अध्यायः 242

गन्धर्वैःसह कौरवाणामायोधनम् ॥ 1 ॥ चित्रसेनादिभिर्विरथीकृतेन कर्णेन रणाङ्कणात्पलायनम् ॥ 2 ॥

वैशम्पायन उवाच KK03-13-242-001
ततस्ते सहिताः सर्वे दुर्याधनमुपागमन् । KK03-13-242-001a
अब्रुवंश्च महाराज यदूचुः कौरवं प्रति ॥ KK03-13-242-001c
गन्धर्वैर्वारिते सैन्ये धार्तराष्ट्रः प्रतापवान् । KK03-13-242-002a
अमर्षपूर्णः सैन्यानि प्रत्यभाषत भारत ॥ KK03-13-242-002c
शासतैनानधर्मज्ञान्मम विप्रियकारिणः । KK03-13-242-003a
यदि प्रक्रीडते सर्वैर्देवैः सह शचीपतिः । KK03-13-242-003c
'वयमत्र यथा प्रीता क्रीडिष्यामो निरङ्कुशम्' ॥ KK03-13-242-003e
दुर्योधनवचः श्रुत्वा धार्तराष्ट्रा महाबलाः । KK03-13-242-004a
सर्व एवाभिसन्नद्धा योधाश्चापि सहस्रशः ॥ KK03-13-242-004c
ततः प्रमथ्य सर्वांस्तांस्तद्वनं विविशुर्बलात् । KK03-13-242-005a
सिंहनादेन महता पूरयन्तो दिशो दश ॥ KK03-13-242-005c
ततोऽपरैरवार्यन्त गन्धर्वैः कुरुसैनिकाः । KK03-13-242-006a
'साम्नैव तत्र विक्रान्ता मा साहसमिति प्रभो' ॥ KK03-13-242-006c
ते वार्यमाणा गन्धर्वैः साम्नैव वसुधाधिप । KK03-13-242-007a
ताननादृत्य गन्धर्वांस्तद्वनं विविशुर्महत् ॥ KK03-13-242-007c
यदि वाचा न तिष्ठन्ति धार्तराष्ट्राः सराजकाः । KK03-13-242-008a
ततस्ते खेचराः सर्वे चित्रसेने न्यवेदयन् ॥ KK03-13-242-008c
गन्धर्वराजस्तान्सर्वानब्रवीत्कौरवान्प्रति । KK03-13-242-009a
अनार्याञ्शासतेत्येतांश्चित्रसेनोऽत्यमर्षणः ॥ KK03-13-242-009c
अनुज्ञाताश्च गन्धर्वाश्चित्रसेनेन भारत । KK03-13-242-010a
प्रगृहीतायुधाः सर्वे धार्तराष्ट्रानभिद्रवन् ॥ KK03-13-242-010c
तान्दृष्ट्वाऽऽपततः शीघ्रान्गन्धर्वानुद्यतायुधान् । KK03-13-242-011a
प्राद्रवंस्ते दिशः सर्वे धार्तराष्ट्रस्य पश्यतः ॥ KK03-13-242-011c
तान्दृष्ट्वा द्रवतः सर्वान्धार्तराष्ट्रान्पराङ्मुखान् । KK03-13-242-012a
राधेयस्तु तदा वीरो नासीत्तत्र पराङ्मुखः ॥ KK03-13-242-012c
आपतन्तीं तु सम्प्रेक्ष्य गन्धर्वाणां महाचमूम् । KK03-13-242-013a
महता शरवर्षेण राधेयः प्रत्यवारयत् ॥ KK03-13-242-013c
क्षुरप्रैर्विशिखैर्भल्लैर्वत्सदन्तैस्तथाऽऽयसैः । KK03-13-242-014a
गन्धर्वाञ्शतशोऽभिघ्नल्ँलघुत्वात्सूतनन्दनः ॥ KK03-13-242-014c
पातयन्नुत्तमाङ्गानि गन्धर्वाणां महारथः । KK03-13-242-015a
क्षणेन व्यधमत्सर्वां चित्रसेनस्य वाहिनीम् ॥ KK03-13-242-015c
ते वध्यमाना गन्धर्वाः सूतपुत्रेण धीमता । KK03-13-242-016a
भूय एवाभ्यवर्तन्त शतशोऽथ सहस्रशः ॥ KK03-13-242-016c
गन्धर्वभूता पृथिवी क्षणेन समपद्यत । KK03-13-242-017a
आपतद्भिर्महावेगैश्चित्रसेनस्य सैनिकैः ॥ KK03-13-242-017c
अथ दुर्योधनो राजा शकुनिश्चापि सौबलः । KK03-13-242-018a
दुःशासनो विकर्णश्च ये चान्ये धृतराष्ट्रजाः । KK03-13-242-018c
न्यहनंस्तत्तदा सैन्यं रथैर्गरुडनिःस्वनैः ॥ KK03-13-242-018e
सैन्यमायोधितं दृष्ट्वा कर्णो राजन्न मृष्यत ॥ KK03-13-242-019ac
महता रथसङ्घेन रथचारेण चाप्युत । KK03-13-242-020a
वैकर्तनं परीप्सन्तो गन्धर्वाः प्रत्यवारयन् । KK03-13-242-020c
ततः सन्न्यपतन्सर्वे गन्धर्वाः कौरवं प्रति ॥ KK03-13-242-020e
तदा सुतुमुलं युद्धमभवद्रोमहर्षणम् । KK03-13-242-021a
ततस्ते मृदवोऽभूवन्गन्धर्वाः शरपीडिताः ॥ KK03-13-242-021c
उच्चुक्रुशुश्च कौरव्या गन्धर्वान्प्रेक्ष्य पीडितान् ॥ KK03-13-242-022ac
गन्धर्वांस्त्रासितान्दृष्ट्वा चित्रसेनो ह्यमर्षणः । KK03-13-242-023a
उत्पपातासनात्क्रुद्धो वधे तेषां समाहितः ॥ KK03-13-242-023c
ततो मायास्त्रमास्थाय युयुधे चित्रमार्गवित् । KK03-13-242-024a
'वियत्सञ्छादयामास न ववौ तत्र मारुतः' ॥ KK03-13-242-024c
हस्त्यारोहा हताः पेतुर्हस्तिभिः सह भारत । KK03-13-242-025a
हयारोहाः सह हयै रथैश्च रथिनस्तदा ॥ KK03-13-242-025c
पत्तयश्च तथापेतुर्विशस्ताः शरवृष्टिभिः' । KK03-13-242-026a
तयाऽमुह्यन्त कौरव्याश्चित्रसेनस्य मायया ॥ KK03-13-242-026c
एकैको हि तदा योधो धार्तराष्ट्रस्य भारत । KK03-13-242-027a
पर्यवार्यत गन्धर्वैर्दशभिर्दशभिर्युधि ॥ KK03-13-242-027c
ततः सम्पीड्यमानास्ते बलेन महता तदा । KK03-13-242-028a
प्राद्रवन्त रणे भीता यत्र राजा युधिष्ठिरः ॥ KK03-13-242-028c
भज्यमानेष्वनीकेषु धार्तराष्ट्रेषु सर्वशः । KK03-13-242-029a
कर्णो वैकर्तनो राजंस्तस्थौ गिरिरिवाचलः ॥ KK03-13-242-029c
दुर्योधनश्च तेजस्वी शकुनिश्चापि सौबलः । KK03-13-242-030a
गन्धर्वान्योधयामासुः समरे भृशविक्षताः ॥ KK03-13-242-030c
सर्व एव तु गन्धर्वाः शतशोऽथ सहस्रशः । KK03-13-242-031a
जिघांसमानाः संरब्धाः कर्णमभ्यद्रवन्रणे ॥ KK03-13-242-031c
असिभिः पट्टसैः शूलैर्गदाभिश्च महाबलाः । KK03-13-242-032a
सूतपुत्रं जिघांसन्तः समन्तात्पर्यवारयन् ॥ KK03-13-242-032c
अन्येऽस्य युगमच्छिन्दन्ध्वजमन्ये न्यपातयन् । KK03-13-242-033a
ईषामन्ये हयानन्ये सूतमन्ये न्यपातयन् ॥ KK03-13-242-033c
अन्ये च्छत्रं वरूथं च बन्धुरं च तथा परे । KK03-13-242-034a
'अन्ये सञ्चूर्णयामासुश्छत्रे चाक्षौ तथा परे ॥' KK03-13-242-034c
गन्धर्वा बहुसाहस्रास्तिलशो व्यधमन्रथम् ॥ KK03-13-242-035ac
ततो रथादवप्लुत्य सूतपुत्रोऽसिचर्मभृत् । KK03-13-242-036a
'अंसावलम्बितधनुर्धावमानो महाबलः' । KK03-13-242-036c
विकर्णरथमास्थाय मोक्षायाश्वानचोदयत् ॥ KK03-13-242-036e

इति श्रीमन्महाभारते अरण्यपर्वणि घोषयात्रापर्वणि द्विचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 242 ॥

3-242-19 भूयश्च योधयामासुः कृत्वा कर्णमथाग्रतः । महता इति झ. पाठः । न मृष्यत नामृष्यत । अडभाव आर्षः ॥ 3-242-34 वरूथं रथगुप्तिम् । बन्धुरं रथबन्धनानि ॥