अध्यायः 265
पञ्चस्वपि पाण्डवेषु मृगयार्थं गतेषु सपरिजनेन सैन्धवेन मार्गवशात्तदाश्रमाभिगमनम् ॥ 1 ॥ तत्रद्रौपदीदर्शनक्षुभितहृदा जयद्रथेन तत्तत्वजिज्ञासया तन्निकटम् प्रति कोटिकाश्यस्य प्रेषणम् ॥ 2 ॥
वैशम्पायन उवाच KK03-16-265-001
तस्मिन्बहुमृगेऽरण्ये अटमाना महारथाः । KK03-16-265-001a
काम्यके भरतश्रेष्ठा विजह्रुस्ते यथामराः ॥ KK03-16-265-001c
प्रेक्षमाणा बहुविधान्वनोद्देशान्समन्ततः । KK03-16-265-002a
यथर्तुकालरम्याश्च वनराजीः सुपुष्पिताः ॥ KK03-16-265-002c
पाण्डवा मृगयाशीलाश्चरन्तस्तन्महद्वनम् । KK03-16-265-003a
विजह्रुरिन्द्रप्रिमाः कञ्चित्कालमरिन्दमाः ॥ KK03-16-265-003c
ततस्ते यौगपद्येन ययुः सर्वे चतुर्दिशम् । KK03-16-265-004a
मृगयां पुरुषव्याघ्रा ब्राह्मणार्थे परन्तपाः ॥ KK03-16-265-004c
द्रौपदीमाश्रमे न्यस्य तृणबिन्दोरनुज्ञया । KK03-16-265-005a
महर्षेर्दीप्ततपसो धौम्यस्य च पुरोधसः ॥ KK03-16-265-005c
तस्तु राजा सिन्धूनां वार्धक्षत्रिर्महायशाः । KK03-16-265-006a
विवाहकामः साल्वेयान्प्रयातः सोऽभवत्तदा ॥ KK03-16-265-006c
महता परिबर्हेण राजयोग्येन संवृतः । KK03-16-265-007a
राजभिर्बहुभिः सार्धमुपायात्काम्यकं च सः ॥ KK03-16-265-007c
तत्रापश्यत्प्रियां भार्यां पाण्डवानां यशस्विनीम् । KK03-16-265-008a
तिष्ठन्तीमाश्रमद्वारि द्रौपदीं निर्जने वने ॥ KK03-16-265-008c
विभ्राजमानां वपुषा बिभ्रतीं रूपमुत्तमम् । KK03-16-265-009a
भ्राजयन्तीं वनोद्देशं नीलाभ्रमिव विद्युतम् ॥ KK03-16-265-009c
अप्सरा देवकन्या वा माया वा देवनिर्मिता । KK03-16-265-010a
इति कृत्वाञ्जलिं सर्वे ददृशुस्तामनिन्दिताम् ॥ KK03-16-265-010c
तः स राजा सिन्धूनां वार्धक्षत्रिर्जयद्रथः । KK03-16-265-011a
विस्मितस्त्वनवद्याङ्गीं दृष्ट्वा तां दुष्टमानसः ॥ KK03-16-265-011c
स कोटिकाश्यं राजानमब्रवीत्काममोहितः । KK03-16-265-012a
कस्य त्वेषाऽनवद्याङ्गी यदि वाऽपि न मानुषी ॥ KK03-16-265-012c
विवाहार्थो न मे कश्चिदिमां दृष्ट्वाऽतिमुन्दरीम् । KK03-16-265-013a
एतामेवाहमादाय गमिष्यामि स्वमालयम् ॥ KK03-16-265-013c
गच्छ जानीहि सौम्येमां कस्य वाऽत्र कुतोपि वा । KK03-16-265-014a
किमर्थमागता सुभ्रूरिदं कण्टकितं वनम् ॥ KK03-16-265-014c
अपि नाम वरारोहा मामेषा लोकसुन्दरी । KK03-16-265-015a
भजेदद्यायतापाङ्गी सुदती तनुमध्यमा ॥ KK03-16-265-015c
अप्यहं कृतकामः स्यामिमां प्राप्य वरस्त्रियम् । KK03-16-265-016a
गच्छ जानीहि कोन्वस्या नाथ इत्येव कोटिक ॥ KK03-16-265-016c
स कोटिकाश्यस्तच्छ्रुत्वा रथात्प्रस्कन्द्य कुण्डली । KK03-16-265-017a
उपेत्य पप्रच्छ तदा क्रोष्टा व्याघ्रवधूमिव ॥ KK03-16-265-017c
इति श्रीमन्महाभारते अरण्यपर्वणि द्रौपदीहरणपर्वणि पञ्चषष्ट्यधिकद्विशततमोऽध्यायः ॥ 265 ॥
3-265-7 परिबर्हेण परिच्छदेन ॥ 3-265-9 नीलाभ्रं नीलमेघम् ॥