अध्यायः 259
पाण्डवनिहतभूयिष्ठैर्मृगैर्युधिष्ठिरम् प्रति स्वप्ने स्थानान्तरगमनेन स्वकुशलशेषीकरणप्रार्थना ॥ 1 ॥ युधिष्ठिरेण भ्रातृषु स्वीयस्वप्नदर्शनकथनपूर्वकम् पुनः काम्यकवनम् प्रति गमनम् ॥ 2 ॥
जनमेजय उवाच KK03-14-259-001
दुर्योधनं मोक्षयित्वा पाण्डुपुत्रा महाबलाः । KK03-14-259-001a
किमकार्षुर्वने तस्मिंस्तन्ममाख्यातुमर्हसि ॥ KK03-14-259-001c
वैशम्पायन उवाच KK03-14-259-002
ततः शयानं कौन्तेयं रात्रौ द्वैतवने मृगाः । KK03-14-259-002a
स्वप्नान्ते दर्शयामासुर्बाष्पकण्ठा युधिष्ठिरम् ॥ KK03-14-259-002c
तानब्रवीत्स राजेन्द्रो वेपमानान्कृताञ्जलीन् । KK03-14-259-003a
ब्रूत यद्वक्तुकामाः स्थ के भवन्तः किमिष्यते ॥ KK03-14-259-003c
एवमुक्ताः पाण्डवेन कौन्तेयेन यशस्विना । KK03-14-259-004a
प्रत्यब्रुवन्मृगास्तत्र हतशेषा युधिष्ठिरम् ॥ KK03-14-259-004c
वयं मृगा द्वैतवने हतशिष्टास्तु भारत । KK03-14-259-005a
नोत्सीदेम महाराज क्रियतां वासपर्ययः ॥ KK03-14-259-005c
भवन्तो भ्रातरः शूराः सर्व एवास्त्रकोविदाः । KK03-14-259-006a
कुलान्यल्पावशिष्टानि कृतवन्तो वनौकसाम् ॥ KK03-14-259-006c
बीजभूता वयं केचिदवशिष्टा महामते । KK03-14-259-007a
विवर्धेमहि राजेन्द्र प्रसादात्ते युधिष्ठिर ॥ KK03-14-259-007c
तान्वेपमानान्वित्रस्तान्बीजमात्रावशेषितान् । KK03-14-259-008a
मृगान्दृष्ट्वा सुदुःखार्तो धर्मराजो युधिष्ठिरः ॥ KK03-14-259-008c
तांस्तथेत्यब्रवीद्राजा सर्वभूतहिते रतः । KK03-14-259-009a
यथा भवन्तो ब्रुवते करिष्यामि च तत्तथा ॥ KK03-14-259-009c
इत्येवं प्रतिबुद्धः स रात्र्यन्ते राजसत्तमः । KK03-14-259-010a
अब्रवीत्सहितान्भ्रातॄन्दयापन्नो मृगान्प्रति ॥ KK03-14-259-010c
उक्तो रात्रौ मृगैरस्मि स्वप्नान्ते हतशेषितैः । KK03-14-259-011a
तनुभूताः स्म भद्रं ते दया नः क्रियतामिति ॥ KK03-14-259-011c
ते सत्यमाहुः कर्तव्या दयाऽस्माभिर्वनौकसाम् । KK03-14-259-012a
साष्टमासं हि नो वर्षं यदेनानुपयुङ्क्ष्महे ॥ KK03-14-259-012c
पुनर्बहुमृगं रम्यं काम्यकं काननोत्तमम् । KK03-14-259-013a
तत्रेमां वसतिं शिष्टां विहरन्तो रमेमहि ॥ KK03-14-259-013c
वैशम्पायन उवाच KK03-14-259-014
ततस्ते पाण्डवाः शीघ्रं प्रययुर्धर्मकोविदाः ॥ KK03-14-259-014ac
ब्राह्मणैः सहिता राजन्ये च तत्र सहोषिताः । KK03-14-259-015a
इन्द्रसेनादिभिश्चैव प्रेष्यैरनुगतास्तदा ॥ KK03-14-259-015c
ते यात्वा सुसुखैर्मार्गैः स्वन्नैः शुचिजलान्वितैः । KK03-14-259-016a
ददृशुः काम्यकं पुण्यमाश्रमं तापसान्वितम् ॥ KK03-14-259-016c
विविशुस्ते स्म कौरव्या वृता विप्रर्षभैस्तदा । KK03-14-259-017a
तद्वनं भरतश्रेष्ठाः स्वर्गं सुकृतिनो यथा ॥ KK03-14-259-017c
इति श्रीमन्महाभारते अरण्यपर्वणि मृगस्वप्नोद्भवपर्वणि एकोनषष्ट्यधिकद्विशततमोऽध्यायः ॥ 259 ॥
3-259-5 वासस्य पर्ययः वैपरीत्यं नात्र वस्तव्यमित्यर्थः ॥