अध्यायः 247

चित्रसेनेनार्जुनम् प्रति दुर्योधनबन्धने कारणाभिधानपूर्वकं युधिष्ठिरसमीपगमनम् ॥ 1 ॥ युधिष्ठिरेण गन्धर्वैर्दुर्योधनादीनाम् बन्धाद्विमोचनम् ॥ 2 ॥ ततो दुर्योधनेन स्वपुरम् प्रति प्रस्थानम् ॥ 3 ॥

वैशम्पायन उवाच KK03-13-247-001
ततोऽर्जुनश्चित्रसेनं प्रहसन्निदमब्रवीत् । KK03-13-247-001a
मध्ये गन्धर्वसैन्यानां महेष्वासो महाद्युतिः ॥ KK03-13-247-001c
किं ते व्यवसितं वीर कौरवाणां विनिग्रहे । KK03-13-247-002a
किमर्थं च सदारोऽयं निगृहीतः सुयोधनः ॥ KK03-13-247-002c
चित्रसेन उवाच KK03-13-247-003
विदितोऽयमभिप्रायस्तत्रस्थेन दुरात्मनः । KK03-13-247-003a
इन्द्रेण धार्तराष्ट्रस्य सकर्णस्य धनञ्जय ॥ KK03-13-247-003c
वनस्थान्भवतो ज्ञात्वा क्लिश्यमानाननर्हवत् । KK03-13-247-004a
समस्थो विषमस्थांस्तान्द्रक्ष्यामीत्यनवस्थितान् ॥ KK03-13-247-004c
इमेऽवहसितुं प्राप्ता द्रौपदीं च यशस्विनीम् । KK03-13-247-005a
ज्ञात्वा चिकीर्षितं चैषां मामुवाच सुरेश्वरः ॥ KK03-13-247-005c
गच्छ दुर्योधनं बद्ध्वा सहामात्यमिहानय । KK03-13-247-006a
धनञ्जयश्च ते रक्ष्यः सह भ्रातृभिराहवे ॥ KK03-13-247-006c
स च प्रियः सखा तुभ्यं शिष्यश्च तव पाण्डवः । KK03-13-247-007a
वचनाद्देवराजस्य ततोऽस्मीहागतो द्रुतम् ॥ KK03-13-247-007c
अयं दुरात्मा बद्धश्च गमिष्यामि सुरालयम् । KK03-13-247-008a
नेष्याम्येनं दुरात्मानं पाकशासनशासनात् ॥ KK03-13-247-008c
अर्जुन उवाच KK03-13-247-009
उत्सृज्यतां चित्रसेन भ्राताऽस्माकं सुयोधनः । KK03-13-247-009a
धर्मराजस्य सन्देशान्मम चेदिच्छसि प्रियम् ॥ KK03-13-247-009c
चित्रसेन उवाच KK03-13-247-010
पापोऽयं नित्यसन्दुष्टो न विमोक्षणमर्हति । KK03-13-247-010a
प्रलब्धा धर्मराजस्य कृष्णायाश्च धनञ्जय ॥ KK03-13-247-010c
नेदं चिकीर्षितं तस्य कुन्तीपुत्रो युधिष्ठिरः । KK03-13-247-011a
जानाति धर्मराजो हि श्रुत्वा कुरु यथेच्छसि ॥ KK03-13-247-011c
वैशम्पायन उवाच KK03-13-247-012
ते सर्व एव राजनमभिजग्मुर्युधिष्ठिरम् । KK03-13-247-012a
अभिगम्य च तत्सर्वं शशंसुस्तस्य चेष्टितम् ॥ KK03-13-247-012c
अजातशत्रुस्तच्छ्रुत्वा गन्धर्वस्य वचस्तदा । KK03-13-247-013a
मोक्षयामास तान्सर्वान्गन्धर्वान्प्रशशंस च ॥ KK03-13-247-013c
'चित्रसेनस्तदा वाक्यमुवाच प्रौढया गिरा । KK03-13-247-014a
मुञ्चध्वं सानुजामात्यं सदारं च सुयोधनम् ॥ KK03-13-247-014c
गन्धर्वास्तु वचः श्रुत्वा चित्रसेनस्य वै द्रुतम् । KK03-13-247-015a
राजानं मोचयामासुर्बद्धं निगडबन्धनैः ॥ KK03-13-247-015c
सदारं सानुगामात्यं बालजालमयेन ये । KK03-13-247-016a
लुठन्तश्चापि ते सर्वे युधिष्ठिरसमीपतः ॥ KK03-13-247-016c
पतिता लज्जिताश्चैव तस्थुश्चाधोमुखास्तदा । KK03-13-247-017a
युधिष्ठिरोपि दयया तान्समीक्ष्य तथागतान् ॥ KK03-13-247-017c
दिष्ट्या भवद्भिर्बलिभिः शक्तैः सर्वैर्न हिंसितः । KK03-13-247-018a
दुर्वृत्तो धार्तराष्ट्रोऽयं सामात्यज्ञातिबान्धवः ॥ KK03-13-247-018c
उपकारो महांस्तात कृतोऽयं मम खेचर । KK03-13-247-019a
कुलं न परिभूतं मे मोक्षेणास्य दुरात्मनः ॥ KK03-13-247-019c
आज्ञापयध्वमिष्टानि प्रीतं मां दर्शनेन वः । KK03-13-247-020a
प्राप्य सर्वानभिप्रायांस्ततो व्रजत मा चिरम् ॥ KK03-13-247-020c
अनुज्ञातास्तु गन्धर्वाः पाण्डुपुत्रेण धीमता । KK03-13-247-021a
सहाप्सरोभिः संहृष्टाश्चित्रसेनमुखा ययुः ॥ KK03-13-247-021c
'देवलोकं ततो गत्वा गन्धर्वैः सहितस्तदा । KK03-13-247-022a
न्यवेदयच्च तत्सर्वं चित्रसेनः शतक्रतोः' ॥ KK03-13-247-022c
देवराडपि गन्धर्वान्मृतांस्तान्समजीवयत् । KK03-13-247-023a
दिव्येनामृतवर्षेण ये हताः कौरवैर्युधि ॥ KK03-13-247-023c
ज्ञातींस्तानवमुच्याथ राजदारांश्च सर्वशः । KK03-13-247-024a
कृत्वा च दुष्करं कर्म प्रीतियुक्ताश्च पाण्डवाः ॥ KK03-13-247-024c
सस्त्रीकुमारैः कुरुभिः पूज्यमाना महारथाः । KK03-13-247-025a
बभ्राजिरे महात्मानः क्रतुमध्ये यथाऽग्नयः ॥ KK03-13-247-025c
ततो दुर्योधनं मुक्तं भ्रातृभिः सहितस्तदा । KK03-13-247-026a
युधिष्ठिरस्तु प्रणयादिदं वचनमब्रवीत् ॥ KK03-13-247-026c
मा स्म तात पुनः कार्षीरीदृशं साहसं क्वचित् । KK03-13-247-027a
न हि साहसकर्तारः सुखमेधन्ति भारत ॥ KK03-13-247-027c
स्वस्तिमान्सहितः सर्वैर्भ्रातृभिः कुरुनन्दन । KK03-13-247-028a
गृहान्व्रज यथाकामं वैमनस्यं च मा कृथाः ॥ KK03-13-247-028c
वैशम्पायन उवाच KK03-13-247-029
पाण्डवेनाभ्यनुज्ञातो राजा दुर्योधनस्तदा । KK03-13-247-029a
अभिवाद्य धर्मपुत्रं गतेन्द्रिय इवातुरः । KK03-13-247-029c
विदीर्यमाणो व्रीडावाञ्जगाम नगरं प्रति ॥ KK03-13-247-029e
तस्मिन्गते कौरवेये कुन्तीपुत्रो युधिष्ठिरः । KK03-13-247-030a
भ्रातृभिः सहितो वीरः पूज्यमानो द्विजातिभिः ॥ KK03-13-247-030c
तपोधनैश्च तैः सर्वैर्वृतः शक्र इवामरैः । KK03-13-247-031a
तथा द्वैतवने तस्मिन्विजहार मुदा युतः ॥ KK03-13-247-031c

इति श्रीमन्महाभारते अरण्यपर्वणि घोषयात्रापर्वणि सप्तचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 247 ॥

3-247-10 प्रलब्धा वञ्चकः ॥ 3-247-11 इदं मदुक्तं समस्थो विषमस्थांस्तान् द्रक्ष्यामीति ॥ 3-247-17 युधिष्ठिरोपीति । गन्धर्वान्प्रत्युवाचेति शेषः ॥ 3-247-28 वैमनस्यं वैरं केनचित्सह मा कृथाः मा कुरु ॥