अध्यायः 249
दुर्योधनेन कर्णम् प्रति युद्धे सानुजस्य स्वस्य गन्धर्वैर्बन्धनस्य युधिष्ठिरचोदनया भीमादिभिर्गन्धर्वाणां रणे पराजयस्य च कथनम् ॥ 1 ॥
दुर्योधन उवाच KK03-13-249-001
अजानतस्ते राधेय नाभ्यसूयाम्यहं वचः । KK03-13-249-001a
जानासि त्वं जिताञ्शत्रून्गन्धर्वांस्तेजसा मया ॥ KK03-13-249-001c
आयोधितास्तु गन्धर्वाः सुचिरं सोदरैर्मम । KK03-13-249-002a
मया सह महाबाहो कृतश्चोभयतः क्षयः ॥ KK03-13-249-002c
मायाधिकास्त्वयुध्यन्त यदा शूरा वियद्गताः । KK03-13-249-003a
तदा नो न समं युद्धमभवत्खेचरैः सह ॥ KK03-13-249-003c
पराजयं च प्राप्ताः स्मो रणे बन्धनमेव च । KK03-13-249-004a
सभृत्यामात्यपुत्राश्च सदारबलवाहनाः । KK03-13-249-004c
उच्चैराकाशमार्गेण ह्रियमाणाः सुदुःखिताः ॥ KK03-13-249-004e
अथ नः सैनिकाः केचिदमात्याश्च महारथाः । KK03-13-249-005a
उपगम्याब्रुवन्दीनाः पाण्डवाञ्शरणप्रदान् ॥ KK03-13-249-005c
एष दुर्योधनो राजा धार्तराष्ट्रः सहानुजः । KK03-13-249-006a
सामात्यदारो ह्रियते गन्धर्वैर्दिवमाश्रितैः ॥ KK03-13-249-006c
तं मोक्षयत भद्रं वः सहदारं नराधिपम् । KK03-13-249-007a
परामर्शो मा भविष्यत्कुरुदारेषु सर्वशः । KK03-13-249-007c
'इत्यब्रुवन्रणान्मुक्ता धर्मराजमुपागताः' ॥ KK03-13-249-007e
एवमुक्ते तु धर्मात्मा ज्येष्ठः पाण्डुसुतस्तदा । KK03-13-249-008a
प्रसाद्य सोदरान्सर्वानाज्ञापयत मोक्षणे ॥ KK03-13-249-008c
अथागम्य तमुद्देशं पाण्डवाः पुरुषर्षभाः । KK03-13-249-009a
सान्त्वपूर्वमयाचन्त शक्ताः सन्तो महारथाः ॥ KK03-13-249-009c
यदा चास्मान्न मुमुचुर्गन्धर्वाः सान्त्विता अपि । KK03-13-249-010a
'आकाशचारिणो वीरा नदन्तो जलदा इव' ॥ KK03-13-249-010c
ततोऽर्जुनश्च भीमश्च यमजौ च बलोत्कटौ । KK03-13-249-011a
मुमुचुः शरवर्षाणि गन्धर्वान्प्रत्यनेकशः ॥ KK03-13-249-011c
अथ सर्वे रणं मुक्त्वा प्रयाताः खेचरा दिवम् । KK03-13-249-012a
अस्मानेवाभिकर्षन्तो दीनान्मुदितमानसाः ॥ KK03-13-249-012c
ततः समन्तात्पश्यामः शरजालेन वेष्टितम् । KK03-13-249-013a
अमानुषाणि चास्त्राणि प्रयुञ्जानं धनञ्जयम् ॥ KK03-13-249-013c
समावृता दिशो दृष्ट्वा पाण्डवेन शितैः शरैः । KK03-13-249-014a
धनञ्जयसखाऽऽत्मानं दर्शयामास वै तदा ॥ KK03-13-249-014c
चित्रसेनः पाण्डवेन समाश्लिष्य परस्परम् । KK03-13-249-015a
कुशलं परिपप्रच्छ तैः पृष्टश्चाप्यनामयम् ॥ KK03-13-249-015c
ते समेत्य तथाऽन्योन्यं सन्नाहान्विप्रमुच्य च । KK03-13-249-016a
एकीभूतास्ततो वीरा गन्धर्वाः सह पाण्डवैः ॥ KK03-13-249-016c
'परस्परं समागम्य प्रीत्या परमया युतौ' । KK03-13-249-017a
अपूजयेतामन्योन्यं चित्रसेनधनञ्जयौ ॥ KK03-13-249-017c
इति श्रीमन्महाभारते अरण्यपर्वणि घोषयात्रापर्वणि एकोनपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 249 ॥
3-249-1 नाभ्यसूयामि दोषवदिति न मन्ये ॥