अध्यायः 264

दुर्वाससा दुर्योधनप्रार्थनासफलीकरणायाकाले पाण्डवान्प्रत्यन्नयाचनम् ॥ 1 ॥ तथा युधिष्ठिरानुमत्या शिष्यायुतेन सह स्नानाय नदीम् प्रति गमनम् ॥ 2 ॥ अत्रान्तरे द्रौपदीप्रार्थनया श्रीकृष्णेन तत्समीपागमनम् ॥ 3 ॥ तथा निवेदितदुर्वासोवृत्तान्तेन तेन स्वीयक्षुन्निवृत्तये द्रौपदीम् प्रत्यन्नयाचनम् ॥ 4 ॥ तयाऽन्नस्य शेषाभावे निवेदितेऽन्नस्थालीमानाय्य तत्कण्ठलग्नशाकपुलाकभक्षणेन सशिष्यस्य दुर्वाससस्तृप्तिजननम् ॥ 5 ॥ ततो भोजनाय भीमेनाह्वाने लज्जितस्य दुर्वाससो भयाच्छिष्यैः सह पलायनम् ॥ 6 ॥

वैशम्पायन उवाच KK03-16-264-001
ततः कदाचिद्दुर्वासाः सुखासीनांस्तु पाण्डवान् । KK03-16-264-001a
भुक्त्वा चावस्थितां कृष्णां ज्ञात्वा तस्मिन्वने मुनिः । KK03-16-264-001c
अभ्यागच्छत्परिवृतः शिष्यैरयुतसम्मितैः ॥ KK03-16-264-001e
दृष्ट्वाऽप्यान्तं तमतिथिं स च राजा युधिष्ठिरः । KK03-16-264-002a
जगामाभिमुखः श्रीमान्सह भ्रातृभिरच्युतः ॥ KK03-16-264-002c
तस्मै बद्ध्वाञ्जलिं सम्यगुपवेश्य वरासने । KK03-16-264-003a
विधिवत्पूजयित्वा तमातिथ्येन न्यमन्त्रयत् । KK03-16-264-003c
आह्निकं भगवन्कृत्वा शीघ्रमेहीति चाब्रवीत् ॥ KK03-16-264-003e
जगाम च मुनिः सोपि स्नातुं शिष्यैः सहानघः । KK03-16-264-004a
भोजयेत्सहशिष्यं मां कथमित्यविचिन्तयन् ॥ KK03-16-264-004c
न्यमज्जत्सलिले चापि मुनिसङ्घः समाहितः ॥ KK03-16-264-005ac
एतस्मिन्नन्तरे राजन्द्रौपदी योषितां वरा । KK03-16-264-006a
चिन्तामवाप परमामन्नहेतोः पतिव्रता ॥ KK03-16-264-006c
सा चिन्तयन्ती च यदा नान्नहेतुमविन्दत । KK03-16-264-007a
मनसा चिन्तयामास कृष्णं कंसनिषूदनम् ॥ KK03-16-264-007c
कृष्णकृष्ण महाबाहो देवकीनन्दनाव्यय । KK03-16-264-008a
वासुदेव जगन्नाथ प्रणतार्तिविनाशन ॥ KK03-16-264-008c
विश्वात्मन्विश्वजनक विश्वहर्तः प्रभोऽव्यय । KK03-16-264-009a
प्रपन्नपाल गोपाल प्रजापाल परात्पर । KK03-16-264-009c
आकूतीनां च चित्तीनां प्रवर्तक नताऽस्मि ते ॥ KK03-16-264-009e
वरेण्य वरदानन्त अगतीनां गतिप्रद । KK03-16-264-010a
पुराणपुरुष प्राणमनोवृत्त्याद्यगोचर ॥ KK03-16-264-010c
सर्वाध्यक्ष पराध्यक्ष त्वामहं शरणं गता । KK03-16-264-011a
पाहि मां कृपया देव शरणागतवत्सल ॥ KK03-16-264-011c
नीलोत्पलदलश्याम पद्मगर्भारुणेक्षण । KK03-16-264-012a
पीताम्बरपरीधान लसत्कौस्तुभभूषण ॥ KK03-16-264-012c
त्वमादिरन्तो भूतानां त्वमेव च परायणम् । KK03-16-264-013a
परात्परतरं ज्योतिर्विश्वात्मा सर्वतोमुखः ॥ KK03-16-264-013c
त्वामेवाहुः परं बीजं निधानं सर्वसम्पदाम् । KK03-16-264-014a
त्वया नाथेन देवेश सर्वापद्भ्यो भयं न हि ॥ KK03-16-264-014c
दुःशासनादहं पूर्वं सभायां मोचिता यथा । KK03-16-264-015a
तथैव सङ्कटादस्मान्मामुद्धर्तुमिहार्हसि ॥ KK03-16-264-015c
वैशम्पायन उवाच KK03-16-264-016
एवं स्तुतस्तदा देवः कृष्णया भक्तवत्सलः । KK03-16-264-016a
द्रौपद्याः सङ्कटं ज्ञात्वा देवदेवो जगत्पतिः ॥ KK03-16-264-016c
पार्श्वस्थां शयने त्यक्त्वा रुक्मिणीं केशवः प्रभुः । KK03-16-264-017a
तत्राजगाम त्वरितो ह्यचिन्त्यगतिरीश्वरः ॥ KK03-16-264-017c
ततस्तं द्रौपदी दृष्ट्वा प्रणम्य परया मुदा । KK03-16-264-018a
अब्रवीद्वासुदेवाय मुनेरागमनादिकम् ॥ KK03-16-264-018c
ततस्तामब्रवीत्कृष्णः क्षुधितोस्मि भृशातुरः । KK03-16-264-019a
शीघ्रं भोजय मां कृष्णे पश्चात्सर्वं करिष्यसि ॥ KK03-16-264-019c
निशम्य तद्वचः कृष्णा लज्जिता वाक्यमब्रवीत् । KK03-16-264-020a
स्थाल्यां भास्करदत्तायामन्नं मद्भोजनावधि ॥ KK03-16-264-020c
भुक्तवत्यस्म्यहं देव तस्मादन्नं न विद्यते । KK03-16-264-021a
ततः प्रोवाच भगवान्कृष्णां कमललोचनः ॥ KK03-16-264-021c
कृष्णे न नर्मकालोऽयं क्षुच्छ्रमेणातुरे मयि । KK03-16-264-022a
शीघ्रं गच्छ मम स्थालीमानयित्वा प्रदर्शय ॥ KK03-16-264-022c
इति निर्बन्धतः स्थालीमानाय्य स यदूद्वहः । KK03-16-264-023a
स्थाल्याः कण्ठेऽथ संलग्नं शाकान्नं वीक्ष्यकेशवः ॥ KK03-16-264-023c
उपयुज्याब्रवीदेनामनेन हरिरीश्वरः । KK03-16-264-024a
विश्वात्मा प्रीयतां देवस्तुष्टश्चास्त्विति यज्ञभुक् ॥ KK03-16-264-024c
आकारय मुनीञ्शीघ्रं भोजनायेति चाब्रवीत् । KK03-16-264-025a
भीमसेनं महाबाहुः कृष्णः क्लेशविनाशनः ॥ KK03-16-264-025c
ततो जगाम त्वरितो भीमसेनो महायशाः । KK03-16-264-026a
आकारितुं तु तान्सर्वान्भोजनार्थं नृपोत्तम । KK03-16-264-026c
स्नातुं गतान्देवनद्यां दुर्वासःप्रभृतीन्मुनीन् ॥ KK03-16-264-026e
ते चावतीर्णाः सलिले कृतवन्तोऽघमर्षणम् । KK03-16-264-027a
दृष्ट्वोद्गारान्सान्नरसांस्तृप्त्या परमया युताः । KK03-16-264-027c
उत्तीर्य सलिलात्तस्माद्दृष्टवन्तः परस्परम् ॥ KK03-16-264-027e
दुर्वाससमभिप्रेक्ष्य ते सर्वे मुनयोऽब्रुवन् । KK03-16-264-028a
राज्ञा हि कारयित्वाऽन्नं वयं स्नातुं समागताः ॥ KK03-16-264-028c
आकण्ठतृप्ता विप्रर्षे किंस्विद्भुञ्जामहे वयम् । KK03-16-264-029a
वृथा पाकः कृतोस्माभिस्तत्र किं करवामहे ॥ KK03-16-264-029c
दुर्वासा उवाच KK03-16-264-030
वृथा पाकेन राजर्षेरपराधः कृतो महान् । KK03-16-264-030a
माऽस्मानधाक्षुर्दृष्ट्वैव पाण्डवाः क्रूरचक्षुषा ॥ KK03-16-264-030c
स्मृत्वाऽनुभावं राजर्षेरम्बरीषस्य धीमतः । KK03-16-264-031a
बिभेमि सुतरां विप्रा हरिपादाश्रयाज्जनात् ॥ KK03-16-264-031c
पाण्डवाश्च महात्मानः सर्वे धर्मपरायणाः । KK03-16-264-032a
शूराश्च कृतविद्याश्च व्रतिनस्तपसि स्थिताः ॥ KK03-16-264-032c
सदाचाररता नित्यं वासुदेवपरायणाः । KK03-16-264-033a
क्रुद्धास्ते निर्दहेयुर्वै तूलराशिमिवानलः । KK03-16-264-033c
तत एतानपृष्ट्वैव शिष्याः शीघ्रं पलायत ॥ KK03-16-264-033e
वैशम्पायन उवाच KK03-16-264-034
इत्युक्तास्ते द्विजाः सर्वे मुनिना गुरुणा तदा । KK03-16-264-034a
पाण्डवेभ्यो भृशं भीता दुद्रुवुस्ते दिशो दश ॥ KK03-16-264-034c
भीमसेनो देवनद्यामपश्यन्मुनिसत्तमान् । KK03-16-264-035a
तीर्थेष्वितस्ततस्तस्या विचचार गवेषयन् ॥ KK03-16-264-035c
तत्रस्थेभ्यस्तापसेभ्यः श्रुत्वा तांश्चैव विद्रुतान् । KK03-16-264-036a
युधिष्ठिरमथाभ्येत्य तं वृत्तान्तं न्यवेदयत् ॥ KK03-16-264-036c
ततस्ते पाण्डवाः सर्वे प्रत्यागमनकाङ्क्षिणः । KK03-16-264-037a
प्रतीक्षन्तः कियत्कालं जितात्मानोऽवतस्थिरे ॥ KK03-16-264-037c
निशीथेऽभ्येत्य चाकस्मादस्मान्स च्छलयिष्यति । KK03-16-264-038a
कथं च निस्तरेमास्मात्कृच्छ्राद्दैवोपसादितात् ॥ KK03-16-264-038c
इति चिन्तापरान्दृष्ट्वा निःश्वसन्तो मुहुर्मुहुः । KK03-16-264-039a
उवाच वचनं श्रीमान्कृष्णः प्रत्यक्षतां गतः ॥ KK03-16-264-039c
भवतामापदं ज्ञात्वा ऋषेः परमकोपनात् । KK03-16-264-040a
द्रौपद्या चिन्तितः पार्था अहं सत्वरमागतः ॥ KK03-16-264-040c
न भयं विद्यते तस्मादृषेर्दुर्वाससोऽल्पकम् । KK03-16-264-041a
तेजसा भवतां भीतः पूर्वमेव पलायितः ॥ KK03-16-264-041c
धर्मनित्यास्तु ये केचिन्न ते सीदन्ति कर्हिचित् । KK03-16-264-042a
आपृच्छे वो गमिष्यामि नियतं भद्रमस्तु वः ॥ KK03-16-264-042c
वैशम्पायन उवाच KK03-16-264-043
श्रुत्वेरितं केशवस्य बभूवुः स्वस्थमानसाः । KK03-16-264-043a
द्रौपद्या सहिताः पार्थास्तमूचुर्विगतज्वराः ॥ KK03-16-264-043c
त्वया नाथेन गोविन्द दुस्तरामापदं विभो । KK03-16-264-044a
तीर्णाः प्लवमिवासाद्य मज्जमाना महार्णवे ॥ KK03-16-264-044c
स्वस्ति साधय भद्रं ते इत्याज्ञातो ययौ पुरीम् ॥ KK03-16-264-045ac
पाण्डवाश्च महाभाग द्रौपद्या सहिताः प्रभो । KK03-16-264-046a
ऊषुः प्रहृष्टमनसो विहरन्तो वनाद्वनम् । KK03-16-264-046c
इति तेऽभिहितं राजन्यत्पृष्टोऽहमिह त्वया ॥ KK03-16-264-046e
एवंविधान्यलीकानि धार्तराष्ट्रैर्दुरात्मभिः । KK03-16-264-047a
पाण्डवेषु वनस्थेषु प्रयुक्तानि वृथाऽभवन् ॥ KK03-16-264-047c

इति श्रीमन्महाभारते अरण्यपर्वणि द्रौपदीहरणपर्वणि चतुःषष्ट्यधिकद्विशततमोऽध्यायः ॥ 264 ॥

3-264-6 एतस्मिन्नन्तरे काले ॥ 3-264-9 आकूतीनां चित्तीनां चेति चेतोवृत्तिविशेषाणाम् ॥ 3-264-25 सहदेव महाबाहुरिति झ. पाठः ॥ 3-264-26 सहदेवो महायशा इति झ. पाठः ॥ 3-264-35 सहदेवो देवनद्यामिति झ. पाठः ॥ 3-264-47 अलीकान्यहितानि ॥