अध्यायः 252

शकुन्यादिभिर्बहुधा परिसान्त्वनेपि दुर्योधनेन प्रायोपवेशनिश्चयादनिवर्तने पातालवासिभिर्दैत्यदानवैस्तदानयनाय जपहोमादिना कृत्यासर्जनम् ॥ 1 ॥ तया कृत्यया प्रायोपविष्टस्य दुर्योधनस्य पातालम् प्रत्यानयनम् ॥ 2 ॥

वैशम्पायन उवाच KK03-13-252-001
प्रायोपविष्टं राजानं दुर्योधनममर्षणम् । KK03-13-252-001a
उवाच सान्त्वयन्राजञ्शकुनिः सौबलस्तदा ॥ KK03-13-252-001c
सम्यगुक्तं हि कर्णेन तच्छ्रुतं कौरव त्वया । KK03-13-252-002a
मया हृतां श्रियं स्फीतां तां मोहादपहासि किम् ॥ KK03-13-252-002c
त्वमबुद्ध्या नृपवर प्राणानुत्स्रष्टुमिच्छसि । KK03-13-252-003a
अद्य वाऽप्यवगच्छामि न वृद्धाः सेवितास्त्वया ॥ KK03-13-252-003c
यः समुत्पतितं हर्षं दैन्यं वा न नियच्छति । KK03-13-252-004a
स नश्यति श्रियं प्राप्य पात्रमाममिवाम्भसि ॥ KK03-13-252-004c
अतिभीरुं मृदुं क्लीबं दीर्घसूत्रं प्रमादिनम् । KK03-13-252-005a
व्यसनाद्विषयाक्रान्तं न भजन्ति नृपं श्रिताः ॥ KK03-13-252-005c
सत्कृतस्य हि ते शोको विपरीते कथं भवेत् । KK03-13-252-006a
मा कृतं शोभनं पार्थैः शोकमालम्ब्य नाशय ॥ KK03-13-252-006c
यत्र हर्षस्त्वया कार्यः सत्कर्तव्याश्च पाण्डवाः । KK03-13-252-007a
तत्र शोचसि राजेन्द्र विपरीतमिदं तव ॥ KK03-13-252-007c
प्रसीद मा त्यजात्मानं तुष्टश्च सुकृतं स्मर । KK03-13-252-008a
प्रयच्छ राज्यं पार्थानां यशो धर्ममवाप्नुहि । KK03-13-252-008c
क्रियामेतां समाज्ञाय कृतघ्नो न भविष्यसि ॥ KK03-13-252-008e
सौभ्रात्रं पाण्डवैः कृत्वा समवस्थाप्य चैव तान् । KK03-13-252-009a
पित्र्यं राज्यं प्रयच्छैषां ततः सुखमवाप्स्यसि ॥ KK03-13-252-009c
वैशम्पायन उवाच KK03-13-252-010
शकुनेस्तु वचः श्रुत्वा दुःशासनमवेक्ष्य च । KK03-13-252-010a
पादयोः पतितं वीरं विकृतं भ्रातृसौहृदात् ॥ KK03-13-252-010c
बाहुभ्यां साधुजाताभ्यां दुःशासनमरिन्दमम् । KK03-13-252-011a
उत्थाप्य सम्परिष्वज्य प्रीत्याऽजिघ्रत मूर्धनि ॥ KK03-13-252-011c
कर्णसौबलयोश्चापि संश्रुत्य वचनान्यसौ । KK03-13-252-012a
निर्वेदं परमं गत्वा राजा दुर्योधनस्तदा । KK03-13-252-012c
व्रीडयाऽभिपरीतात्मा नैराश्यमगमत्परम् ॥ KK03-13-252-012e
सुहृदां चैव तच्छ्रुत्वा समन्युरिदमब्रवीत् । KK03-13-252-013a
न धर्मधनसौख्येन नैश्वर्येण न चाज्ञया ॥ KK03-13-252-013c
नैव भोगैश्च मे कार्यं मा विहन्यत गच्छत । KK03-13-252-014a
निश्चितेयं मम मतिः स्थिता प्रायोपवेशने ॥ KK03-13-252-014c
गच्छध्वं नगरं सर्वे पूज्याश्च गुरवो मम । KK03-13-252-015a
त एवमुक्ताः प्रत्यूचू राजानमरिमर्दनम् ॥ KK03-13-252-015c
या गतिस्तव राजेन्द्र साऽस्माकमपि भारत । KK03-13-252-016a
कथं वा सम्प्रवेक्ष्यामस्त्वद्विहीनाः पुरं वयम् ॥ KK03-13-252-016c
वैशम्पायन उवाच KK03-13-252-017
स सुहृद्भिरमात्यैश्च भातृभिः स्वजनेन च । KK03-13-252-017a
बहुप्रकारमप्युक्तो निश्चयान्न व्यचाल्यत ॥ KK03-13-252-017c
दर्भास्तरणमास्तीर्य निश्चयाद्धृतराष्ट्रजः । KK03-13-252-018a
संस्पृश्यापः शुचिर्भूत्वा भूतले समुपस्थितः ॥ KK03-13-252-018c
कुशचीराम्बरधरः परं नियममास्थितः । KK03-13-252-019a
वाग्यतो राजशार्दूलः स स्वर्गगतिकाम्यया ॥ KK03-13-252-019c
मनसोपचितिं कृत्वा निरस्य च बहिःक्रियाः । KK03-13-252-020a
'तस्थौ प्रायोपवेशेऽथ मतिं कृत्वा सुनिश्चयाम्' ॥ KK03-13-252-020c
अथ तं निश्चयं तस्य बुद्ध्वा दैतेयदानवाः । KK03-13-252-021a
पातालवासिनो रौद्राः पूर्वं देवैर्विनिर्जिताः ॥ KK03-13-252-021c
ते स्वपक्षक्षयं तं तु ज्ञात्वा दुर्योधनस्य वै । KK03-13-252-022a
आह्वानाय तदा चक्रुः कर्म वैतानसम्भवम् ॥ KK03-13-252-022c
बृहस्पत्युशनोक्तैश्च मन्त्रैर्मन्त्रविशारदाः । KK03-13-252-023a
अथर्ववेदप्रोक्तैश्च याश्चौपनिषदाः क्रियाः । KK03-13-252-023c
मन्त्रजप्यसमायुक्तास्तास्तदा समवर्तयन् ॥ KK03-13-252-023e
जुह्वत्यग्नौ हविः क्षीरं मन्त्रवत्सुसमाहिताः । KK03-13-252-024a
ब्राह्मणा वेदवेदाङ्गपारगाः सुदृढव्रताः ॥ KK03-13-252-024c
'अध्वर्यवो दानवानां कर्म प्रावर्तयंस्ततः' ॥ KK03-13-252-025ac
कर्मसिद्धौ तदा तत्र जृम्भमाणा महाद्भुता । KK03-13-252-026a
कृत्या समुत्थिता राजन्किं करोमीति चाब्रवीत् ॥ KK03-13-252-026c
आहुर्दैत्याश्च तां तत्र सुप्रीतेनान्तरात्मना । KK03-13-252-027a
प्रायोपविष्टं राजानं धार्तराष्ट्रमिहानय ॥ KK03-13-252-027c
तथेति च प्रतिश्रुत्य सा कृत्या प्रययौ तदा । KK03-13-252-028a
निमेषादगमच्चापि यत्र राजा सुयोधनः ॥ KK03-13-252-028c
समादाय च राजानं प्रविवेश रसातलम् । KK03-13-252-029a
दानवानां मुहूर्ताच्च पुरतस्तं न्यवेदयत् ॥ KK03-13-252-029c
तमानीतं नृपं दृष्ट्वा रात्रौ सङ्गत्य दानवाः । KK03-13-252-030a
प्रहृष्टमनसः सर्वे किञ्चिदुत्फुल्ललोचनाः ॥ KK03-13-252-030c
'दृढमेनं परिष्यज्य दृष्ट्वा च कुशलं तदा' । KK03-13-252-031a
साभिमानमिदं वाक्यं दुर्योधनमथाब्रुवन् ॥ KK03-13-252-031c

इति श्रीमन्महाभारते अरण्यपर्वणि घोषयात्रापर्वणि द्विपञ्चाशदधिकद्विशततमोऽध्यायः ॥

3-252-4 पात्रं मृत्पात्रम् । आममपक्वम् ॥ 3-252-5 क्लीबं सामर्थ्यहीनम् । दीर्घसूत्रं चिरकारिणम् । प्रमादिनमनवहितम् । व्यसनात् द्यूतपानमृगयादिरूपात् । विषयैः स्त्र्यादिभिराक्रान्तम् । त्वं तु तेषां मध्ये प्रमादी विषयाक्रान्तश्चेति भावः ॥ 3-252-6 पार्थैः कृतं मा नाशयेति सम्बन्धः ॥ 3-252-8 आत्मानं शरीरं मा त्यज ॥ 3-252-10 विकृतं म्लानम् ॥ 3-252-12 निर्वेदं जीविते वैराग्यम् । नैराश्यं राज्यलाभे इति शेषः ॥ 3-252-13 समन्युः दैन्यवान् । धर्मेण धनेन सौख्येन वा न मम कार्यमिति सम्बन्धः । धर्मधनाभ्यां यत्सौख्यं तेन वा ॥ 3-252-14 मा विहन्यत मम सङ्कल्पं मा नाशयत ॥ 3-252-19 वाग्यतो मौनी ॥ 3-252-20 मनसा उप समीपे चितिं दाहार्थं काष्ठसञ्चयं कृत्वा सङ्कल्प्य अवश्यं मर्तव्यमिति निश्चित्येत्यर्थः । बहिःक्रियाः स्नानपानाद्याः ॥ 3-252-22 वैतानसम्भवमग्निविस्तारसाध्यं नवकुण्ड्यादिविधानम् ॥ 3-252-23 उपनिषदि आरण्यके प्रोक्ताः औपनिषदाः । समवर्तयन् सम्प्रावर्तयन् दैतेयदानवा इतिपूर्वेण सम्बन्धः ॥ 3-252-26 कृत्या आज्ञाकरी देवता ॥