अध्यायः 256

दुर्योधनेन राजसूययाजनं प्रार्थितैर्ब्राह्मणैर्हेतूक्त्या तन्निषेधनपूर्वकं तम् प्रति यज्ञान्तरकरणनियोजनम् ॥ 1 ॥

वैशम्पायन उवाच KK03-13-256-001
जित्वा तु पृथिवीं राजन्सूतपुत्रो जनाधिप । KK03-13-256-001a
अब्रवीत्परवीरघ्नो दुर्योधनमिदं वचः ॥ KK03-13-256-001c
दुर्योधन निबोधेदं यत्त्वां वक्ष्यामि कौरव । KK03-13-256-002a
श्रुत्वा वाचं तथा सर्वं कर्तुमर्हस्यरिन्दम ॥ KK03-13-256-002c
तवाद्य पृथिवी वीर निःसपत्ना नृपोत्तम । KK03-13-256-003a
तां पालय यथा शक्रो हतशत्रुर्महामनाः ॥ KK03-13-256-003c
वैशम्पायन उवाच KK03-13-256-004
एवमुक्तस्तु कर्णेन कर्णं राजाऽब्रवीत्पुनः । KK03-13-256-004a
न किञ्चिद्दुर्लभं तस्य यस्य त्वं पुरुषर्षभ ॥ KK03-13-256-004c
सहायश्चानुरक्तश्च मदर्थं च समुद्यतः । KK03-13-256-005a
अभिप्रायस्तु मे कश्चित्तं वै शृणु यथातथम् ॥ KK03-13-256-005c
राजसूयं पाण्डवस्य दृष्ट्वा क्रतुवरं तदा । KK03-13-256-006a
मम स्पृहा समुत्पन्ना तां सम्पादय सूतज ॥ KK03-13-256-006c
एवमुक्तस्ततः कर्णो राजानमिदमब्रवीत् । KK03-13-256-007a
तवाद्य पृथिवीपाला वश्याः सर्वे नृपोत्तम ॥ KK03-13-256-007c
आहूयन्तां द्विजवराः सम्भाराश्च यथाविधि । KK03-13-256-008a
सम्भ्रियन्तां कुरुश्रेष्ठ यज्ञोपकरणानि च ॥ KK03-13-256-008c
ऋत्विजश्च समाहूता यथोक्तं वेदपारगाः । KK03-13-256-009a
क्रियां कुर्वन्तु ते राजन्यथाशास्त्रमरिन्दम ॥ KK03-13-256-009c
बह्वन्नपानसंयुक्तः सुसमृद्धगुणान्वितः । KK03-13-256-010a
प्रवर्ततां महायज्ञस्तवापि भरतर्षभ ॥ KK03-13-256-010c
एवमुक्तस्तु कर्णेन धार्तराष्ट्रो विशाम्पते । KK03-13-256-011a
पुरोहितं समानाय्य वचनं चेदमब्रवीत् ॥ KK03-13-256-011c
राजसूयं क्रतुश्रेष्ठं समाप्तवरदक्षिणम् । KK03-13-256-012a
आहरस्व यथाशास्त्रं यथान्यायं यथाक्रमम् ॥ KK03-13-256-012c
स एवमुक्तो नृपतिमुवाच द्विजसत्तमः ॥ KK03-13-256-013ac
'ब्राह्मणैः सहितो राजन्ये तत्रासन्समागताः' । KK03-13-256-014a
न स शक्यः क्रतुश्रेष्ठो जीवमाने युधिष्ठिरे । KK03-13-256-014c
आहर्तुं कौरवश्रेष्ठ कुले तव नृपोत्तम ॥ KK03-13-256-014e
दीर्घायुर्जीवति च ते धृतराष्ट्रः पिता नृप । KK03-13-256-015a
अतश्चापि विरुद्धस्ते क्रतुरेष नृपोत्तमः ॥ KK03-13-256-015c
अस्ति त्वन्यन्महत्सत्रं राजसूयसमं प्रभो । KK03-13-256-016a
तेन त्वं यज राजेन्द्र शृणु चेदं वचो मम ॥ KK03-13-256-016c
य इमे पृथिवीपालाः करदास्तव पार्थिव । KK03-13-256-017a
ते करान्सम्प्रयच्छन्तु सुवर्णं च कृताकृतम् ॥ KK03-13-256-017c
तेन ते क्रियतामद्य लाङ्गलं नृपसत्तम । KK03-13-256-018a
यज्ञवाटस्य ते भूमिः कृष्यतां तेन भारत ॥ KK03-13-256-018c
तत्र यज्ञो नृपश्रेष्टः प्रभूतान्नः सुसंस्कृतः । KK03-13-256-019a
प्रवर्ततां यथान्यायं सर्वतो ह्यनिवारितः ॥ KK03-13-256-019c
एष ते वैष्णवो नाम यज्ञः सत्पुरुषोचितः । KK03-13-256-020a
एतेन नेष्टवान्कश्चिदृते विष्णुं पुरातनम् ॥ KK03-13-256-020c
राजसूयं क्रतुश्रेष्ठं स्पर्धत्येष महाक्रतुः । KK03-13-256-021a
अस्माकं रोचते चैव श्रेयश्च तव भारत ॥ KK03-13-256-021c
निर्विघ्नश्च भवत्येष सफला स्यात्स्पृहा तव । KK03-13-256-022a
'तस्मादेष महाबाहो तव यज्ञः प्रवर्तताम्' ॥ KK03-13-256-022c
एवमुक्तस्तु तैर्विप्रैर्धार्तराष्ट्रो महीपतिः । KK03-13-256-023a
कर्णं च सौबलं चैव भ्रातॄंश्चैवेदमब्रवीत् ॥ KK03-13-256-023c
रोचते मे वचः कृत्स्नं ब्राह्मणानां न संशयः । KK03-13-256-024a
रोचते यदि युष्माकं तस्मात्प्रब्रूत माचिरम् ॥ KK03-13-256-024c
एवमुक्तास्तु ते सर्वे तथेत्यूचुर्नराधिपम् । KK03-13-256-025a
सन्दिदेश ततो राजा व्यापारस्थान्यथाक्रमम् ॥ KK03-13-256-025c
हलस्य करणे चापि व्यादिष्टाः सर्वशिल्पिनः । KK03-13-256-026a
यथोक्तं च नृपश्रेष्ठ कृतं सर्वं यथाक्रमम् ॥ KK03-13-256-026c

इति श्रीमन्महाभारते अरण्यपर्वणि घोषयात्रापर्वणि षट्पञ्चाशदधिकद्विशततमोऽध्यायः ॥ 256 ॥

3-256-17 कृतं घटितमलङ्कारादिरूपम् । अकृतमन्यत् ॥ 3-256-25 व्यापारस्थान् शिल्पिनः ॥