अध्यायः 245
भीमादीनां चतुर्णां चित्रसेनादिभिर्गन्धर्वैर्युद्धम् ॥ 1 ॥
वैशम्पायन उवाच KK03-13-245-001
युधिष्ठिरवचः श्रुत्वा भीमसेनपुरोगमाः । KK03-13-245-001a
प्रहृष्टवदनाः सर्वे समुत्तस्थुर्नरर्षभाः ॥ KK03-13-245-001c
अभेद्यानि ततः सर्वे समनह्यन्त भारत । KK03-13-245-002a
जाम्बूनदविचित्राणि कवचानि महारथाः । KK03-13-245-002c
आयुधानि च दिव्यानि विविधानि समादधुः ॥ KK03-13-245-002e
ते दंशिता रथैः सर्वे ध्वजिनः सशरासनाः । KK03-13-245-003a
पाण्डवाः प्रत्यदृश्यन्त ज्वलिता इव पावकाः ॥ KK03-13-245-003c
तान्रथान्साधुसम्पन्नान्संयुक्ताञ्जवनैर्हयैः । KK03-13-245-004a
आस्थाय रथशार्दूलाः शीघ्रमेव ययुस्ततः ॥ KK03-13-245-004c
ततः कौरवसैन्यानां प्रादुरासीन्महास्वनः । KK03-13-245-005a
प्रयातान्सहितान्दृष्ट्वा पाण्डुपुत्रान्महारथान् ॥ KK03-13-245-005c
जितकाशिनश्च स्वचरास्त्वरिताश्च महारथाः । KK03-13-245-006a
क्षणेनैव वने तस्मिन्समाजग्मुरभीतवत् ॥ KK03-13-245-006c
न्यवर्तन्त ततः सर्वे गन्धर्वा जितकाशिनः । KK03-13-245-007a
दृष्ट्वा रथगतान्वीरान्पाण्डवांश्चतुरो रणे ॥ KK03-13-245-007c
तांस्तु विभ्राजितान्दृष्ट्वा लोकपालानिवोद्यतान् । KK03-13-245-008a
व्यूढानीका व्यतिष्ठन्त गन्धमादनवासिनः ॥ KK03-13-245-008c
राज्ञस्तु वचनं श्रुत्वा धर्मपुत्रस्य धीमतः । KK03-13-245-009a
क्रमेण मृदुना युद्धमुपक्रान्तं च भारत ॥ KK03-13-245-009c
न तु गन्धर्वराजस्य सैनिका मन्दचेतसः । KK03-13-245-010a
शक्यन्ते मृदुना श्रेयः प्रतिपादयितुं तदा ॥ KK03-13-245-010c
ततस्तान्युधि दुर्धर्षान्सव्यसाची परन्तपः । KK03-13-245-011a
सान्त्वपूर्वमिदं वाक्यमुवाच खचरान्रणे ॥ KK03-13-245-011c
नैतद्गन्धर्वराजस्य युक्तं कर्म जुगुप्सितम् । KK03-13-245-012a
परदाराभिमर्शश्च मानुषैश्च समागमः ॥ KK03-13-245-012c
उत्सृजध्वं महावीर्यान्धृतराष्ट्रसुतानिमान् । KK03-13-245-013a
दारांश्चैषां प्रमुञ्चध्वं धर्मराजस्य शासनात् ॥ KK03-13-245-013c
त एवमुक्ता गन्धर्वाः पाण्डवेन यशस्विना । KK03-13-245-014a
उत्स्मयन्तस्तदा पार्थमिदं वचनमब्रुवन् ॥ KK03-13-245-014c
एकस्यैव वयं तात कुर्याम वचनं भुवि । KK03-13-245-015a
यस्य शासनमाज्ञाय चरामो विगतज्वराः ॥ KK03-13-245-015c
तेनैकेन यथादिष्टं तथा वर्ताम भारत । KK03-13-245-016a
न शास्ता विद्यतेऽस्माकमन्यस्तस्मात्सुरेश्वरात् ॥ KK03-13-245-016c
एवमुक्तः स गन्धर्वैः कुन्तीपुत्रो धनञ्जयः । KK03-13-245-017a
गन्धर्वान्पुनरेवैतान्वचनं प्रत्यभाषत ॥ KK03-13-245-017c
यदि साम्ना न मुञ्चध्वं गन्धर्वा धृतराष्ट्रजान् । KK03-13-245-018a
मोक्षयिष्यामि विक्रम्य स्वयमेव सुयोधनम् ॥ KK03-13-245-018c
एवमुक्त्वा ततः पार्थः सव्यसाची धनञ्जयः । KK03-13-245-019a
ससर्ज निशितान्बाणान्खचरान्खचरान्प्रति ॥ KK03-13-245-019c
तथैव शरवर्षेण गन्धर्वास्ते बलोत्काटाः । KK03-13-245-020a
पाण्डवानभ्यवर्तन्त पाण्डवाश्च दिवौकसः ॥ KK03-13-245-020c
ततः सुतुमुलं युद्धं गन्धर्वाणां तरस्विनाम् । KK03-13-245-021a
बभूव भीमवेगानां पाण्डवानां च भारत ॥ KK03-13-245-021c
इति श्रीमन्महाभारते अरण्यपर्वणि घोषयात्रापर्वणि पञ्चचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 245 ॥
3-245-3 दंशिताः सन्नद्धाः ॥ 3-245-10 श्रेयः कल्याणम् । प्रतिपादयितुं प्रापयितुम् ॥ 3-245-19 खचरान् गगनगमनान् । खचरान् गन्धर्वान् ॥