अध्यायः 248
दुर्योधनेन मध्येमार्गं क्वचन रमणीये देशे सेनादिसन्निवेशनपूर्वकमवस्थानम् ॥ 1 ॥ तत्र समागतेन गन्धर्वकृते बन्धनमोचने अपरिजानता कर्णेन भ्रमात्तस्य गन्धर्वजेतृत्वेन रूपेण प्रशंसनम् ॥ 2 ॥
जनमेजय उवाच KK03-13-248-001
शत्रुभिर्जितबद्धस्य पाण्डवैश्च महात्मभिः । KK03-13-248-001a
मोक्षितस्य युधा पश्चान्मानिनः सुदुरात्मनः ॥ KK03-13-248-001c
कत्थनस्यावलिप्तस्य गर्वितस्य च नित्यशः । KK03-13-248-002a
सदा च पौरुषौदार्यैः पाण्डवानवमन्यतः ॥ KK03-13-248-002c
दुर्योधनस्य पापस्य नित्याहङ्कारवादिनः । KK03-13-248-003a
प्रवेशो हास्तिनपुरे दुष्करः प्रतिभाति मे ॥ KK03-13-248-003c
तस्य लज्जान्वितस्यैव शोकव्याकुलचेतसः । KK03-13-248-004a
प्रवेशं विस्तरेण त्वं वैशम्पायन कीर्तय ॥ KK03-13-248-004c
वैशम्पायन उवाच KK03-13-248-005
धर्मराजनिसृष्टस्तु धार्तराष्ट्रः सुयोधनः । KK03-13-248-005a
लज्जयाऽधोमुखः सीदन्नुपासर्पत्सुदुःखितः ॥ KK03-13-248-005c
स्वपुरं प्रययौ राजा चतुरङ्गबलानुगः । KK03-13-248-006a
शोकोपहतया बुद्ध्या चिन्तयानः पराभवम् ॥ KK03-13-248-006c
विमुच्य पथि यानानि देशे सुयवसोदके । KK03-13-248-007a
सन्निविष्टः शुभे रम्ये भूमिभागे यथेप्सितम् । KK03-13-248-007c
हस्त्यश्वरथपादातं यथास्थानं न्यवेशयत् ॥ KK03-13-248-007e
अथोपविष्टं राजानं पर्यङ्के ज्वलनप्रभे । KK03-13-248-008a
उपप्लुतं यथा सोमं राहुणा रात्रिसङ्क्षये । KK03-13-248-008c
उपागम्याब्रवीत्कर्णो दुर्योधनमिदं तदा ॥ KK03-13-248-008e
दिष्ट्या जीवसि गान्धारे दिष्ट्या नः सङ्गमः पुनः । KK03-13-248-009a
दिष्ट्या त्वया जिताश्चैव गन्धर्वाः कामरूपिणः ॥ KK03-13-248-009c
दिष्ट्या समग्रान्पश्यामि भ्रातॄंस्ते कुरुनन्दन । KK03-13-248-010a
विजिगीषून्रणे युक्तान्निर्जितारीन्महारथान् ॥ KK03-13-248-010c
अहं त्वभिद्रुतः सर्वैर्गन्धर्वैः पश्यतस्तव । KK03-13-248-011a
नाशक्नुवं स्थापयितुं दीर्यमाणां च वाहिनीम् । KK03-13-248-011c
शरक्षताङ्गश्च भृशं व्यपयातोऽभिपीडितः ॥ KK03-13-248-011e
इदं त्वत्यद्भुतं मन्ये यद्युष्मानिह भारत । KK03-13-248-012a
अरिष्टानक्षतांश्चापि सदारबलवाहनान् । KK03-13-248-012c
विमुक्तान्सम्प्रपश्यामि युद्धात्तस्मादमानुषात् ॥ KK03-13-248-012e
नैतस्य कर्ता लोकेऽस्मिन्पुमान्विद्यति भारत । KK03-13-248-013a
यत्कृतं ते महाराज सह भ्रातृभिराहवे ॥ KK03-13-248-013c
एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा । KK03-13-248-014a
उवाचावाक्शिरा राजन्बाष्पगद्गदया गिरा ॥ KK03-13-248-014c
इति श्रीमन्महाभारते अरण्यपर्वणि घोषयात्रापर्वणि अष्टचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 248 ॥ 3-248-2 कत्थनस्यात्मस्तुतिपरस्य ॥