अध्यायः 241
द्वैतवने सरोऽभितः क्रीडास्थाननिर्माणायाज्ञप्तानां दुर्योधनभृत्यानां पूर्वमेव तत्रागतैर्गन्धर्वैः प्रतिवारणम् ॥ 1 ॥ भृत्यैर्गन्धर्वकृतनिवारणं निवेदितेन दुर्योधनेन तेषामुत्सारणाय सेनाप्रेषणम् ॥ 2 ॥ गन्धर्वैः परुषभाषणैर्भीषितैर्भटैर्दुर्योधनम् प्रति तन्निवेदनम् ॥ 3 ॥
वैशम्पायन उवाच KK03-13-241-001
अथ दुर्योधनो राजा तत्रतत्र वने वसन् । KK03-13-241-001a
जगाम घोषानभितस्तत्र चक्रे निवेशनम् ॥ KK03-13-241-001c
रमणीये समाज्ञाते सोदके समहीरुहे । KK03-13-241-002a
देशे सर्वगुणोपेते चक्रुरावसथान्नराः ॥ KK03-13-241-002c
तथैव तत्समीपस्थान्पृथगावसथान्बहून् । KK03-13-241-003a
कर्णस्य शकुनेश्चैव भ्रातॄणां चैव सर्वशः ॥ KK03-13-241-003c
पश्यन्तस्ते तदा गावः शतशोऽथ सहस्रशः । KK03-13-241-004a
अङ्कैर्लक्षैश्च ताः सर्वा लक्षयामास पार्थिवः ॥ KK03-13-241-004c
अङ्कयामास वत्सांश्च जज्ञे चोपसृतांस्त्वपि । KK03-13-241-005a
बालवत्साश्च या गावः कालयामास ता अपि ॥ KK03-13-241-005c
अथ स स्मारणं कृत्वा लक्षयित्वा त्रिहायनान् । KK03-13-241-006a
वृतो गोपालकैः प्रीतो व्याहरत्कुरुनन्दनः ॥ KK03-13-241-006c
स च पौरजनः सर्वः सैनिकाश्च सहस्रशः । KK03-13-241-007a
यथोपजोषं चिक्रीडुर्वने तस्मिन्यथाऽमराः ॥ KK03-13-241-007c
ततोऽध्वगमनाच्छ्रान्तं कुशला नृत्यवादितैः । KK03-13-241-008a
धार्तराष्ट्रमुपातिष्ठन्कन्याश्चैव स्वलङ्कृताः ॥ KK03-13-241-008c
स स्त्रीगणवृतो राजा प्रहृष्टः प्रददौ वसु । KK03-13-241-009a
तेभ्यो यथार्हमन्नानि पानानि विविधानि च ॥ KK03-13-241-009c
ततस्ते सहिताः सर्वे तरक्षून्महिषान्मृगान् । KK03-13-241-010a
गवयर्क्षवराहांश्च समन्तात्पर्यवारयन् ॥ KK03-13-241-010c
स ताञ्छरैर्विनिर्भिद्य गजांश्च सुबहून्वने । KK03-13-241-011a
रमणीयेषु देशेषु ग्राहयामास वै मृगान् ॥ KK03-13-241-011c
गोरसानुपयुञ्जान उपभोगांश्च भारत । KK03-13-241-012a
पश्यन्स रमणीयानि वनान्युपवनानि च ॥ KK03-13-241-012c
मत्तभ्रमरजुष्टानि बर्हिणाभिरुतानि च । KK03-13-241-013a
अगच्छदानुपूर्व्येण पुण्यं द्वैतवनं सरः ॥ KK03-13-241-013c
मत्तभ्रमरसञ्जुष्टं नीलकण्ठरवाकुलम् । KK03-13-241-014a
सप्तच्छदसमाकीर्णं पुन्नागबकुलैर्युतम् ॥ KK03-13-241-014c
ऋद्ध्या परमया युक्तो महेन्द्र इव वज्रभृत् । KK03-13-241-015a
यदृच्छया च तत्रस्थो धर्मपुत्रो युधिष्ठिरः ॥ KK03-13-241-015c
ईजे राजर्षियज्ञेन साद्यस्केन विशाम्पते । KK03-13-241-016a
दिव्येन विधिना चैव वन्येन कुरुसत्तम ॥ KK03-13-241-016c
'विद्वद्भिः सहितो धीमान्ब्राह्मणैर्वनवासिभिः' । KK03-13-241-017a
कृत्वा निवेशमभितः सरसस्तस्य कौरव । KK03-13-241-017c
द्रौपद्या सहितो धीमान्धर्मपत्न्या नराधिपः ॥ KK03-13-241-017e
ततो दुर्योधनः प्रेष्यानादिदेश सहानुजः । KK03-13-241-018a
आक्रीडावसथाञ्शीघ्रं कुरुध्वं सरसोऽभितः ॥ KK03-13-241-018c
ते तथेत्येव कौरव्यमुक्त्वा वचनकारिणः । KK03-13-241-019a
चिकीर्षन्तस्तदाक्रीडाञ्जग्मुर्द्वैतवनं सरः ॥ KK03-13-241-019c
सेनाग्र्यं धार्तराष्ट्रस्य प्राप्तं द्वैतवनं सरः ॥ KK03-13-241-020ac
प्रविशन्तं वनद्वारि गन्धर्वाः समवारयन् । KK03-13-241-021a
तत्र गन्धर्वराजो वै पूर्वमेव विशाम्पते । KK03-13-241-021c
कुबेरभवनाद्राजन्नाजगाम गणावृतः ॥ KK03-13-241-021e
गणैरप्सरसां चैव त्रिदशानां तथाऽऽत्मजैः । KK03-13-241-022a
विहारशीलैः क्रीडार्थं तेन तत्संवृतं सरः ॥ KK03-13-241-022c
तेन तत्संवृतं दृष्ट्वा ते राजपरिचारकाः । KK03-13-241-023a
प्रतिजग्मुस्ततो राजन्यत्र दुर्योधनो नृपः ॥ KK03-13-241-023c
स तु तेषां वचः श्रुत्वा सैनिकान्युद्धदुर्मदान् । KK03-13-241-024a
प्रेषयामास कौरव्य उत्सारयत तानिति ॥ KK03-13-241-024c
तस्य तद्वचनं श्रुत्वा राज्ञः सेनाग्रयायिनः । KK03-13-241-025a
सरो द्वैनवनं गत्वा गन्धर्वानिदमब्रुवन् ॥ KK03-13-241-025c
राजा दुर्योधनो नाम धृतराष्ट्रसुतो बली । KK03-13-241-026a
चिक्रीडिषुरिहायाति तदर्थमपसर्पत ॥ KK03-13-241-026c
एवमुक्तास्तु गन्धर्वाः प्रहसन्तो विशाम्पते । KK03-13-241-027a
प्रत्यब्रुवंस्तान्पुरुषानिदं हि परुषं वचः ॥ KK03-13-241-027c
न चेतयति वो राजा मन्दबुद्धिः सुयोधनः । KK03-13-241-028a
योऽस्मानाज्ञापयत्येवं वश्यानिव दिवौकसः ॥ KK03-13-241-028c
यूयं मुमूर्षवश्चापि मन्दप्रज्ञा न संशयः । KK03-13-241-029a
ये तस्य वचनादेवमस्मान्ब्रूथ विचेतसः ॥ KK03-13-241-029c
गच्छध्वं त्वरिताः सर्वे यत्र राजा स कौरवः । KK03-13-241-030a
न चेदद्यैव गच्छध्वं धर्मराजनिवेशनम् ॥ KK03-13-241-030c
एवमुक्तास्तु गन्धर्वै राज्ञः सेनाग्रयायिनः । KK03-13-241-031a
सम्प्राद्रवन्यतो राजा धृतराष्ट्रसुतोऽभवत् ॥ KK03-13-241-031c
इति श्रीमन्महाभारते अरण्यपर्वणि घोषयात्रापर्वणि एकचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 241 ॥
3-241-4 स ददर्श तदा गावः इति झ. पाठः । अङ्कैश्चिह्नैः । लक्षैः सङ्ख्यानैः । लक्षा नपुंसि सङ्ख्यायामिति मेदिनी ॥ 3-241-5 जज्ञे ज्ञातवान् । उपसृतान् दमनार्हान् वत्सतरान्समीपागतान्वा कालयामास सङ्ख्यातवान् ॥ 3-241-6 त्रिहायनांस्त्रिवर्षान्वृषान् । व्याहरत् विजहार ॥ 3-241-7 यथोपजोषं यथारुचि ॥ 3-241-16 साद्यस्केन एकाहसाध्येने ॥ 3-241-22 आत्मजैर्जयन्तादिभिः सहेति शेषः ॥