अध्यायः 257
दुर्योधनेन यज्ञसमापनानन्तरं सबहुमानम् प्राहुणिकविप्रनृपेप्रषणपूर्वकं निजनगरप्रवेशनम् ॥ 1 ॥
वैशम्पायन उवाच KK03-13-257-001
ततस्तु शिल्पिनः सर्वं कृतमूर्चुर्नराधिपम् । KK03-13-257-001a
विदुरश्च महाप्राज्ञो धृतराष्ट्रे न्यवेदयत् ॥ KK03-13-257-001c
सज्जं क्रतुवरं राजन्कालप्राप्तं च भारत । KK03-13-257-002a
सौवर्णं च कृतं सर्वं लाङ्गलं च महाधनम् ॥ KK03-13-257-002c
एवच्छ्रुत्वा नृपश्रेष्ठो धृतराष्ट्रो विशाम्पते । KK03-13-257-003a
आज्ञापयामास नृपः क्रतुराजप्रवर्तनम् ॥ KK03-13-257-003c
ततः प्रववृते यज्ञः प्रभूतार्थः सुसंस्कृतः । KK03-13-257-004a
दीक्षितश्चापि गान्धारिर्यथाशास्त्रं यथाक्रमम् ॥ KK03-13-257-004c
प्रहृष्टो धृतराष्ट्रश्च विदुरश्च महायशाः । KK03-13-257-005a
भीष्मो द्रोणः कृपः कर्णो गान्धारी च यशस्विनी ॥ KK03-13-257-005c
निमन्त्रणार्थं दूतांश्च प्रेषयामास शीघ्रगान् । KK03-13-257-006a
पार्थिवानां च राजेन्द्र ब्राह्मणानां तथैव च ॥ KK03-13-257-006c
ते प्रयाता यथोद्दिष्टा दूतास्त्वरितवाहनाः । KK03-13-257-007a
तत्र कञ्चित्प्रयान्तं तु दूतं दुःशासनोऽब्रवीत् ॥ KK03-13-257-007c
गच्छ द्वैतवनं शीघ्रं पाण्डवान्पापपूरुषान् । KK03-13-257-008a
निमन्त्रय यथान्यायं विप्रांस्तस्मिन्वने तदा ॥ KK03-13-257-008c
स गत्वा पाण्डवान्सर्वानुवाचाभिप्रणम्य च । KK03-13-257-009a
दुर्योधनो महाराज यजते नृपसत्तमः ॥ KK03-13-257-009c
स्ववीर्यार्जितमर्थौघमवाप्य कुरुसत्तमः । KK03-13-257-010a
तत्र गच्छन्ति राजानो ब्राह्मणाश्च ततस्ततः ॥ KK03-13-257-010c
अहं तु प्रेषितो राजन्कौरवेण महात्मना । KK03-13-257-011a
आमन्त्रयति वो राजा धार्तराष्ट्रो जनेश्वरः । KK03-13-257-011c
मनोभिलषितं राज्ञस्तं क्रतुं द्रष्टुमर्हथ ॥ KK03-13-257-011e
ततो युधिष्ठिरो राजा तच्छ्रुत्वा दूतभाषितम् । KK03-13-257-012a
अब्रवीन्नृपशार्दूलो दिष्ट्या राजा सुयोधनः । KK03-13-257-012c
यजते क्रतुमुख्येन पूर्वेषां कीर्तिवर्धनः ॥ KK03-13-257-012e
वयमप्युपयास्यामो न त्विदानीं कथञ्चन । KK03-13-257-013a
समयः परिपाल्यो नो यावद्वर्षं त्रयोदशम् ॥ KK03-13-257-013c
श्रुत्वैतद्धर्मराजस्य भीमो वचनमब्रवीत् । KK03-13-257-014a
तदा तु नृपतिर्गन्ता धर्मराजो युधिष्ठिरः ॥ KK03-13-257-014c
अस्त्रशस्त्रप्रदीप्तेऽग्नौ यदा तं पातयिष्यति । KK03-13-257-015a
वर्षात्त्रयोदशादूर्ध्वं रणसत्रे नराधिपः ॥ KK03-13-257-015c
यदा क्रोधहविर्मोक्ता धार्तराष्ट्रेषु पाण्डवः । KK03-13-257-016a
आगन्तारस्तदा स्मेति वाच्यस्ते स सुयोधनः ॥ KK03-13-257-016c
शेषास्तु पाण्डवा राजन्नैवोचुः किञ्चिदप्रियम् । KK03-13-257-017a
दूतश्चापि यथावृत्तं धार्तराष्ट्रे न्यवेदयत् ॥ KK03-13-257-017c
अथाजग्मुर्नरश्रेष्ठा नानाजनपदेश्वराः । KK03-13-257-018a
ब्राह्मणाश्च महाभाग धार्तराष्ट्रपुरं प्रति ॥ KK03-13-257-018c
ते त्वर्चिता यथाशास्त्रं यथाविधि यथाक्रमम् । KK03-13-257-019a
मुदा परमया युक्ताः प्रीताश्चापि नरेश्वराः ॥ KK03-13-257-019c
धृतराष्ट्रोऽपि राजेन्द्र संवृतः सर्वकौरवैः । KK03-13-257-020a
हर्षेण महता युक्तो विदुरं प्रत्यभाषत ॥ KK03-13-257-020c
यथा सुखी जनः सर्वः क्षत्तः स्यादन्नसंयुतः । KK03-13-257-021a
तुष्येत्तु यज्ञसदने तथा नीतिर्विधीयताम् ॥ KK03-13-257-021c
विदुरस्तु तदाज्ञाय सर्ववर्णानरिन्दम । KK03-13-257-022a
यथा प्रमाणतो विद्वान्पूजयामास धर्मवित् ॥ KK03-13-257-022c
भक्ष्यपेयान्नपानेन माल्यैश्चापि सुगन्धिभिः । KK03-13-257-023a
वासोभिर्विविधैश्चैव योजयामास हृष्टवत् ॥ KK03-13-257-023c
कृत्वा ह्यवभृथं वीरो यथाशास्त्रं यथाक्रमम् । KK03-13-257-024a
सान्त्वयित्वा च राजेन्द्रो दत्त्वा च विविधं वसु । KK03-13-257-024c
विसर्जयामास नृपान्ब्राह्मणांश्च सहस्रशः ॥ KK03-13-257-024e
विसृज्य च नृपान्सर्वान्भ्रातृभिः परिवारितः । KK03-13-257-025a
विवेश हास्तिनपुरं सहितः कर्णसौबलैः ॥ KK03-13-257-025c
इति श्रीमन्महाभारते अरण्यपर्वणि घोषयात्रापर्वणि सप्तपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 257 ॥
3-257-25 कर्णसौबलैः सौबलाद्यैः ॥