अध्यायः 262
देवदूतात्स्वर्गसुखस्यास्थिरताम् परिजानता मुद्गलेन स्वर्गानभिरोचनपूर्वकं देवदूतस्य स्वर्गम् प्रति प्रस्थापनम् ॥ 1 ॥ व्यासेन युधिष्ठिरम् प्रति मुद्गलोपाख्यानकथनपूर्वकं स्वाश्रमम् प्रति गमनम् ॥ 2 ॥
देवदूत उवाच KK03-15-262-001
महर्षेऽकार्यबुद्धिस्त्वं यः स्वर्गसुखमुत्तमम् । KK03-15-262-001a
सम्प्राप्तं प्रतिपत्तव्यं विमृशस्यबुधो यथा ॥ KK03-15-262-001c
उपरिष्टादयं लोको योऽयं स्वरिति सञ्ज्ञितः । KK03-15-262-002a
ऊर्ध्वगः सत्पथः शश्वद्देवयानचरो मुने ॥ KK03-15-262-002c
नातप्ततपसः पुंसो नामहायज्ञयाजिनः । KK03-15-262-003a
नानृता नास्तिकाश्चैव तत्र गच्छन्ति मुद्गल ॥ KK03-15-262-003c
धर्मात्मानो जितात्मानः शान्ता दान्ता विमत्सराः । KK03-15-262-004a
दानधर्मरताः पुंसः शूराश्चाहितलक्षणाः ॥ KK03-15-262-004c
तत्र गच्छन्ति धर्माग्र्यं कृत्वा शमदमात्मकम् । KK03-15-262-005a
लोकान्पुण्यकृतां ब्रह्मन्सद्भिराचरितान्नृभिः ॥ KK03-15-262-005c
देवाः साध्यास्तथा विश्वे तथैव च महर्षयः । KK03-15-262-006a
यामा धामाश्च मौद्गल्य गन्धर्वाप्सरसस्तथा ॥ KK03-15-262-006c
एषां देवनिकायानां पृथक्पृथगनेकशः । KK03-15-262-007a
भास्वन्तः कामसम्पन्ना लोकास्तेजोमयाः शुभाः ॥ KK03-15-262-007c
त्रयस्त्रिंशत्सहस्राणि योजनानि हिरण्मयः । KK03-15-262-008a
मेरुः पर्वतराड्यत्र देवोद्यानानि मुद्गल ॥ KK03-15-262-008c
'नन्दनान्यतिरम्याणि तत्रोद्यानानि मुद्गल । KK03-15-262-009a
सर्वकामफलैर्वृक्षैः शोभितानि समन्ततः' ॥ KK03-15-262-009c
नन्दनादीनि पुण्यानि विहाराः पुण्यकर्मणाम् । KK03-15-262-010a
न क्षुत्पिपासे न ग्लानिर्न शीतोष्णे भयं तथा ॥ KK03-15-262-010c
बीभत्समशुभं वाऽपि रोगो वा तत्र कश्चन । KK03-15-262-011a
मनोज्ञाः सर्वतो गन्धाः सुखस्पर्शाश्च सर्वशः ॥ KK03-15-262-011c
शब्दाः श्रुतिमनोग्राह्याः सर्वतस्तत्र वै मुने । KK03-15-262-012a
न शोको न जरा तत्र नायासपरिदेवने ॥ KK03-15-262-012c
ईदृशः स मुने लोकः स्वकर्मफलहेतुकः । KK03-15-262-013a
सुकृतैस्तत्र पुरुषाः सम्भवन्त्यात्मकर्मभिः ॥ KK03-15-262-013c
तैजसानि शरीराणि भवन्त्यत्रोपपद्यताम् । KK03-15-262-014a
कर्मजान्येव मौद्गल्य न मातृपितृजान्युत ॥ KK03-15-262-014c
न संस्वेदो न दौर्गन्ध्यं पुरीषं मूत्रमेव च । KK03-15-262-015a
तेषां न च रजोवस्त्रं बाधते तत्र वै मुने ॥ KK03-15-262-015c
न म्लायन्ति स्रजस्तेषां दिव्यगन्धा मनोरमाः । KK03-15-262-016a
समूह्यन्ते विमानैश्च ब्रह्मन्नेवंविधा हि ते ॥ KK03-15-262-016c
ईर्ष्याशोकक्लमापेता मोहमात्सर्यवर्जिताः । KK03-15-262-017a
सुखं स्वर्गजितस्तत्र वर्तयन्ते महामुने ॥ KK03-15-262-017c
तेषां तथाविधानां तु लोकानां मुनिपुङ्गव । KK03-15-262-018a
उपर्युपरि शक्रस्य लोका दिव्या गुणान्विताः ॥ KK03-15-262-018c
परतो ब्रह्मणस्तस्य लोकस्तेजोमयः शुभः । KK03-15-262-019a
यत्र यान्त्यृषयो ब्रह्मन्पूताः स्वैः कर्मभिः शुभैः ॥ KK03-15-262-019c
ऋभवो नाम तत्रान्ये देवानामपि देवताः । KK03-15-262-020a
तेषां लोकाः परतरे यान्यजन्तीह देवताः ॥ KK03-15-262-020c
स्वयम्प्रभास्ते भास्वन्तो लोकाः कामदुघाः परे । KK03-15-262-021a
न तेषां स्त्रीकृतस्तापो न भोगैश्वर्यमत्सरः ॥ KK03-15-262-021c
न वर्तयन्त्याहुतिभिस्ते नाप्यमृतभोजनाः । KK03-15-262-022a
तथा दिव्यशरीरास्ते न च विग्रहमूर्तयः ॥ KK03-15-262-022c
नासुखाः सुखकामास्ते देवदेवाः सनातनाः । KK03-15-262-023a
न कल्पपरिवर्तेषु परिवर्तन्ति ते तथा ॥ KK03-15-262-023c
जरा मृत्युः कुतस्तेषां हर्षः प्रीतिः सुखं न च । KK03-15-262-024a
न दुःखं न सुखं चापि रागद्वेषौ कुतो मुने ॥ KK03-15-262-024c
देवानामपि मौद्गल्य काङ्क्षिता सा गतिः परा । KK03-15-262-025a
दुष्प्रापा परमा सिद्धिरगम्या कामगोचरैः ॥ KK03-15-262-025c
त्रयस्त्रिंशदिमे लोकाः शेषा लोका मनीषिभिः । KK03-15-262-026a
गम्यन्ते नियमैः श्रेष्ठैर्दानैर्वा विधिपूर्वकैः ॥ KK03-15-262-026c
सेयं दानकृता व्युष्टिरनुप्राप्ता सुखं त्वया । KK03-15-262-027a
तां भुङ्क्ष्व सुकृतैर्लब्धां तपसा द्योतितप्रभः ॥ KK03-15-262-027c
एतत्स्वर्गसुखं विप्र लोका नानाविधास्तथा । KK03-15-262-028a
गुणाः स्वर्गस्य प्रोक्तास्ते दोषानपि निबोध मे ॥ KK03-15-262-028c
कृस्य कर्मणस्तत्र भुज्यते यत्फलं दिवि । KK03-15-262-029a
न चान्यत्क्रियते कर्म मूलच्छेदेन भुज्यते ॥ KK03-15-262-029c
सोऽत्र दोषो मम मतस्तस्यान्ते पतनं च यत् । KK03-15-262-030a
सुखव्याप्तमनस्कानां पतनं यच्च मुद्गल ॥ KK03-15-262-030c
असन्तोषः परीतापो दृष्ट्वा दीप्ततराः श्रियः । KK03-15-262-031a
यद्भवत्यवरे स्थाने स्थितानां तत्सुदुष्करम् ॥ KK03-15-262-031c
सञ्ज्ञामोहश्च पततां रजसा च प्रधर्षणम् । KK03-15-262-032a
प्रम्लानेषु च माल्येषु ततः पिपतिषोर्भयम् ॥ KK03-15-262-032c
आब्रह्मभवनादेते दोषा मौद्गल्य दारुणाः । KK03-15-262-033a
नाकलोके सुकृतिनां गुणास्त्वयुतशो नृणाम् ॥ KK03-15-262-033c
अयं त्वन्यो गुणः श्रेष्ठश्च्युतानां स्वर्गतो मुने । KK03-15-262-034a
शुभानुशययोगेन मनुष्येषूपजायते ॥ KK03-15-262-034c
तत्रापि स महाभागः कुले महति जायते । KK03-15-262-035a
न चेत्सम्बुध्यते तत्र गच्छत्यधमतां ततः ॥ KK03-15-262-035c
इह यत्क्रियते कर्म तत्परत्रोपभुज्यते । KK03-15-262-036a
कर्मभूमिरियं ब्रह्मन्फलभूमिरसौ मता ॥ KK03-15-262-036c
[मुद्गल उवाच KK03-15-262-037
महान्तस्तु अमी दोषास्त्वया स्वर्गस्य कीर्तिताः । KK03-15-262-037a
निर्दोष एव यस्त्यन्यो लोकं तं प्रवदस्व मे ॥ KK03-15-262-037c
देवदूत उवाच KK03-15-262-038
ब्रह्मणः सदनादूर्ध्वं तद्विष्णोः परमं पदम् । KK03-15-262-038a
शुद्धं सनातनं ज्योतिः परं ब्रह्मेति यद्विदुः ॥ KK03-15-262-038c
न तत्र विप्र गच्छन्ति पुरुषा विषयात्मकाः । KK03-15-262-039a
दम्भलोभमहाक्रोधमोहद्रोहैरभिद्रुताः ॥ KK03-15-262-039c
निर्ममा निरहङ्कारा निर्द्विन्द्वाः संयतेन्द्रियाः । KK03-15-262-040a
ध्यानयोगपराश्चैव तत्र गच्छन्ति मानवाः ॥] KK03-15-262-040c
एतत्ते सर्वमाख्यातं यन्मां पृच्छसि मुद्गल । KK03-15-262-041a
तवानुकम्पया साधो साधु गच्छाम माचिरम् ॥ KK03-15-262-041c
व्यास उवाच KK03-15-262-042
एतच्छ्रुत्वा तु मौद्गल्यो वाक्यं विममृशे धिया । KK03-15-262-042a
विमृश्य च मुनिश्रेष्ठो देवदूतमुवाच ह ॥ KK03-15-262-042c
देवदूत नमस्तेऽम्तु गच्छ तात यथासुखम् । KK03-15-262-043a
महादोषेण मे कार्यं न स्वर्गेण सुखेन वा ॥ KK03-15-262-043c
पतनान्ते महादुःखं परितापः सुदारुणः । KK03-15-262-044a
स्वर्गभाजः पतन्तीह तस्मात्स्वर्गं न कामये ॥ KK03-15-262-044c
यत्र गत्वा न शोचन्ति न व्यथन्ति चलन्ति वा । KK03-15-262-045a
तदहं स्थानमत्यन्तं मार्गयिष्यामि केवलम् ॥ KK03-15-262-045c
इत्युक्त्वा स मुनिर्वाक्यं देवदूतं विसृज्य तम् । KK03-15-262-046a
शिलोञ्छवृत्तिमुत्सृज्य शममातिष्ठदुत्तमम् ॥ KK03-15-262-046c
तुल्यनिन्दास्तुतिर्भूत्वा समलोष्टाश्मकाञ्चनः । KK03-15-262-047a
ज्ञानयोगेन शुद्धेन ध्याननित्यो बभूव ह ॥ KK03-15-262-047c
'निगृहीतेन्द्रियग्रामः समयोजयदात्मनि । KK03-15-262-048a
युक्तचित्तं यथाऽऽत्मानं युयोज परमेश्वरे' ॥ KK03-15-262-048c
ध्यानयोगाद्बलं लब्ध्वा प्राप्य बुद्धिमनुत्तमाम् । KK03-15-262-049a
जगाम शाश्वतीं सिद्धिं परां निर्वाणलक्षणाम् ॥ KK03-15-262-049c
तस्मात्त्वमपि कौन्तेय न शोकं कर्तुमर्हसि । KK03-15-262-050a
राज्यात्स्फीतात्परिभ्रष्टस्तपसा तदवाप्स्यसि ॥ KK03-15-262-050c
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् । KK03-15-262-051a
पर्यायेणोपसर्पन्ते नरं नेमिमरा इव ॥ KK03-15-262-051c
पितृपैतामहं राज्यं प्राप्स्यस्यमितविक्रम । KK03-15-262-052a
वर्षात्त्रयोदशादूर्ध्वं व्येतु ते मानसो ज्वरः ॥ KK03-15-262-052c
वैशम्पायन उवाच KK03-15-262-053
स एवमुक्त्वा भगवान्व्यासः पाण्डवनन्दनम् । KK03-15-262-053a
जगाम तपसे धीमान्पुनरेवाश्रमं प्रति ॥ KK03-15-262-053c
इति श्रीमन्महाभारते अरण्यपर्वणि व्रीहिद्रौणिकपर्वणि द्विषष्ट्यधिकद्विशततमोऽध्यायः ॥ 262 ॥
-262-2 उपरिष्टाच्च स्वर्लोकः इति ख. झ. पाठः ॥ 3-262-3 पुंसः पुमांसः ॥ 3-262-4 शूराश्चाहवलक्षणाः इति ख. झ. पाठः ॥ 3-262-6 यामा धामाश्च गणविशेषाः ॥ 3-262-7 देवानां निकाया आलया येषु तेषां देवनिकायानाम् ॥ 3-262-14 उपपद्यतामुपगच्छताम् ॥ 3-262-26 त्रयस्त्रिंशदिमे देवा येषां लोका इति ख. झ. पाठः ॥ 3-262-27 व्युष्टिः सम्पत्तिः . । 3-262-51 नेमि चक्रधाराम् । अराः नाभिनेमिसन्धानदारूणि ॥