अध्यायः 246
अर्जुनेन मायाशक्त्याऽन्तर्धानेन युध्यते चित्रसेनायास्त्रप्रयोगे सति तेनार्जुनम् प्रति स्वस्य सखित्वकथनम् ॥ 1 ॥ ततोऽर्जुनेनास्त्रोपसंहारे भीमादीनां युद्धोपरमपूर्वकं तेन सह संलापः ॥ 2 ॥
वैशम्पायन उवाच KK03-13-246-001
ततो दिव्यास्त्रसम्पन्ना गन्धर्वा हेममालिनः । KK03-13-246-001a
विसृजन्तः शरान्दीप्तान्समन्तात्पर्यवारयन् ॥ KK03-13-246-001c
चतुरः पाण्डवान्वीरान्गन्धर्वाश्च सहस्रशः । KK03-13-246-002a
रणे सन्न्यपतन्राजंस्तदद्भुतमिवाभवत् ॥ KK03-13-246-002c
यथा कर्णस्य च रथो धार्तराष्ट्रस्य चोभयोः । KK03-13-246-003a
गन्धर्वैः शतशश्छिन्नौ तथा तेषां प्रचक्रितरे ॥ KK03-13-246-003c
तान्समापततो राजन्गधर्वाञ्छतशो रणे । KK03-13-246-004a
प्रत्यगृह्णन्नरव्याघ्राः शरवर्षैरनेकशः ॥ KK03-13-246-004c
ते कीर्यमाणाः खगमाः शरवर्षैः समन्ततः । KK03-13-246-005a
न शेकुः पाण्डुपुत्राणां समीपे परिवर्तितुम् ॥ KK03-13-246-005c
अभिक्रुद्धानभिक्रुद्धो गन्धर्वानर्जुनस्तदा । KK03-13-246-006a
लक्षयित्वाऽथ दिव्यानि महास्त्राण्युपचक्रमे ॥ KK03-13-246-006c
सहस्राणां सहस्राणि प्राहिणोद्यमसादनम् । KK03-13-246-007a
अजेयानर्जुनः सङ्ख्ये गन्धर्वाणां बलोत्कटः ॥ KK03-13-246-007c
तथा भीमो महेष्वासः संयुगे बलिनांवरः । KK03-13-246-008a
गन्धर्वाञ्शतशो राजञ्जघान निशितैः शरैः ॥ KK03-13-246-008c
माद्रीपुत्रावपि तथा युध्यमानौ बलोत्कटौ । KK03-13-246-009a
परिगृह्याग्रतो राजञ्जघ्नतुः शतशः परान् ॥ KK03-13-246-009c
ते वध्यमाना गन्धर्वा दिव्यैरस्त्रैर्महारथैः । KK03-13-246-010a
उत्पेतुः खमुपादाय धृतराष्ट्रसुतांस्ततः ॥ KK03-13-246-010c
स तानुत्पतितान्दृष्ट्वा कुन्तीपुत्रो धनञ्जयः । KK03-13-246-011a
महता शरजालेन समन्तात्पर्यवारयत् ॥ KK03-13-246-011c
ते बद्धाः शरजालेन शकुन्ता इव पञ्जरे KK03-13-246-012a
ववर्षुरर्जुनं क्रोधाद्गदाशक्त्यृष्टिवृष्टिभिः ॥ KK03-13-246-012c
गदाशक्त्यृष्टिवृष्टीस्ता निहत्य परमास्त्रवित् । KK03-13-246-013a
गात्राणि चाहनद्भल्लैर्गन्धर्वाणां धनञ्जयः ॥ KK03-13-246-013c
शिरोभिः प्रपतद्भिश्च चरणैर्बाहुभिस्तथा । KK03-13-246-014a
अश्मवृष्टिरिवाभाति परेषामभवद्भयम् ॥ KK03-13-246-014c
ते वध्यमाना गन्धर्वाः पाण्डवेन महात्मना । KK03-13-246-015a
भूमिष्ठमन्तरिक्षस्थाः शरवर्षैरवाकिरन् ॥ KK03-13-246-015c
तेषां तु शरवर्षाणि सव्यसाची परन्तपः । KK03-13-246-016a
अस्त्रैः संवार्य तेजस्वी गन्धर्वान्प्रत्यविध्यत ॥ KK03-13-246-016c
स्थूणाकर्णेन्द्रजालं च सौरं चापि तथाऽर्जुनः । KK03-13-246-017a
आग्नेयं चापि सौम्यं च ससर्ज कुरुननदनः ॥ KK03-13-246-017c
ते दह्यमाना गन्धर्वाः कुन्तीपुत्रस्य सायकैः । KK03-13-246-018a
दैतेया इव शक्रेण विषादमगमन्परम् ॥ KK03-13-246-018c
ऊर्ध्वमाक्रममाणाश्च शरजालेन वारिताः । KK03-13-246-019a
विसर्पमाणा भल्लैश्च वार्यन्ते सव्यसाचिना ॥ KK03-13-246-019c
गन्धर्वांस्त्रासितान्दृष्ट्वा कुन्तीपुत्रेण भारत । KK03-13-246-020a
चित्रसेनो गदां गृह्य सव्यसाचिनमनाद्रवत् ॥ KK03-13-246-020c
तस्याभिपततस्तूर्णं गदाहस्तस्य संयुगे । KK03-13-246-021a
गदां सर्वायसीं पार्थः शरैश्चिच्छेद सप्तधा ॥ KK03-13-246-021c
स गदां बहुधा दृष्ट्वा कृत्तां बाणैस्तरस्विना । KK03-13-246-022a
संवृत्य विद्ययाऽऽत्मानं योधयामास पाण्डवम् ॥ KK03-13-246-022c
अस्त्राणि तस्य दिव्यानि सम्प्रयुक्तानि सर्वशः । KK03-13-246-023a
दिव्यैरस्त्रैस्तदा वीरः पर्यवारयदर्जुनः ॥ KK03-13-246-023c
स वार्यमाणस्तैरस्त्रैरर्जुनेन महात्मना । KK03-13-246-024a
गन्धर्वराजो बलवान्माययाऽन्तर्हितस्तदा ॥ KK03-13-246-024c
अन्तर्हितं तमालक्ष्य प्रहरन्तमथार्जुनः । KK03-13-246-025a
ताडयामास खचरैर्दिव्यास्त्रप्रतिमन्त्रितैः ॥ KK03-13-246-025c
अन्तर्धानवधं चास्य चक्रे क्रुद्धोऽर्जुनस्तदा । KK03-13-246-026a
शब्दवेधं समाश्रित्य बहुरूपो धनञ्जयः ॥ KK03-13-246-026c
स वध्यमानस्तैरस्त्रैरर्जुनेन महात्मना । KK03-13-246-027a
ततोऽस्य दर्शयामास तदाऽऽत्मानं प्रियः सखा ॥ KK03-13-246-027c
चित्रसेनस्तथोवाच सखायं युधि विद्धि माम् । KK03-13-246-028a
चित्रसेनमथालक्ष्य सखायमिति विस्मितः ॥ KK03-13-246-028c
सञ्जहारास्त्रमथ तत्प्रसृष्टं पाण्डवर्षभः ॥ KK03-13-246-029ac
दृष्ट्वा तु पाण्डवाः सर्वे संहृतास्त्रं धनञ्जयम् । KK03-13-246-030a
सञ्जह्रुः प्रद्रुतानश्वाञ्शरवेगान्धनूंषि च ॥ KK03-13-246-030c
चित्रसेनश्च भीमश्च सव्यसाची यमावपि । KK03-13-246-031a
पृष्ट्वा कौशलमन्योन्यं रथेष्वेवावतस्थिरे ॥ KK03-13-246-031c
इति श्रीमन्महाभारते अरण्यपर्वणि घोषयात्रापर्वणि षट्चत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 246 ॥
3-246-3 तथा तेषां चतुर्णामपि रथान् छन्नान् प्रचक्रिरे गन्धर्वाः ॥ 3-246-20 गृह्य गृहीत्वा ॥ 3-246-22 संवृत्य आच्छाद्य । विद्यया अदर्शनशक्त्या ॥