अध्यायः 261

मुद्गलचित्तपरीक्षणाय दुर्वाससा षट्कृत्वो याचनेप्यविकृतमनसा तेन तदातदाऽन्नदानेन तत्तोषणम् ॥ 1 ॥ तन्महिम्ना सविमानेन देवदूतेन सशरीरस्यैव मुद्गलस्य स्वर्गम् प्रत्याह्नानम् ॥ 2 ॥ मुद्गलेन तम् प्रति स्वर्गस्वरूपनिरूपणप्रार्थना ॥ 3 ॥

युधिष्ठिर उवाच KK03-15-261-001
व्रीहिद्रोणः परित्यक्तः कथं तेन महात्मना । KK03-15-261-001a
कस्मै दत्तश्च भगवन्विधिना केन चात्थ मे ॥ KK03-15-261-001c
प्रत्यक्षधर्मा भगवान्यस्य तुष्टो हि कर्मभिः । KK03-15-261-002a
सफलं तस्य जन्माहं मन्ये सद्धर्मचारिणः ॥ KK03-15-261-002c
व्यास उवाच KK03-15-261-003
शिलोञ्छवृत्तिर्धर्मात्मा मुद्गलः संयतेन्द्रियः । KK03-15-261-003a
आसीद्राजन्कुरुक्षेत्रे सत्यवागनसूयकः ॥ KK03-15-261-003c
अतिथिव्रती क्रियावांश्च कापोतीं वृत्तिमास्थितः । KK03-15-261-004a
सत्रमिष्टीकृतं नाम समुपास्ते महातपाः ॥ KK03-15-261-004c
सपुत्रदारो हि मुनिः पक्षाहारो बभूव ह । KK03-15-261-005a
कपोतवृत्त्या पक्षेण व्रीहिद्रोणमुपार्जयत् ॥ KK03-15-261-005c
दर्शं च पौर्णमासं च कुर्वन्विगतमत्सरः । KK03-15-261-006a
देवतातिथिशेषेण कुरुते देहयापनम् ॥ KK03-15-261-006c
तत्रेन्द्रः सहितो देवैः साक्षात्त्रिभुवनेश्वरः । KK03-15-261-007a
प्रत्यगृह्णान्महाराज भागं पर्वणिपर्वणि ॥ KK03-15-261-007c
स पर्वकाल्यं कृत्वा तु मुनिवृत्त्या समन्वितः । KK03-15-261-008a
अतिथिभ्यो ददावन्नं प्रहृष्टेनान्तरात्मना ॥ KK03-15-261-008c
व्रीहिद्रोणस्य तत्प्रीत्या ददतोऽन्नं महात्मनः । KK03-15-261-009a
ऋषेर्मात्सर्यहीनस्य वर्धत्यतिथिदर्शनात् ॥ KK03-15-261-009c
तच्छतान्यपि भुञ्जन्ति ब्राह्मणानां मनीषिणाम् । KK03-15-261-010a
मुनेस्त्यागविशुद्ध्या तु तदन्नं वृद्धिमृच्छति ॥ KK03-15-261-010c
तं तु शुश्राव धर्मिष्ठं मुद्गलं संशितव्रतम् । KK03-15-261-011a
दुर्वासा नृप दिग्वासास्तमथाभ्याजगाम ह ॥ KK03-15-261-011c
विभ्रच्चानियतं वेषमुन्मत्त इव पाण्डव । KK03-15-261-012a
विकचः परुषा वाचो व्याहरन्विविधा मुनिः ॥ KK03-15-261-012c
अभिगम्याथ तं विप्रमुवाच मुनिसत्तमः । KK03-15-261-013a
अन्नार्थिनमनुप्राप्तं विद्धि मां मुनिसत्तम ॥ KK03-15-261-013c
स्वागतं तेऽस्त्विति मुनिं मुद्गलः प्रत्यभाषत । KK03-15-261-014a
पाद्यमाचमनीयं च प्रतिवेद्यान्नमुत्तमम् ॥ KK03-15-261-014c
प्रादात्स तपसोपात्तं क्षुधितायातिथिप्रियः । KK03-15-261-015a
उन्मत्ताय परां श्रद्धामास्थाय स धृतव्रतः ॥ KK03-15-261-015c
ततस्तदन्नं रसवत्स एव क्षुधयाऽन्वितः । KK03-15-261-016a
बुभुजे कृत्स्नमुन्मत्तः प्रादात्तस्मै च मुद्गलः ॥ KK03-15-261-016c
भुक्त्वा चान्नं ततः सर्वमुच्छिष्टेनात्मनस्ततः । KK03-15-261-017a
अथाङ्गं लिलिपेऽन्नेन यथागतमगाच्च सः ॥ KK03-15-261-017c
'तेनैवात्मानमालिप्य हसन्गायन्प्रधावति । KK03-15-261-018a
नृत्यते धावते चैव बुद्ध्या तत्क्रोशते तथा' ॥ KK03-15-261-018c
एवं द्वितीये सम्प्राप्ते पर्वकाले मनीषिणः । KK03-15-261-019a
आगम्य बुभुजे सर्वमन्नमुञ्छोपजीविनः ॥ KK03-15-261-019c
निराहारस्तु स मुनिरुञ्छमार्जयते पुनः । KK03-15-261-020a
न चैनं विक्रियां नेतुमशकन्मुद्गलं क्षुधा ॥ KK03-15-261-020c
न क्रोधो न च मात्सर्यं नावमानो न सम्भ्रमः । KK03-15-261-021a
सपुत्रदारमुञ्छन्तमाविवेश द्विजोत्तमम् ॥ KK03-15-261-021c
तथा तमुञ्छधर्माणं दुर्वासा मुनिसत्तमम् । KK03-15-261-022a
उपतस्थे यथाकालं षट्कृत्वः कृतनिश्चयः ॥ KK03-15-261-022c
न चास्य मनसः कश्चिद्विकारो दृश्यते मुनेः । KK03-15-261-023a
शुद्धसत्वस्य शुद्धं स ददृशे निर्मलं मनः ॥ KK03-15-261-023c
तमुवाच ततः प्रीतः स मुनिर्मुद्गलं तदा । KK03-15-261-024a
त्वत्समो नास्ति लोकेऽस्मिन्दाता मात्सर्यवर्जितः ॥ KK03-15-261-024c
क्षुद्धर्मसञ्ज्ञां प्रणुदत्यादत्ते धैर्यमेव च । KK03-15-261-025a
विषयानुसारिणी जिह्वा कर्षत्येव रसान्प्रति ॥ KK03-15-261-025c
आहारप्रभवाः प्राणा मनो दुर्निग्रहं चलम् । KK03-15-261-026a
मनसश्चेन्द्रियाणां चाप्यैकाग्र्यं निश्चितं तपः ॥ KK03-15-261-026c
श्रमेणोपार्जितं त्यक्तं न च दुःखेन चेतसा । KK03-15-261-027a
तत्सर्वं भवता साधो यथावदुपपादितम् ॥ KK03-15-261-027c
प्रीताः स्मोऽनुगृहीताश्च समेत्य भवता सह । KK03-15-261-028a
इन्द्रियाभिजयो धैर्यं संविभागो दमः शमः । KK03-15-261-028c
दया सत्यं च धर्मश्च त्वयि सर्वं प्रतिष्ठितम् ॥ KK03-15-261-028e
'लोकाः समस्ता धर्मेण धार्यन्ते सचराचराः । KK03-15-261-029a
धर्मोपि धार्यते येन धृतियुक्त त्वयाऽऽत्मना ॥ KK03-15-261-029c
विशुद्धसत्वसम्पन्नो न त्वदन्योस्ति कश्चन' । KK03-15-261-030a
जितास्ते कर्मभिर्लोकाः प्राप्तोसि परमां गतिम् ॥ KK03-15-261-030c
अहो दानं विघुष्टं ते सुमहत्स्वर्गवासिभिः । KK03-15-261-031a
सशरीरो भवान्गन्ता स्वर्गं सुचरितव्रत ॥ KK03-15-261-031c
इत्येवं वदतस्तस्य तदा दुर्वाससो मुनेः । KK03-15-261-032a
देवदूतो विमानेन मुद्गलं प्रत्युपस्थितः ॥ KK03-15-261-032c
हंससारसयुक्तेन किङ्किणीजालमालिना । KK03-15-261-033a
कामगेन विचित्रेण दिव्यगन्धवता तथा ॥ KK03-15-261-033c
उवाच चैनं विप्रर्षिं विमानं कर्मभिर्जितम् । KK03-15-261-034a
समुपारोह संसिद्धिं प्राप्तोसि परमां मुने ॥ KK03-15-261-034c
तमेवंवादिनमृषिर्देवदूतमुवाच ह । KK03-15-261-035a
इच्छामि भवता प्रोक्तान्गुणान्स्वर्गनिवासिनाम् ॥ KK03-15-261-035c
के गुणास्तत्रवसतां किं तपः कश्च निश्चयः । KK03-15-261-036a
स्वर्गे तत्र सुखं किं च दोषो वा देवदूतक ॥ KK03-15-261-036c
सतां साप्तपदं मित्रमाहुः सन्तः कुलोचिताः । KK03-15-261-037a
मित्रतां च पुरस्कृत्य पृच्छामि त्वामहं विभो ॥ KK03-15-261-037c
यदत्र तथ्यं पथ्यं च तद्ब्रवीह्यविचारयन् । KK03-15-261-038a
श्रुत्वा तथा करिष्यामि व्यवसायं गिरा तव ॥ KK03-15-261-038c

इति श्रीमन्महाभारते अरण्यपर्वणि व्रीहिद्रौणिकपर्वणि एकषष्ट्यधिकद्विशततमोऽध्यायः ॥ 261 ॥

3-261-2 प्रत्यक्षधर्मा नृणां धर्मस्य वेत्ता । भगवान् ईश्वरः ॥ 3-261-3 उञ्छः कणश आदानं कणिशाद्यर्जनं शिलमिति यादवः । ते उभे वृत्तिर्जीवनं यस्य स शिलोञ्छवृत्तिः ॥ 3-261-4 कापोतीं वृत्तिम् अल्पसङ्ग्रहरूपाम् । इष्टीकृतम् इष्टिभिरेव निर्वर्त्यं नतु पश्वादिना सत्रं यज्ञम् ॥ 3-261-9 व्रीहिद्रोणमात्रं यदा सिध्यति तदा ददाति तदा च दीयमानं तद्वर्धति वर्धते ॥ 3-261-10 ऋच्छति प्राप्नोति ॥ 3-261-12 विकचः हसन्मुण्डो वा ॥ 3-261-19 द्वितीये पक्षे ॥ 3-261-25 क्षुत् क्षुधा ॥ 3-261-27 त्यक्तुं दुःखं शुद्धेन चेतसा इति ख. झ. ध. पाठः ॥ 3-261-38 व्यवसायं निश्चयम् ॥