अध्यायः 255
दिग्विजयार्थं गतेन कर्णेन सकलराजवशीकरणपूर्वकम् पुनर्हास्तिनपुरम् प्रत्यागमनम् ॥ 1 ॥
वैशम्पायन उवाच KK03-13-255-001
ततः कर्णो महेष्वासो बलेन महता वृतः । KK03-13-255-001a
द्रुपदस्य पुरं रम्यं रुरोध भरतर्षभ ॥ KK03-13-255-001c
युद्धेन महता चैनं चक्रे वीरं वशानुगम् । KK03-13-255-002a
सुवर्णं रजतं चापि रत्नानि विविधानि च । KK03-13-255-002c
करं च दापयामास द्रुपदं नृपसत्तम ॥ KK03-13-255-002e
तं विनिर्जित्य राजेन्द्र राजानस्तस्य येऽनुगाः । KK03-13-255-003a
तान्सर्वान्वशगांश्चक्रे करं चैनानदापयत् ॥ KK03-13-255-003c
अथोत्तरां दिशं गत्वा वशे चक्रे नराधिपान् । KK03-13-255-004a
भगदत्तं च निर्जित्य राधेयो गिरिमारुहत् ॥ KK03-13-255-004c
हिमवन्तं महाशैलं युध्यमानश्च शत्रुभिः । KK03-13-255-005a
प्रययौ च दिशः सर्वान्नृपतीन्वशमानयत् ॥ KK03-13-255-005c
स हैमवतिकाञ्जित्वा करं सर्वानदापयत् । KK03-13-255-006a
नेपालविषये ये च राजानस्तानवाजयत् ॥ KK03-13-255-006c
अवतीर्य ततः शैलात्पूर्वां दिशमभिद्रुतः । KK03-13-255-007a
अङ्गान्वङ्गान्कलिङ्गांश्च शुण्डिकान्मिथिलानथ ॥ KK03-13-255-007c
मागधान्कर्कखण्डांश्च निवेश्य विषयेऽऽत्मनः । KK03-13-255-008a
आवशीरांश्च योध्यांश्च अहिक्षत्रांश्च सोऽजयत् ॥ KK03-13-255-008c
पूर्वां दिशं विनिर्जित्य वत्सभूमिं तथाऽगमत् ॥ KK03-13-255-009ac
वत्सभूमिं विनिर्जित्य केवलां मृत्तिकावतीम् । KK03-13-255-010a
मोहनं पत्तनं चैव त्रिपुरीं कोसलां तथा ॥ KK03-13-255-010c
एतान्सर्वान्विनिर्जित्य करमादाय सर्वशः । KK03-13-255-011a
दक्षिणां दिशमास्थाय कर्णो जित्वा महारथान् । KK03-13-255-011c
रुक्मिणं दाक्षिणात्येषु योधयामास सूतजः ॥ KK03-13-255-011e
स युद्धं तुमुलं कृत्वा रुक्मी प्रोवाच सूतजम् । KK03-13-255-012a
प्रीतोस्मि तव राजेन्द्र विक्रमेण बलेन च ॥ KK03-13-255-012c
न ते विघ्नं करिष्यामि प्रतिज्ञां समपालयम् । KK03-13-255-013a
प्रीत्या चाहं प्रयच्छामि हिरण्यं यावदिच्छसि ॥ KK03-13-255-013c
समेत्य रुक्मिणा कर्णः पाण्ड्यं शैलं च सोगमत् ॥ KK03-13-255-014ac
स केवलं रणे चैव नीलं चापि महीपतिम् । KK03-13-255-015a
वेणुदारिसुतं चैव ये चान्ये नृपसत्तमाः । KK03-13-255-015c
दक्षिणस्यां दिशि नृपान्करान्सर्वानदापयत् ॥ KK03-13-255-015e
शैशुपालिं ततो गत्वा विजिग्ये सूतनन्दनः । KK03-13-255-016a
पार्श्वस्थांश्चापि नृपतीन्वशे चक्रे महाबलः ॥ KK03-13-255-016c
आवन्त्यांश्च वशे कृत्वा साम्ना च भरतर्षभ । KK03-13-255-017a
वृष्णिभिः सह सङ्गम्य पश्चिमामपि निर्जयत् ॥ KK03-13-255-017c
वारुणीं दिशमागम्य यावनान्बर्बरांस्तथा । KK03-13-255-018a
नृपान्पश्चिमभूमिस्थान्दापयामास वै करान् ॥ KK03-13-255-018c
विजित्य पृथिवीं सर्वां सपूर्वापरदक्षिणाम् । KK03-13-255-019a
सम्लेच्छाटविकान्वीरः सपर्वतनिवासिनः ॥ KK03-13-255-019c
भद्रान्रोहितकांश्चैव आग्नेयान्मालवानपि । KK03-13-255-020a
गणान्सर्वान्विनिर्जित्य नीतिकृत्प्रहसन्निव ॥ KK03-13-255-020c
शशकान्यवनांश्चैव विजिग्ये सूतनन्दनः । KK03-13-255-021a
नग्नजित्प्रमुखांश्चैव गणाञ्जित्वा महारथान् ॥ KK03-13-255-021c
एवं स पृथिवीं सर्वां वशे कृत्वा महारथः । KK03-13-255-022a
विजित्य पुरुषव्याघ्रो नागसाह्वयमागमत् ॥ KK03-13-255-022c
तमागतं महेष्वासं धार्तराष्ट्रो जनाधिपः । KK03-13-255-023a
प्रत्युद्गत्य महाराज सभ्रातृपितृबान्धवः ॥ KK03-13-255-023c
अर्चयामास विधिना कर्णमाहवशोभिनम् । KK03-13-255-024a
आश्रावयच्च तत्कर्म प्रीयमाणो जनेश्वरः ॥ KK03-13-255-024c
यन्न भीष्मान्न च द्रोणान्न कृपान्न च बाह्लिकात् । KK03-13-255-025a
प्राप्तवानस्मि भद्रं ते त्वत्तःप्राप्तं मया हि तत् ॥ KK03-13-255-025c
बहुना च किमुक्तेन शृणु कर्ण वचो मम । KK03-13-255-026a
सनाथोस्मि महाबाहो त्वया नाथेन सत्तम ॥ KK03-13-255-026c
न हि ते पाण्डवाः सर्वे कलामर्हन्ति षोडशीम् । KK03-13-255-027a
अन्ये वा पुरुषव्याघ्र राजानोऽभ्युदितोदिताः ॥ KK03-13-255-027c
स भवान्धृतराष्ट्रं तं गान्धारीं च यशस्विनीम् । KK03-13-255-028a
पश्य कर्ण महेष्वास अदितिं वज्रभृद्यथा ॥ KK03-13-255-028c
ततो हलहलाशब्दः प्रादुरासीद्विशाम्पते । KK03-13-255-029a
हाहाकाराश्च बहवो नगरे नागसाह्वये ॥ KK03-13-255-029c
केचिदेनं प्रशंसन्ति निन्दन्ति स्म तथा परे । KK03-13-255-030a
तूष्णीमासंस्तथा चान्ये नृपास्तत्र जनाधिप ॥ KK03-13-255-030c
एवं विजित्य राजेन्द्र कर्णः शस्त्रभृतांवरः । KK03-13-255-031a
सपर्वतवनाकाशां ससमुद्रां सनिष्कुटाम् ॥ KK03-13-255-031c
देशैरुच्चावचैः पूर्णां पत्तनैर्नगरैरपि । KK03-13-255-032a
द्वीपैश्चानूपसम्पूर्णैः पृथिवीं पृथिवीपते ॥ KK03-13-255-032c
कालेन नातिदीर्घेण वशे कृत्वा तु पार्थिवान् । KK03-13-255-033a
अक्षयं धनमादाय सूतजो नृपमभ्ययात् ॥ KK03-13-255-033c
प्रविश्य च गृहं राजन्नभ्यन्तरमरिन्दम । KK03-13-255-034a
गान्धारीसहितं वीरो धृतराष्ट्रं ददर्श सः ॥ KK03-13-255-034c
पुत्रवच्च नरव्याघ्र पादौ जग्राह धर्मवित् । KK03-13-255-035a
धृतराष्ट्रेण चाश्लिष्य प्रेम्णा चापि विसर्जितः ॥ KK03-13-255-035c
तदाप्रभृति राजा च शकुनिश्चापि सौबलः । KK03-13-255-036a
जानाते निर्जितान्पार्थान्कर्णेन युधि भारत ॥ KK03-13-255-036c
इति श्रीमन्महाभारते अरण्यपर्वणि घोषयात्रापर्वणि पञ्चपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 255 ॥
3-255-7 मुण्डिकान्मिथिलानिति ख.पाठः ॥ 3-255-13 प्रतिज्ञां क्षत्रधर्मं समपालयं पालितवानस्मि । क्षत्रधर्मावेक्षयैव त्वया सह युद्धं कृतं न त्वज्जिगीषयेति भावः ॥ 3-255-14 शैलं श्रीशैलम् ॥ 3-255-20 आग्नेयान्मालवानिति ख. पाठः ॥ 3-255-24 तत्कर्म कर्णविजयं पुरे उद्धोषयामास ॥ 3-255-27 अभ्युदित्नेभ्योपि उदिताः श्रेष्ठतमाः ॥ 3-255-31 आकाशः पर्वतवनयोरन्तरालम् । सस्याद्युत्पत्तिभूमिमित्यर्थः ॥ 3-255-32 अनूपं सर्वतोजलं तेन सम्पूर्णैः ॥