अध्यायः 244

भीमेन युधिष्ठिरम् प्रति दुर्योधनकृतापनयानुस्मनारणपूर्वकं तद्विमोचनस्यानौचित्यप्रतिपादने युधिष्ठिरेण पुनस्तम् प्रति तच्चोदनायामर्जुनेन तत्प्रतिज्ञानम् ॥ 1 ॥

युधिष्ठिर उवाच KK03-13-244-001
अस्मानभिगतांस्तात भयार्ताञ्छरणैषिणः । KK03-13-244-001a
कौरवान्विषमप्राप्तान्कथं ब्रूयास्त्वमीदृशम् ॥ KK03-13-244-001c
भवन्ति भेदा ज्ञातीनां कलहाश्च वृकोदर । KK03-13-244-002a
प्रसक्तानि च वैराणि ज्ञातिधर्मो न नश्यति ॥ KK03-13-244-002c
यदा तु कश्चिज्ज्ञातीनां बाह्यः प्रार्थयते कुलम् । KK03-13-244-003a
न मर्षयन्ति तत्सन्तो बाह्येनाभिप्रधर्षणम् ॥ KK03-13-244-003c
जानात्येष हि दुर्बुद्धिरस्मानिह चिरोषितान् । KK03-13-244-004a
स एवं परिभूयास्मानकार्षीदिदमप्रियम् ॥ KK03-13-244-004c
दुर्योधनस्य ग्रहणाद्गन्धर्वेण बलाद्रणे । KK03-13-244-005a
स्त्रीणां बाह्याभिमर्शाच्च हतं भवति नः कुलम् ॥ KK03-13-244-005c
शरणं च प्रपन्नानां त्राणार्थं च कुलस्य च । KK03-13-244-006a
उत्तिष्ठध्वं नरव्याघ्राः सज्जीभवत मा चिरम् ॥ KK03-13-244-006c
अर्जुनश्च यमौ चैव त्वं च भीमापराजितः । KK03-13-244-007a
मोक्षयध्वं नरव्याघ्रा ह्रियमाणं सुयोधनम् ॥ KK03-13-244-007c
एते रथा नरव्याघ्राः सर्वशस्त्रसमन्विताः । KK03-13-244-008a
धृतराष्ट्रस्य पुत्राणां विमला काञ्चनध्वजाः ॥ KK03-13-244-008c
सस्वनानधिरोहध्वं नित्यसज्जानिमान्रथान् । KK03-13-244-009a
इन्द्रसेनादिभिः सूतैः कृतशस्त्रैरधिष्ठितान् ॥ KK03-13-244-009c
एतानास्थाय वै यत्ता गन्धर्वान्योद्धुमाहवे । KK03-13-244-010a
सुयोधनस्य मोक्षाय प्रयतध्वमतन्द्रिताः ॥ KK03-13-244-010c
'परैः परिभवे प्राप्ते वयं पञ्चोत्तरं शतम् । KK03-13-244-011a
परस्परविरोधे तु वयं पञ्चैव ते शतम् ॥' KK03-13-244-011c
य एव कश्चिद्राजन्यः शरणार्थमिहागतम् । KK03-13-244-012a
परं शक्त्याभिरक्षेत किं पुनस्त्वं वृकोदर ॥ KK03-13-244-012c
'एवमुक्तस्तु कौन्तेयः पुनर्वाक्यमभाषत । KK03-13-244-013a
कोपसंरक्तनयनः पूर्ववैरमनुस्मरन् ॥ KK03-13-244-013c
पुरा जतुगृहेऽनेन दग्धुमस्मान्युधिष्ठिर । KK03-13-244-014a
दुर्बुद्धिर्हि कृता वीर तदा दैवेन रक्षिताः ॥ KK03-13-244-014c
कालकूटविषं तीक्ष्णं भोजने मम भारत । KK03-13-244-015a
उप्त्वा गङ्गां लतापाशैर्बद्ध्वा च प्राक्षिपत्प्रभो ॥ KK03-13-244-015c
रसातलं च सम्प्राप्य तदा वासुकिमञ्जसा । KK03-13-244-016a
तत्र दृष्ट्वा तु राजेन्द्र पुनः प्राप्तो महीतलम् ॥ KK03-13-244-016c
द्यूतकालेऽपि कौन्तेय वृजिनानि कृतानि वै । KK03-13-244-017a
द्रौपद्याश्च परामर्शः केशग्रहणमेव च । KK03-13-244-017c
वस्त्रापहरणं चैव सभामध्ये कृतानि वै ॥ KK03-13-244-017e
राज्यं चाच्छिद्य राजेन्द्र उक्तवान्परुषाणि नः । KK03-13-244-018a
पुरा कृतानां पापानां फलं भुङ्क्ते सुयोधनः ॥ KK03-13-244-018c
अस्माभिरेव कर्तव्यं धार्तराष्ट्रस्य निग्रहम् । KK03-13-244-019a
अन्येन तु कृतं तद्वै मैत्र्यमस्माकमिच्छता । KK03-13-244-019c
उपकारी तु गन्धर्वो मा राजन्विमना भव ॥ KK03-13-244-019e
वैशम्पायन उवाच KK03-13-244-020
एतस्मिन्नन्तरे राजंश्चित्रसेनेन वै हृतः । KK03-13-244-020a
विललाप सुदुःखार्तो नीयमानः सुयोधनः ॥ KK03-13-244-020c
युधिष्ठिर महाबाहो सर्वधर्मभृतांवर । KK03-13-244-021a
सपुत्रान्सहदारांश्च गन्धर्वेण हृतान्बलात् ॥ KK03-13-244-021c
पाण्डुपुत्र महाबाहो कौरवाणां यशस्कर। KK03-13-244-022a
'सर्वधर्मभृतां श्रेष्ठ गन्धर्वेण हृतं बलात् । KK03-13-244-022c
रक्षस्व पुरुषव्याघ्र युधिष्ठिर महायशः ॥ KK03-13-244-022e
भ्रातरं ते महाबाहो बद्ध्वा नयति मामयम् । KK03-13-244-023a
दुश्शासनं दुर्विषहं दुर्मुखं दुर्जयं तथा ॥ KK03-13-244-023c
बद्ध्वा हरन्ति गन्धर्वा अस्मान्दारांश्च सर्वशः । KK03-13-244-024a
अनुधावत मां क्षिप्रं रक्षध्वं पुरुषोत्तमाः ॥ KK03-13-244-024c
यमौ मामनुधावेतां रक्षार्थं मम सायुधौ । KK03-13-244-025a
कुरुवंशस्य सुमहदयशः प्राप्तमीदृशम् । KK03-13-244-025c
व्यपोहयध्वं गन्धर्वाञ्जित्वा वीर्येण पाण्डवाः ॥ KK03-13-244-025e
एवं विलपमानस्य कौरवस्यार्तया गिरा । KK03-13-244-026a
श्रुत्वा विलापं सम्भ्रान्तो घृणयाऽभिपरिप्लुतः ॥ KK03-13-244-026c
युधिष्ठिरः पुनर्वाक्यं भीमसेनमथाब्रवीत् । KK03-13-244-027a
सुयोधनस्य मोक्षाय प्रयतध्वमतन्द्रिताः' ॥ KK03-13-244-027c
क इवार्यो दयेत्प्राणानभिधावेति चोदितः । KK03-13-244-028a
प्राञ्जलं शरणापन्नं दृष्ट्वा शत्रुमपि ध्रुवम् ॥ KK03-13-244-028c
वरप्रदानं राज्यं च पुत्रजन्म च पाण्डवाः । KK03-13-244-029a
शत्रोश्च मोक्षणं क्लेशास्त्रीणि चैकं च तत्समम् ॥ KK03-13-244-029c
न ह्यस्त्यधिकमेतस्माद्यदापन्नः सुयोधनः । KK03-13-244-030a
त्वद्बाहुबलमाश्रित्य जीवितं परिमार्गते ॥ KK03-13-244-030c
स्वयमेव प्रधावेयं यदि न स्याद्वृकोदर । KK03-13-244-031a
विततो मे क्रतुर्वीर न हि मेऽत्र विचारणा ॥ KK03-13-244-031c
साम्नैव तु यथा भीम मोक्षयेथाः सुयोधनम् । KK03-13-244-032a
तथा सर्वैरुपायैस्त्वं यतेथाः कुरुनन्दन ॥ KK03-13-244-032c
न साम्ना प्रतिपद्येत यदि गन्धर्वराडसौ । KK03-13-244-033a
पराक्रमेण मृदुना मोक्षयेथाः सुयोधनम् ॥ KK03-13-244-033c
अथासौ मृदुयुद्धेन न मुञ्चेद्भीम कौरवान् । KK03-13-244-034a
सर्वोपायैर्विमोच्यास्ते निगृह्य परिपन्थिनः ॥ KK03-13-244-034c
एतावद्धि मया शक्यं सन्देष्टुं वै वृकोदर । KK03-13-244-035a
वैताने कर्मणि तते वर्तमाने च भारत । KK03-13-244-035c
'वरप्रदानं सुमहद्याचकस्य प्रकीर्तितम्' ॥ KK03-13-244-035e
वैशम्पायन उवाच KK03-13-244-036
अजातशत्रोर्वचनं तच्छ्रुत्वा तु धनञ्जयः । KK03-13-244-036a
प्रतिजज्ञे गुरोर्वाक्यं कौरवाणां विमोक्षणम् ॥ KK03-13-244-036c
अर्जुन उवाच KK03-13-244-037
यदि साम्ना न मोक्ष्यन्ति गन्धर्वा धृतराष्ट्रजान् । KK03-13-244-037a
अद्य गन्धर्वराजस्य भूमिः पास्यति शोणितम् ॥ KK03-13-244-037c
अर्जुनस्य तु तां श्रुत्वा प्रतिज्ञां सत्यवादिनः । KK03-13-244-038a
कौरवाणां तदा राजन्पुनः प्रत्यागतं मनः ॥ KK03-13-244-038c

इति श्रीमन्महाभारते अरण्यपर्वणि घोषयात्रापर्वणि चतुश्चत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 244 ॥

3-244-28 क इवार्यो नयेत्प्राणान् इति थ. पाठः । क इहार्यो भवेत्त्राणम् इति झ. पाठः । अभिधाव याहीति चोदित आर्यः प्राणान् दयेत् । स्वप्राणेषु दयां कुर्यादित्यर्थः ॥