अध्यायः 263

कादाचन शिष्यायुतसहितेन दुर्वाससा दुर्योधनगृहम् प्रति गमनम् ॥ 1 ॥ दुर्योधनेन स्वपरिचर्यासन्तुष्टं तम् प्रति ब्राह्मणादीनां द्रौपद्याश्च भोजनावसाने भोजनाय पाण्डवान्प्रति गमनप्रार्थना ॥ 2 ॥ दुर्वाससा तस्मै तद्वरदानपूर्वकम् पाण्डवान्प्रति प्रस्थानम् ॥ 3 ॥

जनमेजय उवाच KK03-16-263-001
वसत्स्वेवं वने तेषु पाण्डवेषु महात्मसु । KK03-16-263-001a
रममाणेषु चित्राभिः कथाभिर्मुनिभिः सह ॥ KK03-16-263-001c
सूर्यदत्ताक्षयान्नेन कृष्णाया भोजनावधि । KK03-16-263-002a
ब्राह्मणांस्तर्पमाणेषु ये चान्नार्थमुपागताः । KK03-16-263-002c
आरण्यानां मृगाणां च मांसैर्नानाविधैरपि ॥ KK03-16-263-002e
धार्तराष्ट्रा दुरात्मानः सर्वे दुर्योधनादयः । KK03-16-263-003a
कथं तेष्वन्ववर्तन्त पापाचारा महामुने ॥ KK03-16-263-003c
दुःशासनस्य कर्णस्य शकुनेश्च मते स्थिताः । KK03-16-263-004a
एतदाचक्ष्व भगवन्वैशम्पायन पृच्छतः ॥ KK03-16-263-004c
वैशम्पायन उवाच KK03-16-263-005
श्रुत्वा तेषां तथा वृत्तिं नगरे वसतामिव । KK03-16-263-005a
दुर्योधनो महाराज तेषु पापमरोचयत् ॥ KK03-16-263-005c
तथा तैर्निकृतिप्रज्ञैः कर्णदुःशासनादिभिः । KK03-16-263-006a
नानोपायैरघं तेषु चिन्तयत्सु दुरात्मसु ॥ KK03-16-263-006c
अभ्यागच्छत्स धर्मात्मा तपस्वी सुमहायशाः । KK03-16-263-007a
शिष्यायुतसमोपेतो दुर्वासा नाम कामतः ॥ KK03-16-263-007c
तमागतमभिप्रेक्ष्य मुनिं परमकोपनम् । KK03-16-263-008a
दुर्योधनो विनीतात्मा प्रश्रयेण दमेन च । KK03-16-263-008c
सहितो भ्रातृभिः श्रीमानातिथ्येन न्यमन्त्रयत् ॥ KK03-16-263-008e
विधिवत्पूजयामास स्वयं किङ्करवत्स्थितः । KK03-16-263-009a
अहानि कतिचित्तत्र तस्थौ स मुनिसत्तमः ॥ KK03-16-263-009c
तं च पर्यचरद्राजा दिवारात्रमतन्द्रितः । KK03-16-263-010a
दुर्योधनो महाराज शापात्तस्य विशङ्कितः ॥ KK03-16-263-010c
क्षुधितोऽस्मि ददस्वान्नं शीघ्रं मम नराधिप । KK03-16-263-011a
इत्युक्त्वा गच्छति स्नातुं प्रत्यागच्छति वै चिरात् ॥ KK03-16-263-011c
न भोक्ष्याम्यद्य मे नास्ति क्षुधेत्युक्त्वैत्यदर्शनम् । KK03-16-263-012a
अकस्मादेत्य च ब्रूते भोजनयास्मांस्त्वरान्वितः ॥ KK03-16-263-012c
कदाचिच्च निशीथे स उत्थाय निकृतौ स्थितः । KK03-16-263-013a
पूर्ववत्कारयित्वाऽन्नं न भुङ्क्ते गर्हयन्स्म सः ॥ KK03-16-263-013c
वर्तमाने तथा तस्मिन्यदा दुर्योधनो नृपः । KK03-16-263-014a
विकृतिं नैति न क्रोधं तदा तुष्टोऽभवन्मुनिः ॥ KK03-16-263-014c
आह चैनं दुराधर्षो वरदोऽस्मीति भारत ॥ KK03-16-263-015ac
वरं वरय भद्रं ते यत्ते मनसि वर्तते । KK03-16-263-016a
मयि प्रीते तु यद्धर्म्यं नालभ्यं विद्यते तव ॥ KK03-16-263-016c
वैशम्पायन उवाच KK03-16-263-017
एतच्छ्रुत्वा वचस्तस्य महर्षेर्भावितात्मनः । KK03-16-263-017a
अमन्यत पुनर्जातमात्मानं स सुयोधनः ॥ KK03-16-263-017c
प्रागेव मन्त्रितं चासीत्कर्णदुःशासनादिभिः । KK03-16-263-018a
याचनीयं मुनेस्तुष्टादिति निश्चित्य दुर्मतिः ॥ KK03-16-263-018c
अतिहर्षान्वितो राजन्वरमेनमयाचत । KK03-16-263-019a
शिष्यैः सह मम ब्रह्मन्यथा जातोऽतिथिर्भवान् ॥ KK03-16-263-019c
अस्मत्कुले महाराजो ज्येष्ठः श्रेष्ठो युधिष्ठिरः । KK03-16-263-020a
वने वसति धर्मात्मा भ्रातृभिः परिवारितः । KK03-16-263-020c
गुणवाञ्शीलसम्पन्नस्तस्य त्वमतिथिर्भव ॥ KK03-16-263-020e
यदा च राजपुत्री सा सुकुमारी यशस्विनी । KK03-16-263-021a
भोजयित्वा द्विजान्सर्वान्पतींश्च वरवर्णिनी ॥ KK03-16-263-021c
विश्रान्ता च स्वयं भुक्त्वा सुखासीना भवेद्यदा । KK03-16-263-022a
तदा त्वं तत्र गच्छेथा यद्यनुग्राह्यता मयि ॥ KK03-16-263-022c
तथा करिष्ये त्वत्प्रीत्येत्येवमुक्त्वा सुयोधनम् । KK03-16-263-023a
दुर्वासा अपि विप्रेन्द्रो यथागतमगात्ततः ॥ KK03-16-263-023c
कृतार्थमपि चात्मानं तदा मेने सुयोधनः । KK03-16-263-024a
करेण च करं गृह्य कर्णस्य मुदितो भृशम् ॥ KK03-16-263-024c
कर्णोपि भ्रातृसहितमित्युवाच नृपं मुदा । KK03-16-263-025a
दिष्ट्या कामः सुसंवृत्तो दिष्ट्या कौरव वर्धसे । KK03-16-263-025c
दिष्ट्या ते शत्रवो मग्ना दुस्तरे व्यसनार्णवे ॥ KK03-16-263-025e
दुर्वासःक्रोधजे वह्नौ पतिताः पाण्डुनन्दनाः । KK03-16-263-026a
स्वैरेव ते महापापैर्गता वै दुस्तरं तमः ॥ KK03-16-263-026c
वैशम्पायन उवाच KK03-16-263-027
इत्थं ते निकृतिप्रज्ञा राजन्दुर्योधनादयः । KK03-16-263-027a
हसन्तः प्रीतमनसो जग्मुः स्वंस्वं निकेतनम् ॥ KK03-16-263-027c

ति श्रीमन्महाभारते अरण्यपर्वणि द्रौपदीहरणपर्वणि त्रिषष्ट्यधिकद्विशततमोऽध्यायः ॥ 263 ॥

  • इतः परं दुर्वासउपाख्यानात्मकमध्यायद्वयं झ. पुस्तकएव दृश्यते । 3-263-6 अघं दुःखम् ॥ 3-263-16 धर्म्ये धर्मादनपेतम् ॥