अध्यायः 254
भीष्मेण दुर्योधनम् प्रति पाण्डवप्रशंसनपूर्वकं तैःसह सन्धिविधानम् ॥ 1 ॥ तथा कर्णस्य गर्हणम् ॥ 2 ॥ दुर्योधनानुमत्या कर्णेन दिग्विजयाय निर्गमनम् ॥ 3 ॥
जनमेजय उवाच KK03-13-254-001
एवं गतेषु पार्थेषु वने तस्मिन्महात्मसु । KK03-13-254-001a
धार्तराष्ट्रा महेष्वासाः किमकुर्वत सत्तमाः ॥ KK03-13-254-001c
कर्णो वैकर्तनश्चैव शकुनिश्च महाबलः । KK03-13-254-002a
भीष्मद्रोणकृपाश्चैव तन्मे शंसितुमर्हसि ॥ KK03-13-254-002c
वैशम्पायन उवाच KK03-13-254-003
एवं गतेषु पार्थेषु विसृष्टे च सुयोधने । KK03-13-254-003a
आगते हास्तिनपुरं मोक्षिते पाण्डुनन्दनैः । KK03-13-254-003c
भीष्मोऽब्रवीन्महाराज धार्तराष्ट्रमिदं वचः ॥ KK03-13-254-003e
उक्तं तात मया पूर्वं गच्छतस्ते तपोवनम् । KK03-13-254-004a
वचनं ते न रुचितं मम तन्न कृतं च ते ॥ KK03-13-254-004c
ततः प्राप्तं त्वया वीर ग्रहणं शत्रुभिर्बलात् । KK03-13-254-005a
मोक्षितश्चासि धर्मज्ञैः पाण्डवैर्न च लज्जसे ॥ KK03-13-254-005c
प्रत्यक्षं तव गान्धारे ससैन्यस्य विशाम्पते । KK03-13-254-006a
सूतपुत्रोऽपयाद्भीतो गन्धर्वाणां तदा रणात् ॥ KK03-13-254-006c
क्रोशतस्तव राजेन्द्र ससैन्यस्य नृपात्मज । KK03-13-254-007a
'व्यपायात्पृष्ठतस्तस्मात्प्रेक्षमाणः पुनःपुनः ॥' KK03-13-254-007c
दृष्टस्ते विक्रमश्चैव पाण्डवानां महात्मनाम् । KK03-13-254-008a
कर्णस्य च महाबाहो सूतपुत्रस्य दुर्मते ॥ KK03-13-254-008c
न चापि पादभाक्कर्णः पाण्डवानां महात्मनाम् । KK03-13-254-009a
धनुर्वेदे च शौर्ये च धर्मे वा धर्मवत्सल ॥ KK03-13-254-009c
तस्मादहं क्षमं मन्ये पाण्डवैस्तैर्महात्मभिः । KK03-13-254-010a
सन्धिं सन्धिविदांश्रेष्ठ कुलस्यास्य विवृद्धये ॥ KK03-13-254-010c
एवमुक्तश्च भीष्मेण धार्तराष्ट्रो जनेश्वरः । KK03-13-254-011a
प्रहस्य सहसा राजन्विप्रतस्थे ससौबलः ॥ KK03-13-254-011c
तं तु प्रस्थितमाज्ञाय कर्णदुःशासनादयः । KK03-13-254-012a
अनुजग्मुर्महेष्वासा धार्तराष्ट्रं महाबलम् ॥ KK03-13-254-012c
तांस्तु सम्प्रस्थितान्दृष्ट्वा भीष्मः कुरुपितामहः । KK03-13-254-013a
लज्जया व्रीडितो राजञ्जगाम स्वं निवेशनम् ॥ KK03-13-254-013c
गते भीष्मे महाराज धार्तराष्ट्रो जनेश्वरः । KK03-13-254-014a
पुनरागम्य तं देशममन्त्रयत मन्त्रिभिः ॥ KK03-13-254-014c
किमस्माकं भवेच्छ्रेयः किं कार्यमवशिष्यते । KK03-13-254-015a
कथं च सुकृतं तत्स्यान्मन्त्रयामास भारत ॥ KK03-13-254-015c
[*कर्ण उवाच KK03-13-254-016
दुर्योधन निबोधेदं यत्त्वां वक्ष्यामि कौरव । KK03-13-254-016a
भीष्मोस्मान्निन्दति सदा पाण्डवांश्च प्रशंसति ॥ KK03-13-254-016c
त्वद्वेषाच्च महाबाहो मामपि द्वेष्टुमर्हति । KK03-13-254-017a
विगर्हते च मां नित्यं त्वत्समीपे नरेश्वर ॥ KK03-13-254-017c
सोऽहं भीष्मवचस्तद्वै न मृष्यामीह भारत । KK03-13-254-018a
त्वत्समक्षं यदुक्तं च भीष्मेणामित्रकर्शन ॥ KK03-13-254-018c
पाण्डवानां यशो राजंस्तव निन्दां च भारत । KK03-13-254-019a
अनुजानीहि मां राजन्सभृत्यबलवाहनम् ॥ KK03-13-254-019c
जेष्यामि पृथिवीं राजन्सशैलवनकाननाम् । KK03-13-254-020a
जिता च पाण्डवैर्भूमिश्चतुर्भिर्बलशालिभिः ॥ KK03-13-254-020c
तामहं ते विजेष्यामि एक एव न संशयः । KK03-13-254-021a
सम्पश्यतु सुदुर्बुद्धिर्भीष्मः कुरुकुलाधमः ॥ KK03-13-254-021c
अनिन्द्यं निन्दते यो हि अप्रशंस्यं प्रशंसति । KK03-13-254-022a
स पश्यतु बलं मेऽद्य आत्मानं तु विगर्हतु ॥ KK03-13-254-022c
अनुजानीहि मां राजन्ध्रुवो हि विजयस्तव । KK03-13-254-023a
प्रतिजानामि ते सत्यं राजन्नायुधमालभे ॥ KK03-13-254-023c
तच्छ्रुत्वा तु वचो राजन्कर्णस्य भरतर्षभ । KK03-13-254-024a
प्रीत्या परमया युक्तः कर्णमाह नराधिपः ॥ KK03-13-254-024c
धन्योस्म्यनुगृहीतोस्मि यस्य मे त्वं महाबलः । KK03-13-254-025a
हितेषु वर्तसे नित्यं सफलं जन्म चाद्य मे ॥ KK03-13-254-025c
यदा च मन्यसे वीर सर्वशत्रुनिबर्हणम् । KK03-13-254-026a
तदा निर्गच्छ भद्रं ते ह्यनुशाधि च मामिति ॥ KK03-13-254-026c
एवमुक्तस्तदा कर्णो धार्तराष्ट्रेण धीमता । KK03-13-254-027a
सर्वमाज्ञापयामास प्रायात्रिकमरिन्दम ॥ KK03-13-254-027c
प्रययौ च महेष्वासो नक्षत्रे शुभदैवते । KK03-13-254-028a
शुभे तिथौ मुहूर्ते च पूज्यमानो द्विजातिभिः ॥ KK03-13-254-028c
मङ्गलैश्च शुभैः स्नातो वाग्भिश्चापि प्रपूजितः । KK03-13-254-029a
नादयन्रथघोषेण त्रैलोक्यं सचराचरम् ॥ KK03-13-254-029c
इति श्रीमन्महाभारते अरण्यपर्वणि घोषयात्रापर्वणि चतुःपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 254 ॥
3-254-6 अपयात् अपायात् पलायितः ॥ 3-254-10 सन्धिं क्षमं युक्तं मन्ये ॥ 3-254-15 मन्त्रयामोऽद्य यद्धितमिति झ. ध.पाठः ॥ 3-254-27 प्रायात्रिकं प्रयातुं राज्ञोऽपेक्षितं शकटापणवीथ्यादि ॥ 3-254-29 मङ्गलैः मङ्गलद्रव्यैः सुगन्धतैलादिभिः स्नातः । शुभैर्नीराजनादिभिः प्रययौ इति सम्बन्धः ॥ * एतदादिः सार्धोऽध्यायो झ. पुस्तकएव दृश्यते ॥