अध्यायः 251

कर्णेन बहुधा प्रार्थनेपि दुर्योधनेन प्रायोपवेशाध्यवसायादपरावर्तनम् ॥ 1 ॥

कर्ण उवाच KK03-13-251-001
राजन्नद्यावगच्छामि तवैव लघुसत्वताम् । KK03-13-251-001a
'अल्पत्वं च तथा बुद्धेः कार्याणामविवेकिताम्' ॥ KK03-13-251-001c
किमत्र चित्रं धर्मज्ञ मोक्षितः पाण्डवैरसि । KK03-13-251-002a
सद्यो वशं समापन्नः शत्रूणां शत्रुकर्शन ॥ KK03-13-251-002c
सेनाजीवैश्च कौरव्य तथा विषयवासिभिः । KK03-13-251-003a
अज्ञातैर्यदि वा ज्ञातैः कर्तव्यं नृपतेः प्रियम् ॥ KK03-13-251-003c
प्रायः प्रधानाः पुरुषाः क्षोभयित्वाऽरिवाहिनीम् । KK03-13-251-004a
निगृह्यन्ते च युद्धेषु मोक्ष्यन्ते च स्वसैनिकैः ॥ KK03-13-251-004c
सेनाजीवाश्च ये राज्ञां विषये सन्ति मानवाः । KK03-13-251-005a
तैः सङ्गम्य नृपार्थाय यतितव्यं यथातथम् ॥ KK03-13-251-005c
यद्येवं पाण्डवै राजन्भवद्विषयवासिभिः । KK03-13-251-006a
यदृच्छया मोक्षितोऽसि तत्रका परिदेवना ॥ KK03-13-251-006c
न चैतत्साधु यद्राजन्पाण्डवास्त्वां नृपोत्तमम् । KK03-13-251-007a
स्वसेनया सम्प्रयान्तं नानुयान्ति स्म पृष्ठतः ॥ KK03-13-251-007c
शूराश्च बलवन्तश्च संयुगेष्वपलायिनः । KK03-13-251-008a
भवतस्ते सभायां वै प्रेष्यतां पूर्वमागताः ॥ KK03-13-251-008c
पाण्डवेयानि रत्नानि त्वमद्याप्युपभुञ्जसे । KK03-13-251-009a
सत्वस्थान्पाण्डवान्पश्य न ते प्रायमुपाविशन् ॥ KK03-13-251-009c
'तदलं ते महाबाहो विषादं कर्तुमीदृशम्' । KK03-13-251-010a
उत्तिष्ठ राजन्भद्रं ते न चिन्तां कर्तुमर्हसि ॥ KK03-13-251-010c
अवश्यमेव नृपते राज्ञो विषयवासिभिः । KK03-13-251-011a
प्रियाण्याचरितव्यानि तत्र का परिदेवना ॥ KK03-13-251-011c
मद्वाक्यमेतद्राजेन्द्र यद्येवं न करिष्यसि । KK03-13-251-012a
स्थास्यामीह भवत्पादौ शुश्रूषन्नरिमर्दन ॥ KK03-13-251-012c
नोत्सहे जीवितुमहं त्वद्विहीनो नरर्षभः । KK03-13-251-013a
प्रायोपविष्टस्तु तथा राज्ञां हास्यो भविष्यसि ॥ KK03-13-251-013c
वैशम्पायन उवाच KK03-13-251-014
एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा । KK03-13-251-014a
नैवोत्थातुं मनश्चक्रे स्वर्गाय कृतनिश्चयः ॥ KK03-13-251-014c

इति श्रीमन्महाभारते अरण्यपर्वणि घोषयात्रापर्वणि एकपञ्चाशदधिकद्विशततमोऽध्यायः ॥

3-251-8 भवतस्ते सहाया वै इति झ. पाठः ॥