अध्यायः 258

दुर्योधनसभायां कर्णेनार्जुनवधप्रतिज्ञानम् ॥ 1 ॥ चारमुखात्पाण्डवैस्तच्छ्रवणम् ॥ 2 ॥

वैशम्पायन उवाच KK03-13-258-001
प्रविशन्तं महाराज सूतास्तुष्टुवुरच्युतम् । KK03-13-258-001a
जनाश्चापि महेष्वासं तुष्टुवू राजसत्तमम् ॥ KK03-13-258-001c
लाजैश्चन्दनचूर्णैश्च विकीर्य च जनास्ततः । KK03-13-258-002a
ऊचुर्दिष्ट्या नृपाविघ्नः समाप्तोयं क्रतुस्तव ॥ KK03-13-258-002c
अपरे त्वब्रुवंस्तत्र वादिकास्तं महीपतिम् । KK03-13-258-003a
यौधिष्ठिरस्य यज्ञस्य न समो ह्येष ते क्रतुः ॥ KK03-13-258-003c
नैव तस्य क्रतोरेष कलामर्हति षोडशीम् । KK03-13-258-004a
एवं तत्राब्रुवन्केचिद्वातिकास्तं जनेश्वरम् ॥ KK03-13-258-004c
सुहृदस्त्वब्रुवंस्तत्र अति सर्वानयं क्रतुः । KK03-13-258-005a
'प्रवर्तितो ह्ययं राज्ञा धार्तराष्ट्रेण धीमता' ॥ KK03-13-258-005c
ययातिर्नहुषश्चापि मान्धाता भरतस्तथा । KK03-13-258-006a
क्रतुमेनं समाहृत्य पूताः सर्वे दिवं गताः ॥ KK03-13-258-006c
एता वाचः शुभाः शृण्वन्सुहृदां भरतर्षभ । KK03-13-258-007a
प्रविवेश पुरं हृष्टः स्ववेश्म च नराधिपः ॥ KK03-13-258-007c
अभिवाद्य ततः पादान्मातापित्रोर्विशाम्पते । KK03-13-258-008a
भीष्मद्रोणकृपादीनां विदुरस्य च धीमतः ॥ KK03-13-258-008c
अभिवादितः कनीयोभिर्भ्रातृभिर्भ्रातृनन्दनः । KK03-13-258-009a
निषसादासने मुख्ये भ्रातृभिः परिवारितः ॥ KK03-13-258-009c
तमुत्थाय महाराजं सूतपुत्रोऽब्रवीद्वचः । KK03-13-258-010a
दिष्ट्या ते भरतश्रेष्ठ समाप्तोऽयं महाक्रतुः ॥ KK03-13-258-010c
हतेषु युधि पार्थेषु राजसूये तथा त्वया । KK03-13-258-011a
आहृतेऽहं नरश्रेष्ठ त्वां सभाजयिता पुनः ॥ KK03-13-258-011c
तमब्रवीन्महाराजो धार्तराष्ट्रो महायशाः ॥ KK03-13-258-012ac
सत्यमेतत्त्वयोक्तं हि पाण्डवेषु दुरात्मसु । KK03-13-258-013a
निहतेषु नरश्रेष्ठ प्राप्ते चापि महाक्रतौ । KK03-13-258-013c
राजसूये पुनर्वीर त्वमेवं वर्धयिष्यसि ॥ KK03-13-258-013e
एवमुक्त्वा महाराज कर्णमाश्लिष्य भारत । KK03-13-258-014a
राजसूयं क्रतुश्रेष्ठं चिन्तयामास कौरवः ॥ KK03-13-258-014c
सोऽब्रवीत्कौरवांश्चापि पार्श्वस्थान्नृपसत्तमः । KK03-13-258-015a
'राधेयसौबलादीन्वै धार्तराष्ट्रो महीपतिः' ॥ KK03-13-258-015c
कदा तु तं क्रतुवरं राजसूयं महाधनम् । KK03-13-258-016a
निहत्य पाण्डवान्सर्वानाहरिष्यामि कौरवाः ॥ KK03-13-258-016c
तमब्रवीत्तदा कर्णः शृणु मे राजकुञ्जर । KK03-13-258-017a
पादौ न धावये तावद्यावन्न निहतोऽर्जुनः ॥ KK03-13-258-017c
कीलालजं न खादेयं करिष्ये चासुरव्रतम् । KK03-13-258-018a
नास्तीति नैव वक्ष्यामि याचितो येन केचनित् ॥ KK03-13-258-018c
अथोत्क्रुष्टं महेष्वासैर्धार्तराष्ट्रैर्महारथैः । KK03-13-258-019a
प्रतिज्ञाते फल्गुनस्य वधे कर्णेन संयुगे ॥ KK03-13-258-019c
विजितांश्चाप्यमन्यन्त पाण्डवान्धृतराष्ट्रजाः । KK03-13-258-020a
'तदा प्रतिज्ञामारुह्य सूतपुत्रेण भाषिते' ॥ KK03-13-258-020c
दुर्योधनोऽपि राजेन्द्र विसृज्य नरपुङ्गवान् । KK03-13-258-021a
प्रविवेश गृहं श्रीमान्यथा चैत्ररथं प्रभुः ॥ KK03-13-258-021c
तेऽपिसर्वे महेष्वासा जग्मुर्वेश्मानि भारत । KK03-13-258-022a
'स्वानिस्वनि महाराज भीष्मद्रोणादयो नृप' ॥ KK03-13-258-022c
पाण्डवाश्च महेष्वासा दूतवाक्यप्रचोदिताः । KK03-13-258-023a
चिन्तयन्तस्तमेवार्थं नालभन्त सुखं क्वचित् ॥ KK03-13-258-023c
भूयश्च चारै राजेन्द्र प्रवृत्तिरुपपादिता । KK03-13-258-024a
प्रतिज्ञा सूतपुत्रस्य विजयस्य वधं प्रति ॥ KK03-13-258-024c
एतच्छ्रुत्वा धर्मसुतः समुद्विग्नो नराधिप । KK03-13-258-025a
'अधोमुखश्चिरं तस्थौ किं कार्यमिति चिन्तयन्' ॥ KK03-13-258-025c
अभेद्यकवचं मत्वा कर्णमद्भुतविक्रमम् । KK03-13-258-026a
अनुस्मरंश्च सङ्क्लेशान्न शान्तिमुपजग्मिवान् ॥ KK03-13-258-026c
तस्य चिन्तापरीतस्य बुद्धिर्जज्ञे महात्मनः । KK03-13-258-027a
बहुव्यालमृगाकीर्णं त्यक्तुं द्वैतवनं वनम् ॥ KK03-13-258-027c
धार्तराष्ट्रोऽपि नृपतिः प्रशशास वसुन्धराम् । KK03-13-258-028a
भ्रातृभिः सहितो वीरैर्भीष्मद्रोणकृपैस्तथा ॥ KK03-13-258-028c
सङ्गम्य सूतपुत्रेण कर्णेनाहवशोभिना । KK03-13-258-029a
'सततं प्रीयमाणो वै देविना सौबलेन च' ॥ KK03-13-258-029c
दुर्योधनः प्रिये नित्यं वर्तमानो महीभृताम् । KK03-13-258-030a
पूजयामास विप्रेन्द्रान्क्रतुभिर्भूरिदक्षिणैः ॥ KK03-13-258-030c
भ्रातॄणां च प्रियं राजन्स चकार परन्तपः । KK03-13-258-031a
निश्चित्य मनसा वीरो दत्तभुक्तफलं धनम् ॥ KK03-13-258-031c

इति श्रीमन्महाभारते अरण्यपर्वणि घोषयात्रापर्वणि अष्टपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 258 ॥

3-258-1 मागधाश्च महेष्वासं नागराश्च सहस्रशः । इति क. थ. पाठः ॥ 3-258-3 वादिकाः कृतानुवादिनो भूतविशेषाः । वातिकास्तमिति झ. पाठः । वातिकाः वातरोगोपहतचेतस उचितभाषणानभिज्ञाः ॥ 3-258-11 सभाजयिता पूजयिष्यामि ॥ 3-258-17 धावये परेणेति शेषः ॥ 3-258-18 कीलालजं मांसम् । असुरं सुरारहितं च व्रतं स्वनियमं करिष्ये । मद्यं मांसं च त्यक्ष्ये इत्यर्थः ॥ 3-258-19 उत्कुष्टम् उच्चैः शब्दः कृतः ॥