अध्यायः 243

चित्ररथेन रणे पराजितस्य दुर्योधनस्य बन्धनपूर्वकं स्वरथारोपणम् ॥ 1 ॥ इतरैर्गन्धर्वैर्दुर्योधनभ्रतॄणां तद्दाराणां च बन्धनम् ॥ 2 ॥ दुर्योधनामात्यादिभिर्युधिष्ठिराय तन्निवेदने भीमेन तदनुमोदनम् ॥ 3 ॥

वैशम्पायन उवाच KK03-13-243-001
गन्धर्वैस्तु महाराज भग्ने कर्णे महारथे । KK03-13-243-001a
सम्प्राद्रवच्चमूः सर्वा धार्तराष्ट्रस्य पश्यतः ॥ KK03-13-243-001c
तान्दृष्ट्वा द्रवतः सर्वान्धार्तराष्ट्रान्पराङ्मुखान् । KK03-13-243-002a
दुर्योधनो महाराजो नासीत्तत्र पराङ्मुखः ॥ KK03-13-243-002c
तामापतन्तीं सम्प्रेक्ष्य गन्धर्वाणां महाचमूम् । KK03-13-243-003a
महता शरवर्षेण सोऽभ्यवर्षदरिन्दमः ॥ KK03-13-243-003c
अचिन्त्य शरवर्षं तु गन्धर्वास्तस्य तं रथम् । KK03-13-243-004a
दुर्योधनं जिघांसन्तः समन्तात्पर्यवारयन् ॥ KK03-13-243-004c
युगमीषां वरूथं च तथैव ध्वजसारथी । KK03-13-243-005a
अश्वांस्त्रिवेणुमक्षं च तिलशो व्यधमञ्छरैः ॥ KK03-13-243-005c
दुर्योधनं चित्रसेनो विरथं पतितं भुवि । KK03-13-243-006a
अभिद्रुत्य महाबाहुर्जीवग्राहमथाग्रहीत् ॥ KK03-13-243-006c
'तस्य बाहू महाराज बद्ध्वा रज्ज्वा महारथम् । KK03-13-243-007a
आरोप्य स महाबाहुश्चित्रसेनो ननाद ह' ॥ KK03-13-243-007c
तस्मिन्गृहीते राजेन्द्र स्थितं दुःशासनं रथे । KK03-13-243-008a
पर्यगृह्णन्त गन्धर्वाः परिवार्य समन्ततः ॥ KK03-13-243-008c
विविंशतिं चित्रसेनमादायान्ये विदुद्रुवुः । KK03-13-243-009a
विन्दानुविन्दावपरे राजदारांश्च सर्वशः ॥ KK03-13-243-009c
सेनास्तु धार्तराष्ट्रस्य गन्धर्वैः समभिद्रुताः । KK03-13-243-010a
पूर्वं प्रभग्नैः सहिताः पाण्डवानभ्ययुस्तदा ॥ KK03-13-243-010c
शकटापणवेशाश्च यानयुग्यं च सर्वशः । KK03-13-243-011a
शरणं पाण्डवाञ्जग्मुर्ह्रियमाणे महीपतौ ॥ KK03-13-243-011c
सैनिका ऊचुः KK03-13-243-012
प्रियदर्शी महाबाहो धार्तराष्ट्रो महाबलः । KK03-13-243-012a
गन्धर्वैर्ह्रियते राजा पार्थास्तमनुधावत ॥ KK03-13-243-012c
दुःशासनो दुर्विषहो दुर्मुखो दुर्मुखो दुर्जयस्तथा । KK03-13-243-013a
बद्ध्वा ह्रियन्ते गन्धर्वै राजदाराश्च सर्वशः ॥ KK03-13-243-013c
इति दुर्योधनामात्याः क्रोशन्तो राजगृद्धिनः । KK03-13-243-014a
आर्ता दीनास्ततः सर्वे युधिष्ठिरमुपागमन् ॥ KK03-13-243-014c
तांस्तथा व्यथितान्दीनान्भिक्षमाणान्युधिष्ठिरम् । KK03-13-243-015a
वृद्धान्दुर्योधनामात्यान्भीमसेनोऽभ्यभाषत ॥ KK03-13-243-015c
महता हि प्रयत्नेन सन्नह्य गजवाजिभिः । KK03-13-243-016a
अन्यथा वर्तमानानामर्थो जातोऽयमन्यथा ॥ KK03-13-243-016c
अस्माभिर्यदनुष्ठेयं गन्धर्वैस्तदनुष्ठितम् ॥ KK03-13-243-017ac
दुर्मन्त्रितमिदं तावद्राज्ञो दुर्द्यूतदेविनः । KK03-13-243-018a
'दीनान्दुर्योधनस्यास्मान्द्रष्टुकामस्य दुर्मतेः' ॥ KK03-13-243-018c
द्वेष्टारमन्ये क्लीबस्य घातयन्तीति नः श्रुतम् । KK03-13-243-019a
इदं कृतं नः प्रत्यक्षं गन्धर्वैरतिमानुषम् ॥ KK03-13-243-019c
दिष्ट्या लोके पुमानस्ति कश्चिदस्मन्प्रिये स्थितः । KK03-13-243-020a
येनास्माकं हृतो भार आसीनानां सुखावहः ॥ KK03-13-243-020c
शीतवातातपसहांस्तपसा चैव कर्शितान् । KK03-13-243-021a
समस्थो विषमस्थान्हि द्रष्टुमिच्छति दुर्मतिः ॥ KK03-13-243-021c
अधर्मचारिणस्तस्य कौरव्यस्य दुरात्मनः । KK03-13-243-022a
ये शीलमनुवर्तन्ति ते पश्यन्ति पराभवम् ॥ KK03-13-243-022c
अधर्मो हि कृतस्तेन येनैतदुपलक्षितम् । KK03-13-243-023a
अनृशंसास्तु कौन्तेयास्तत्प्रत्यक्षं ब्रवीमि वः ॥ KK03-13-243-023c
एवं ब्रुवाणं कौन्तेयं भीमसेनमपस्वरम् । KK03-13-243-024a
न कालः परुषस्यायमिति राजाऽभ्यभाषत ॥ KK03-13-243-024c

इति श्रीमन्महाभारते अरण्यपर्वणि घोषयात्रापर्वणि त्रिचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 243 ॥

3-243-6 जीवग्राहं जीवन्तमेव गृहीत्वेति णमुलन्तम् । कषादित्वादग्रहीदित्यनुप्रयोगः ॥ 3-243-18 राज्ञो युधिष्ठिरस्य ॥ 3-243-19 क्लीबस्य अशक्तत्वात् ॥ 3-243-23 येनैतदुपशिक्षितम् इति झ. पाठः ॥ 3-243-24 अपस्वरं क्रोधेन विकलवर्णं यथा स्यात्तथा ब्रुवाणम् ॥