266-013c
एतैः सहायैरुपयाति राजा मरुद्गणैरिन्द्र इवाभिगुप्तः । KK03-16-266-014a
अजानतां ख्यापय नः सुकेशि कस्यासि भार्या दुहिता च कस्य ॥ KK03-16-266-014c
इति श्रीमन्महाभारते अरण्यपर्वणि द्रौपदीहरणपर्वणि षट्षष्ट्यधिकद्विशततमोऽध्यायः ॥ 266 ॥
3-266-4 धातुः प्रजापतेः सरस्वती वा । विधातुः कश्यपस्य रुद्रस्य वा । अदितिः पार्वती वा । विभोर्विष्णोर्लक्ष्मीर्वा ॥ 3-266-5 प्रभवपितरम् । प्रभुं महान्तम् । प्रभवं भुवं चेति ध.पाठः ॥ 3-266-7 चयने इष्टकोच्चये ॥ 3-266-12 पदातिनः पद्भ्याम् अतितुं सततं गन्तुं शीलं येषां ते पदातयः ॥