अध्यायः 250

दुर्योधनेन कर्णम् प्रति स्वबन्धनविषये चित्रसेनार्जुनसंवादप्रकारकथनपूर्वकम् युधिष्ठिरात्स्वस्य बन्धमोचनकथनम् ॥ 1 ॥ तथा प्रायोपवेशने निजाध्यवसायकथनपूर्वकम् दुःशासनम् प्रति राज्यपालनविधानम् ॥ 2 ॥ कर्णेन दुर्योधनम् प्रति प्रायोपवेशनान्निवर्तनाय सान्त्वोक्तिः ॥ 3 ॥

दुर्योधन उवाच KK03-13-250-001
चित्रसेनं समागम्य प्रहसन्नर्जुनस्तदा । KK03-13-250-001a
इदं वचनमक्लीबमब्रवीत्परवीरहा ॥ KK03-13-250-001c
भ्रातॄनर्हसि मे वीर मोक्तुं गन्धर्वसत्तम । KK03-13-250-002a
अनर्हधर्षणा हीमे जीवमानेषु पाण्डुषु ॥ KK03-13-250-002c
एवमुक्तस्तु गन्धर्वः पाण्डवेन महात्मना । KK03-13-250-003a
उवाच यत्कर्ण वयं मन्त्रयन्तो विनिर्गताः ॥ KK03-13-250-003c
'स्थितो राज्येच्युतान्स्थानाच्छ्रियाहीनां श्रियावृतः। KK03-13-250-004a
'द्रष्टास्मि निःसुखान्वीरान्सदारान्पाण्डवानिति ॥ KK03-13-250-004c
तस्मिन्नुच्चार्यमाणे तु गन्धर्वेण वचस्तथा । KK03-13-250-005a
भूमेर्विवरमन्वैच्छं प्रवेष्टुं व्रीडयाऽन्वितः ॥ KK03-13-250-005c
युधिष्ठिरमथागम्य गन्धर्वाः सह पाण्डवैः । KK03-13-250-006a
अस्मद्दुर्मन्त्रितं तस्मै बद्धांश्चास्मान्न्यवेदयन् ॥ KK03-13-250-006c
स्त्रीसमक्षमहं दीनो बद्धः शत्रुवशं गतः । KK03-13-250-007a
युधिष्ठिरस्योपहृतः किन्नु दुःखमतः परम् ॥ KK03-13-250-007c
ये मे निराकृता नित्यं रिपुर्येषामहं सदा । KK03-13-250-008a
तैर्मोक्षितोऽहं दुर्बुद्धिर्दत्तं तैरेव जीवितम् ॥ KK03-13-250-008c
प्राप्तः स्यां यद्यहं वीर वधं तस्मिन्महारणे । KK03-13-250-009a
श्रेयस्तद्भविता मह्यं नैवम्भूतस्य जीवितम् ॥ KK03-13-250-009c
भवेद्यशः पृथिव्यां मे ख्यातं गन्धर्वतो वधात् । KK03-13-250-010a
प्राप्ताश्च पुण्यलोकाः स्युर्महेन्द्रसदनेऽक्षयाः ॥ KK03-13-250-010c
यत्त्वद्य मे व्यवसितं तच्छृणुध्वं नरर्षभाः । KK03-13-250-011a
इह प्रायमुपासिष्ये यूयं व्रजत वै गृहान् । KK03-13-250-011c
भ्रातरश्चैव मे सर्वे यान्त्वद्य स्वपुरं प्रति ॥ KK03-13-250-011e
कर्णप्रभृतयश्चैव सुहृदो बान्धवाश्च ये । KK03-13-250-012a
दुःशासनं पुरस्कृत्य प्रयान्त्वद्य पुरं प्रति ॥ KK03-13-250-012c
न ह्यहं सम्प्रयास्यामि पुरं शत्रुनिराकृतः । KK03-13-250-013a
शत्रुमानापहो भूत्वा सुहृदां मानकृत्तथा ॥ KK03-13-250-013c
'कामं रणशिरस्यद्य शत्रुभिर्वै विमानितः' । KK03-13-250-014a
स सुहृच्छोकदो जातः शत्रूणां हर्षवर्धनः । KK03-13-250-014c
वारणाह्वयमासाद्य किं वक्ष्यामि जनाधिपम् ॥ KK03-13-250-014e
भीष्मद्रोणौ कृपद्रौणी विदुरः सञ्जयस्तथा । KK03-13-250-015a
बाह्लीकः सौमदत्तिश्च ये चान्ये वृद्धसम्मताः ॥ KK03-13-250-015c
ब्राह्मणाः श्रेणिमुख्याश्च तथोदासीनवृत्तयः । KK03-13-250-016a
किं मां वक्ष्यन्ति किं चापि प्रतिवक्ष्यामि तानहम् ॥ KK03-13-250-016c
रिपूणां शिरसि स्थित्वा तथा विक्रम्य चोरसि । KK03-13-250-017a
आत्मदोषात्परिभ्रष्टः कथं वक्ष्यामि तानहम् ॥ KK03-13-250-017c
दुर्विनीताः श्रियं प्राप्य विद्यामैश्वर्यमेव च । KK03-13-250-018a
तिष्ठन्ति न चिरं भद्रे यथाऽहं मदगर्वितः ॥ KK03-13-250-018c
अहो बत यथेदं मे कष्टं दुश्चरितं कृतम् । KK03-13-250-019a
स्वयं दुर्बुद्धिना मोहाद्येन प्राप्तोस्मि संशयम् ॥ KK03-13-250-019c
तस्मात्प्रायमुपासिष्ये न हिशक्ष्यामि जीवितुम् । KK03-13-250-020a
चेतयानो हि को जीवेत्कृच्छ्राच्छत्रुभिरुद्धृतः ॥ KK03-13-250-020c
शत्रुभिश्चावहसितो मानी पौरुषवर्जितः । KK03-13-250-021a
पाण्डवैर्विक्रमाढ्यैश्च सावमानमवेक्षितः ॥ KK03-13-250-021c
वैशम्पायन उवाच KK03-13-250-022
एवं चिन्तापरिगतो दुःशासनमथाब्रवीत् । KK03-13-250-022a
दुःशासन निबोधेदं वचनं मम भारत ॥ KK03-13-250-022c
प्रतीच्छ त्वं मया दत्तमभिषेकं नृपो भव । KK03-13-250-023a
प्रशाधि पृथिवीं स्फीतां कर्णसौबलपालिताम् ॥ KK03-13-250-023c
भ्रातॄन्पालय विस्रब्धं मरुतो वृत्रहा यथा । KK03-13-250-024a
बान्धवाश्चोपजीवन्तु देवा इव शतक्रतुम् ॥ KK03-13-250-024c
ब्राह्मणेषु सदा वृत्तिं कुर्वीथाश्चाप्रमादतः । KK03-13-250-025a
बन्धूनां सुहृदां चैव भवेथास्त्वं गतिः सदा ॥ KK03-13-250-025c
ज्ञातींश्चाप्यनुपश्येथा विष्णुर्देवगणान्यथा । KK03-13-250-026a
गुरवः पालनीयास्ते गच्छ पालय मेदिनीम् ॥ KK03-13-250-026c
नन्दयन्सुहृदः सर्वाञ्शात्रवांश्चावभर्त्सयन् । KK03-13-250-027a
कण्ठे चैनं परिष्वज्य गम्यतामित्युवाच ह ॥ KK03-13-250-027c
तस्य तद्वचनं श्रुत्वा दीनो दुःशासनोऽब्रवीत् । KK03-13-250-028a
अश्रुकण्ठः सुदुःखार्तः प्राञ्जलिः प्रणिपत्य च ॥ KK03-13-250-028c
सगद्गदमिदं वाक्यं भ्रातरं ज्येष्ठमात्मनः । KK03-13-250-029a
प्रसीदेत्यपतद्भूमौ दूयमानेन चेतसा ॥ KK03-13-250-029c
दुःखितः पादयोस्तस्य नेत्रजं जलमुत्सृजन् । KK03-13-250-030a
उक्तवांश्च नरव्याघ्रो नैतदेवं भविष्यति ॥ KK03-13-250-030c
विदीर्येत्सकला भूमिर्द्यौश्चापि शकलीभवेत् । KK03-13-250-031a
रविरात्मप्रभां जह्यात्सोमः शीतांशुतां त्यजेत् ॥ KK03-13-250-031c
वायुः शैघ्र्यमथो जह्याद्धिमवांश्च हिमं त्यजेत् । KK03-13-250-032a
शुष्येत्तोयं समुद्रेषु वह्निरप्युष्णतां त्यजेत् ॥ KK03-13-250-032c
न चाहं त्वदृते राजन्प्रशासेयं वसुन्धराम् । KK03-13-250-033a
पुनःपुनः प्रसीदेति वाक्यं चेदमुवाच ह ॥ KK03-13-250-033c
'शत्रूणां शोककृद्राजन्सुहृदां शोकनाशनः KK03-13-250-034a
'त्वमेव नः कुले राजा भविष्यसि शतं समाः ॥ KK03-13-250-034c
एवमुक्त्वा स राजानं सुस्वरं प्ररुरोद ह । KK03-13-250-035a
पादौ संस्पृश्य मानार्हौ भ्रातुर्ज्येष्ठस्य भारत ॥ KK03-13-250-035c
तथा तौ दुःखितौ दृष्ट्वा दुःशासनसुयोधनौ । KK03-13-250-036a
अभिगम्य व्यथाविष्टः कर्णस्तौ प्रत्यभाषत ॥ KK03-13-250-036c
विषीदथः किं कौरव्यौ बालिश्यात्प्राकृताविव । KK03-13-250-037a
न शोकः शोचमानस्य विनिवर्तेत कर्हिचित् ॥ KK03-13-250-037c
यदा च शोचतः शोको व्यसनं नापकर्षति । KK03-13-250-038a
सामर्थ्यं किं ततः शोके शोचमानौ प्रपश्यथः ॥ KK03-13-250-038c
धृतिं गृह्णीतं मा शत्रूञ्शोचन्तौ नन्दयिष्यथः । KK03-13-250-039a
कर्तव्यं हि कृतं राजन्पाण्डवैस्तव मोक्षणम् ॥ KK03-13-250-039c
नित्यमेव प्रियं कार्यं राज्ञो विषयवासिभिः । KK03-13-250-040a
पाल्यमानास्त्वया ते हि निवसन्ति गतज्वराः ॥ KK03-13-250-040c
नार्हस्येवङ्गते मन्युं कर्तुं प्राकृतवत्स्वयम् । KK03-13-250-041a
विषण्णास्तव सोदर्यास्त्वयि प्रायं समास्थिते ॥ KK03-13-250-041c
'तदलं दुःखितानेतान्कर्तुं सर्वान्नराधिप' । KK03-13-250-042a
उत्तिष्ठ व्रज भद्रं ते समाश्वासय सोदरान् ॥ KK03-13-250-042c

इति श्रीमन्महाभारते अरण्यपर्वणि घोषयात्रापर्वणि पञ्चाशदधिकद्विशततमोऽध्यायः ॥ 250 ॥

3-250-9 एवम्भूतस्य जीवितं न श्रेय इति सम्बन्धः ॥ 3-250-16 श्रेणिमुख्याः शिल्पिसङ्घातमुख्याः प्रकृतय इत्यर्थः ॥ 3-250-24 विस्रब्धं सविश्वासं यथा स्यात्तथा ॥ 3-250-27 कर्णं चैनं परिष्वज्येति ध. पाठः ॥ 3-250-32 हिमवांश्च परिप्लवेत् इति थ. पाठः । परिव्रजेत् इति झ. पाठः ॥ 3-250-38 यदि शोकेन व्यसनं नश्येत्तर्हि स कर्तव्यः नतु तत्तथास्ति अतः शोको न कर्तव्य इत्यर्थः ॥