अध्यायः 253
पातालवासिभिर्दैत्यदानवैर्दुर्योधनम् प्रति हेतूपन्यासपूर्वकम् प्रायोपवेशनिश्चयान्निवर्तनम् ॥ 1 ॥ पुनः कृत्यया दुर्योधनस्य पूर्वस्थानम् प्रत्यानयनम् ॥ 2 ॥ परेद्युः कर्णादिप्रार्थनया दुर्योधनेन सर्वैः सह स्वपुरम्परत्यागमनम् ॥ 3 ॥
दानवा ऊचुः KK03-13-253-001
भोः सुयोधन राजेन्द्र भरतानां कुलोद्वह । KK03-13-253-001a
शूरैः परिवृतो नित्यं तथैव च महात्मभिः ॥ KK03-13-253-001c
अकार्षीः साहसमिदं कस्मात्प्रायोपवेशनम् । KK03-13-253-002a
आत्मत्यागी ह्यधो याति वाच्यतां चायशस्करीम् ॥ KK03-13-253-002c
न हि कार्यविरुद्धेषु बहुपापेषु कर्मसु । KK03-13-253-003a
मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः ॥ KK03-13-253-003c
नियच्छैनां मतिं राजन्धर्मार्थसुखनाशिनीम् । KK03-13-253-004a
यशःप्रतापवीर्यघ्नीं शत्रूणां हर्षवर्धनीम् ॥ KK03-13-253-004c
श्रूयतां तु प्रभो तत्त्वं दिव्यतां चात्मनो नृप । KK03-13-253-005a
निर्माणं च शरीरस्य ततो धैर्यमवाप्नुहि ॥ KK03-13-253-005c
पुरा त्व तपसाऽस्माभिर्लब्धो राजन्महेश्वरात् । KK03-13-253-006a
पूर्वकायश्च ते सर्वो निर्मितो वज्रसञ्चयैः ॥ KK03-13-253-006c
अस्त्रैरभेद्यः शस्त्रैश्चाप्यधःकायश्च तेऽनघ । KK03-13-253-007a
कृतः पुष्पमयो देव्या रूपतस्त्रीमनोहरः ॥ KK03-13-253-007c
एवमीश्वरसंयुक्तस्तव देहो नृपोत्तम । KK03-13-253-008a
देव्या च राजशार्दूल दिव्यस्त्वं हि न मानुषः ॥ KK03-13-253-008c
क्षत्रियाश्च महावीर्या भगदत्तपुरोगमाः । KK03-13-253-009a
दिव्यास्त्रविदुषः शूराः क्षपयिष्यन्ति ते रिपून् ॥ KK03-13-253-009c
तदलं ते विषादेन भयं तव न विद्यते । KK03-13-253-010a
सहायार्थं च ते वीराः सम्भूता भुवि दानवाः ॥ KK03-13-253-010c
भीष्मद्रोणकृपादींश्च प्रवेक्ष्यन्त्यपरेऽसुराः । KK03-13-253-011a
यैराविष्टा घृणां त्यक्त्वा योत्स्यन्ते तव वैरिभिः ॥ KK03-13-253-011c
नैव पुत्रान्न च भ्रातॄन्न पितॄन्न च बान्धवान् । KK03-13-253-012a
नैव शिष्यान्न च ज्ञातीन्न बालान्स्थविरान्न च । KK03-13-253-012c
युधि सम्प्रहरिष्यन्तो मोक्ष्यन्ति कुरुसत्तम ॥ KK03-13-253-012e
निःस्नेहा दानवाविष्टाः समाक्रान्तेऽन्तरात्मनि । KK03-13-253-013a
प्रहरिष्यन्ति बन्धुभ्यः स्नेहमुत्सृज्य दूरतः ॥ KK03-13-253-013c
हृष्टाः पुरुषशार्दूलाः कलुषीकृतमानसाः । KK03-13-253-014a
अनभिज्ञातमूलाश्च दैवाच्च विधिनिर्मितात् । KK03-13-253-014c
व्याभाषमाणाश्चान्योन्यं न मे जीवन्विमोक्ष्यसे ॥ KK03-13-253-014e
सर्वे शस्त्रास्त्रमोक्षेण पौरुषे समवस्थिताः । KK03-13-253-015a
श्लाघमानाः कुरुश्रेष्ठ करिष्यन्ति जनक्षयम् ॥ KK03-13-253-015c
तेपि पञ्च महात्मानः प्रतियोत्सन्ति पाण्डवाः । KK03-13-253-016a
वधं चैषां करिष्यन्ति दैवयुक्ता महाबलाः ॥ KK03-13-253-016c
दैत्यरक्षोगणाश्चैव सम्भूताः क्षत्रयोनिषु । KK03-13-253-017a
योत्स्यन्ति युधि विक्रम्य शत्रुभिस्तव पार्थिव ॥ KK03-13-253-017c
गदाभिर्मुसलैः शूलैः शस्त्रैरुच्चावचैस्तथा । KK03-13-253-018a
'प्रहरिष्यन्ति ते वीरास्तवारिषु महाबलाः' ॥ KK03-13-253-018c
यच्च तेऽन्तर्गतं वीर भयमर्जुनसम्भवम् । KK03-13-253-019a
तत्रापि विहितोऽस्माभिर्वधोपायोऽर्जुनस्य वै ॥ KK03-13-253-019c
हतस्य नरकस्यात्मा कर्णमूर्तिमुपाश्रितः । KK03-13-253-020a
तद्वैरं संस्मरन्वीर योत्स्यते केशवार्जुनौ ॥ KK03-13-253-020c
स ते विक्रमशौण्डीरो रणे पार्थं विजेष्यति । KK03-13-253-021a
कर्णः प्रहरतांश्रेष्ठः सर्वांश्चारीन्महारथः ॥ KK03-13-253-021c
ज्ञात्वैतच्छद्मना वज्री रक्षार्थं सव्यसाचिनः । KK03-13-253-022a
कुण्डले कवचं चैव कर्णस्यापहरिष्यति ॥ KK03-13-253-022c
तस्मादस्माभिरप्यत्र दैत्याः शतसहस्रशः । KK03-13-253-023a
नियुक्ता राक्षसाश्चैव ये ते संशप्तका इति । KK03-13-253-023c
प्रख्यातास्तेऽर्जुनं वीरं युधि हिंस्यन्ति मा शुचः ॥ KK03-13-253-023e
असपत्ना त्वया हीयं भोक्तव्या वसुधा नृप । KK03-13-253-024a
मा विषादं गमस्तस्मान्नैतत्त्वय्युपपद्यते ॥ KK03-13-253-024c
विनष्टे त्वयि चास्माकं पक्षो हीयेत कौरव । KK03-13-253-025a
गच्छ वीर न ते बुद्धिरन्या कार्या कथञ्चन । KK03-13-253-025c
त्वमस्माकं गतिर्नित्यं देवतानां च पाण्डवाः ॥ KK03-13-253-025e
वैशम्पायन उवाच KK03-13-253-026
एवमुक्त्वा परिष्वज्य दैत्यास्तं राजकुञ्जरम् । KK03-13-253-026a
समाश्वास्य च दुर्धर्षं पुत्रवद्दानवर्षभाः ॥ KK03-13-253-026c
स्थिरां कृत्वा बुद्धिमस्य प्रियाण्युक्त्वा च भारत । KK03-13-253-027a
गम्यतामित्यनुज्ञाय जयमाप्नुहि चेत्यथ ॥ KK03-13-253-027c
तैर्विसृष्टं महाबाहुं कृत्या सैवानयत्पुरः । KK03-13-253-028a
तमेव देशं यत्रासौ तदा प्रायमुपाविशत् ॥ KK03-13-253-028c
प्रतिनिक्षिप्य तं वीरं कृत्या समभिपूज्य च । KK03-13-253-029a
अनुज्ञाता च राज्ञा सा तत्रैवान्तरधीयत ॥ KK03-13-253-029c
गतायामथ तस्यां तु राजा दुर्योधनस्तदा । KK03-13-253-030a
स्वप्नभूतमिदं सर्वमचिन्तयत भारत ॥ KK03-13-253-030c
'सम्मृश्य तानि वाक्यानि दानवोक्तानि दुर्मतेः' । KK03-13-253-031a
विजेष्यामि रणे पाण्डूनिति चास्याभवन्मतिः ॥ KK03-13-253-031c
कर्णं संशप्तकांश्चैव पार्थस्यामित्रघातिनः । KK03-13-253-032a
अमन्यत वधे युक्तान्समर्थांश्च सुयोधनः ॥ KK03-13-253-032c
एवमाशा दृढा तस्य धार्तराष्ट्रस्य दुर्मतेः । KK03-13-253-033a
विनिर्जये पाण्डवानामभवद्भरतर्षभ ॥ KK03-13-253-033c
कर्णोऽप्याविष्टचित्तात्मा नरकस्यान्तरात्मना । KK03-13-253-034a
अर्जुनस्य वधे क्रूरां करोति स्म तदा मतिम् ॥ KK03-13-253-034c
संशप्तकाश्च ते वीरा राक्षसाविष्टचेतसः । KK03-13-253-035a
रजस्तमोभ्यामाक्रान्ताः फाल्गुनस्य वधैषिणः ॥ KK03-13-253-035c
भीष्मद्रोणकृपाद्याश्च दानवाक्रान्तचेतसः । KK03-13-253-036a
न तथा पाण्डुपुत्राणां स्नेहवन्तोऽभवंस्तदा ॥ KK03-13-253-036c
न चाचचक्षे कस्मैचिदेतद्राजा सुयोधनः । KK03-13-253-037a
'कृत्ययाऽऽनाय्यकथितं यदस्य निशि दानवैः' ॥ KK03-13-253-037c
दुर्योधनं निशान्ते च कर्णो वैकर्तनोऽब्रवीत् । KK03-13-253-038a
स्मयन्निवाञ्जलिं कृत्वा पार्थिवं हेतुमद्वचः ॥ KK03-13-253-038c
न मृतो जयते शत्रूञ्जीवन्भद्राणि पश्यति । KK03-13-253-039a
मृतस्य भद्राणि कुतः कौरवेय कुतो जयः ॥ KK03-13-253-039c
न कालोऽद्य विषादस्य भयस्य मरणस्य वा । KK03-13-253-040a
परिष्वज्याब्रवीच्चैनं भुजाभ्यां स महाभुजः ॥ KK03-13-253-040c
उत्तिष्ठ राजन्किं शेषे कस्माच्छोचसि शत्रुहन् । KK03-13-253-041a
शत्रून्प्रताप्य वीर्येण स कथं मर्तुमर्हसि ॥ KK03-13-253-041c
अथवा ते भयं जातं दृष्ट्वाऽर्जुनपराक्रमम् । KK03-13-253-042a
सत्यं ते प्रतिजानामि वधिष्यामि रणेऽर्जुनम् ॥ KK03-13-253-042c
गते त्रयोदशे वर्षे सत्येनायुधमालभे । KK03-13-253-043a
आनयिष्याम्यहं पार्थान्वशं तव जनाधिप ॥ KK03-13-253-043c
एवमुक्तस्तु कर्णेन दैत्यानां वचनात्तथा । KK03-13-253-044a
प्रणिपातेन चाप्येषामुदतिष्ठत्सुयोधनः ॥ KK03-13-253-044c
दैत्यानां तद्वचः श्रुत्वा हृदि कृत्वा स्थिरां मतिम् । KK03-13-253-045a
ततो मनुजशार्दूलो योजयामास वाहिनीम् । KK03-13-253-045c
रथनागाश्वकलिलां पदातिजनसङ्कुलाम् ॥ KK03-13-253-045e
गङ्गौघप्रतिमा चास्य प्रयाणे शुशुभे चमूः ॥ KK03-13-253-046ac
श्वेतच्छत्रैः पताकाभिश्चामरैश्च सुपाण्डुरैः । KK03-13-253-047a
रथैर्नागैः पदातैश्च शुशुभेऽतीव सङ्कुला ॥ KK03-13-253-047c
व्यपेताभ्रघने काले द्यौरिवासीत्तु शारदी । KK03-13-253-048a
'हंसपङ्क्तिसमाकीर्णा भ्रमत्सारसशोभिता' ॥ KK03-13-253-048c
जयाशीर्भिर्द्विजेन्द्रैः स स्तूयमानोऽधिराजवत् । KK03-13-253-049a
गृह्णन्नञ्जलिमालाश्च धार्तराष्ट्रो जनाधिपः ॥ KK03-13-253-049c
सुयोधनो ययावग्रे श्रिया परमया ज्वलन् । KK03-13-253-050a
कर्णेन सार्धं राजेन्द्र सौबलेन च देविना ॥ KK03-13-253-050c
दुःशासनादयश्चास्य भ्रातरः सर्व एव ते । KK03-13-253-051a
भूरिश्रवाः सोमदत्तो महाराजश्च बाह्लिकः ॥ KK03-13-253-051c
रथैर्नानाविधाकारैर्हयैर्गजवरैस्तथा । KK03-13-253-052a
प्रयान्तं नृपसिंहं तमनुजग्मुः कुरूद्वहाः ॥ KK03-13-253-052c
'प्रहृष्टमनसः सर्वे दुर्योधनपुरोगमाः' ॥ KK03-13-253-053ac
कालेनाल्पेन राजेन्द्र स्वपुरं विविशुस्तदा ॥ KK03-13-253-054ac
इति श्रीमन्महाभारते अरण्यपर्वणि घोषयात्रापर्वणि त्रिपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 253 ॥
3-253-21 विक्रमे शत्रुजये । शौण्डीरः समर्थः ॥ 3-253-27 जयमाप्नुहि चेत्युक्त्वेति शेषः । अथ तैर्विसृष्टमिति सम्बन्धः ॥ 3-253-34 अन्तरात्मना मनसा ॥ 3-253-36 पाण्डुपुत्राणामुपरीति शेषः ॥ 3-253-44 एषां दुःशासनादीनाम् ॥ 3-253-48 व्यपेतः अभ्रघनः मेघविस्तारो यस्मिन् शरदीत्यर्थः ॥ 3-253-49 अधिराजा सार्वभौमो युधिष्ठिरस्तद्वत् ॥ 3-253-50 देविना द्यूतरतेन ॥