अध्यायः 260
कदाचन काम्यकवनवासिनः पाण्डवानुपागतेन व्यासेन युधिष्ठिरम् प्रति दानप्रशंसनम् ॥ 1 ॥
वैशम्पायन उवाच KK03-15-260-001
वने निवसतां तेषां पाण्डवानां महात्मनाम् । KK03-15-260-001a
वर्षाण्येकादशातीयुः कृच्छ्रेण भरतर्षभ ॥ KK03-15-260-001c
फलमूलाशनास्ते हि सुखार्हा दुःखमुत्तमम् । KK03-15-260-002a
प्राप्तकालमनुध्यान्तः सेहिरे वरपूरुषाः ॥ KK03-15-260-002c
युधिष्ठिरस्तु राजर्षिरात्मकर्मापराधजम् । KK03-15-260-003a
चिन्तयन्स महाबाहुर्भ्रातॄणां दुःखमुत्तमम् ॥ KK03-15-260-003c
न सुष्वाप सुखं राजा हृदि शल्यैरिवार्पितैः । KK03-15-260-004a
दौरात्म्यमनुपश्यंस्तत्काले द्यूतोद्भवस्य हि ॥ KK03-15-260-004c
संस्मरन्परुषा वाचः सूतपुत्रस्य पाण्डवः । KK03-15-260-005a
निःश्वासपरमो दीनो दध्रे कोपविषं महत् ॥ KK03-15-260-005c
अर्जुनो यमजौ चोभौ द्रौपदी च यशस्विनी । KK03-15-260-006a
स च भीमो महातेजाः सर्वेषामुत्तमो बले ॥ KK03-15-260-006c
'चिरस्य जातं धर्मज्ञं सासूयमिव ते तदा' । KK03-15-260-007a
युधिष्ठिरमुदीक्षन्तः सेहुर्दुखमनुत्तमम् ॥ KK03-15-260-007c
अवशिष्टं त्वल्पकालं मन्वानाः पुरुषर्षभाः । KK03-15-260-008a
वपुरन्यदिवाकार्षुरुत्साहामर्षचेष्टितैः ॥ KK03-15-260-008c
कस्यचित्त्वथ कालस्य व्यासः सत्यवतीसुतः । KK03-15-260-009a
आजगाम महायोगी पाण्डवानवलोककः ॥ KK03-15-260-009c
तमागतमभिप्रेक्ष्य कुन्तीपुत्रो युधिष्ठिरः । KK03-15-260-010a
प्रत्युद्गम्य महात्मानं प्रत्यगृह्णाद्यथाविधि ॥ KK03-15-260-010c
तमासीनमुपासीनः शुश्रूषुर्नियतेन्द्रियः । KK03-15-260-011a
तोषयामास शौचेन व्यासं पाण्डवनन्दनः ॥ KK03-15-260-011c
तानवेक्ष्य कृशान्पौत्रान्वने वन्येन जीवतः । KK03-15-260-012a
महर्षिरनुकम्पार्थमब्रवीद्बाष्पगद्गदम् ॥ KK03-15-260-012c
युधिष्ठिर महाबाहो शृणु धर्मभृतांवर । KK03-15-260-013a
नातप्ततपसो लोके प्राप्नुवन्ति महत्सुखम् । KK03-15-260-013c
सुखदुःखे हि पुरुषः पर्यायेणोपसेवते ॥ KK03-15-260-013e
नात्यन्तमसुखं कश्चित्प्राप्नोति पुरुषर्षभ । KK03-15-260-014a
प्रज्ञावांस्त्वेव पुरुषः संयुक्तः परया धिया ॥ KK03-15-260-014c
उदयास्तमयज्ञो हि न हृष्यति न शोचति । KK03-15-260-015a
सुखमापतितं विन्दन्दुःखमापतितं सहन् ॥ KK03-15-260-015c
कालप्राप्तमुपासीत सस्यानामिव कर्षकः । KK03-15-260-016a
तपसो हि परं नास्ति तपसा विन्दते महत् ॥ KK03-15-260-016c
नासाध्यं तपसः किञ्चिदिति बुध्यस्व भारत । KK03-15-260-017a
सत्यमार्जवमक्रोधः संविभागो दमः शमः ॥ KK03-15-260-017c
अनसूयाऽविहिंसा च शौचमिन्द्रियसंयमः । KK03-15-260-018a
साधनानि महाराज नराणां पुण्यकर्मणाम् ॥ KK03-15-260-018c
अधर्मरुचयो मूढास्तिर्यग्गतिपरायणाः । KK03-15-260-019a
कृच्छ्रां योनिमनुप्राप्ता न सुखं विन्दते जनाः ॥ KK03-15-260-019c
इह यत्क्रियते कर्म तत्परत्रोपभुज्यते । KK03-15-260-020a
'मूलसिक्तस्य वृक्षस्य फलं शाखासु दृश्यते' । KK03-15-260-020c
तस्माच्छरीरं युञ्जीत तपसा नियमेन च ॥ KK03-15-260-020e
यथाशक्ति प्रयच्छेत सम्पूज्याभिप्रणम्य च । KK03-15-260-021a
काले प्राप्ते च हृष्टात्मा राजन्विगतमत्सरः ॥ KK03-15-260-021c
सत्यवादी लभेतायुरनायासमथार्जवम् । KK03-15-260-022a
अक्रोधनोऽनसूयश्च निर्वृतिं लभते पराम् ॥ KK03-15-260-022c
दान्तः शमपरः शश्वत्परिक्लेशं न विन्दति । KK03-15-260-023a
न च तप्यति दान्तात्मा दृष्ट्वा परगतां श्रियम् ॥ KK03-15-260-023c
संविभक्ता च दाता च भोगवान्सुखवान्नरः । KK03-15-260-024a
भवत्यहिंसकश्चैव परमारोग्यमश्नुते ॥ KK03-15-260-024c
मान्यं मानयिता जन्म कुले महति विन्दति । KK03-15-260-025a
'विन्दते सुखमत्यर्थमिह लोके परत्र च' । KK03-15-260-025c
व्यसनैर्न तु संयोगं प्राप्नोति विजितेन्द्रियः ॥ KK03-15-260-025e
शुभानुशयबुद्धिर्हि संयुक्तः कालधर्मणा । KK03-15-260-026a
प्रादुर्भवति तद्योगात्कल्याणमतिरेव सः ॥ KK03-15-260-026c
युधिष्ठिर उवाच KK03-15-260-027
भगवन्दानधर्माणां तपसो वा महामुने । KK03-15-260-027a
किंस्विद्बहुगुणं प्रेत्य किं वा दुष्करमुच्यते ॥ KK03-15-260-027c
व्यास उवाच KK03-15-260-028
दानान्न दुष्करं तात पृथिव्यामस्ति किञ्चन । KK03-15-260-028a
अर्थे च महती तृष्णा स च दुःखेन लभ्यते ॥ KK03-15-260-028c
'राजन्प्रत्यक्षमेवैतद्दृश्यते लोकसाक्षिकम्' । KK03-15-260-029a
परित्यज्य प्रियान्प्राणान्प्रविशन्ति रणाजिरम् । KK03-15-260-029c
तथैव प्रतिपद्यन्ते समुद्रमटवीं तथा ॥ KK03-15-260-029e
कृषिगोरक्ष्यमित्येके प्रतिपद्यन्ति मानवाः । KK03-15-260-030a
पुरुषाः प्रेष्यतामेके निर्गच्छन्ति धनार्थिनः ॥ KK03-15-260-030c
तस्माद्दुःखार्जितस्यैव परित्यागः सुदुष्करः । KK03-15-260-031a
सुदुष्करतरं दानं तस्माद्दानं मतं मम ॥ KK03-15-260-031c
विशेषस्त्वत्र विज्ञेयो न्यायेनोपार्जितं धनम् । KK03-15-260-032a
पात्रे काले च देशे च प्रयतः प्रतिपादयेत् ॥ KK03-15-260-032c
अन्यायात्समुपात्तेन दानधर्मौ धनेन यः । KK03-15-260-033a
कुरुते न स कर्तारं त्रायते महतो भयात् ॥ KK03-15-260-033c
पात्रे दानं स्वल्पमपि काले दत्तं युधिष्ठिर । KK03-15-260-034a
मनसा हि विशुद्धेन प्रेत्यानन्तफलं स्मृतम् ॥ KK03-15-260-034c
'श्रद्धा धर्मानुगा देवी पावनी विश्वधारिणी । KK03-15-260-035a
'सवित्री प्रसवित्री च संसारार्णवतारिणी ॥ KK03-15-260-035c
श्रद्धया धार्यते धर्मो महद्भिर्नार्थदर्शिभिः । KK03-15-260-036a
सधना अपि राजानो निःश्रद्धा नरकं गताः ॥ KK03-15-260-036c
निष्किञ्चनाश्च मुनयः श्रद्धावन्तो दिवं गताः । KK03-15-260-037a
देशे काले च पात्रे च मुद्गलः श्रद्धयाऽन्वितः । KK03-15-260-037c
व्रीहिद्रोणं प्रदायाथ परं पदमवाप्तवान्' ॥ KK03-15-260-037e
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । KK03-15-260-038a
व्रीहिद्रोणपरित्यागाद्यत्फलं प्राप मुद्गलः ॥ KK03-15-260-038c
इति श्रीमन्महाभारते अरण्यपर्वणि व्रीहिद्रौणिकपर्वणि षष्ट्यधिकद्विशततमोऽध्यायः ॥ 260 ॥
3-260-2 ध्यान्तः ध्यायन्तः ॥ 3-260-4 द्यूतोद्भवस्य द्यूतहेतोः शकुन्यादेः ॥ 3-260-9 अवलोककोऽवलोकितुकामः ॥ 3-260-14 नह्यनन्तं सुखं कश्चित् इति झ. पाठः ॥ 3-260-16 तपसा ज्ञानेन । महद्ब्रह्म ॥ 3-260-21 काले दानकाले ॥ 3-260-22 अनायासं क्लेशपरिहारम् । निर्वृत्तिं सुखम् । परां मोक्षाख्याम् ॥ 3-260-24 संविभक्ता अन्नादेर्विभागकर्ता । दाता धनादेः ॥ 3-260-26 शुभमेवानुशेते शुभपक्षपातिनी बुद्धिर्यस्य । कालधर्मेण मरणेन ॥ 3-260-27 दानजानां धर्माणाम् । तपसः कायक्लेशकृतस्य कृच्छ्रादेः । एतयोर्मध्ये प्रेत्य मृत्वा किं बहुगुणं किं परलोके श्रेष्ठमित्यर्थः ॥ 3-260-31 दुःखार्जितस्य धनस्येति शेषः । मतं श्रेष्ठत्वेन ॥ 3-260-38 द्रोणो मानविशेषस्तन्मिता व्रीहयस्तेषां दानात् ॥