अध्यायः 240
दुर्योधनेन घोषयात्राव्याजेनानुजादिभिः सह द्वैतवनम् प्रति गमनम् ॥ 1 ॥
वैशम्पायन उवाच KK03-13-240-001
धृतराष्ट्रं ततः सर्वे ददृशुर्जनमेजय । KK03-13-240-001a
दृष्ट्वा सुखमथो राज्ञः पृष्टा राज्ञा च भारत ॥ KK03-13-240-001c
ततस्तैर्विहितः पूर्वं सङ्गवो नाम वल्लवः । KK03-13-240-002a
समीपस्थास्तदा गावो धृतराष्ट्रे न्यवेदयत् ॥ KK03-13-240-002c
अनन्तरं च राधेयः शकुनिश्च विशाम्पते । KK03-13-240-003a
आहतुः पार्थिवश्रेष्ठं धृतराष्ट्रं जनाधिपम् ॥ KK03-13-240-003c
रमणीयेषु देशेषु घोषाः सम्प्रति कौरव । KK03-13-240-004a
स्मारणे समयः प्राप्तो वत्सानामपि चाङ्कनम् ॥ KK03-13-240-004c
मृगया चोचिता राजन्नस्मिन्काले सुतस्य ते । KK03-13-240-005a
दुर्योधनस्य गमनं त्वमनुज्ञातुमर्हसि ॥ KK03-13-240-005c
धृतराष्ट्र उवाच KK03-13-240-006
मृगया शोभना तात गवां हि समवेक्षणम् । KK03-13-240-006a
विस्रम्भस्तु न गन्तव्यो वल्लवानामिति स्मरे ॥ KK03-13-240-006c
ते तु तत्र नरव्याघ्राः समीप इति नः श्रुतम् । KK03-13-240-007a
अतो नाभ्यनुजानामि गमनं तत्र वः स्वयम् ॥ KK03-13-240-007c
छद्मना निर्जितास्ते तु कर्शिताश्च महावने । KK03-13-240-008a
तपोनित्याश्च राधेय समर्थाश्च महारथाः ॥ KK03-13-240-008c
धर्मराजो न सङ्क्रुद्ध्येद्भीमसेनस्त्वमर्षणः । KK03-13-240-009a
यज्ञसेनस्य दुहिता तेज एव तु केवलम् ॥ KK03-13-240-009c
यूयं चाप्यपराध्येयुर्दर्पमोहसमन्विताः । KK03-13-240-010a
ततो विनिर्दहेयुस्ते तपसा हि समन्विताः ॥ KK03-13-240-010c
अथवा सायुधा वीरा मन्युनाऽभिपरिप्लुताः । KK03-13-240-011a
सहिता बद्धनिस्त्रिंशा दहेयुः शस्त्रतेजसा ॥ KK03-13-240-011c
अथ यूयं बहुत्वात्तान्नारभध्वं कथञ्चन । KK03-13-240-012a
अनार्यं परमं तत्स्यादशक्यं तच्च वै मतम् ॥ KK03-13-240-012c
उषितो हि महाबाहुरिन्द्रलोके धनञ्जयः । KK03-13-240-013a
दिव्यान्यस्त्राण्यवाप्याथ ततः प्रत्यागतो वनम् ॥ KK03-13-240-013c
अकृतास्त्रेण पृथिवी जिता बीभत्सुना पुरा । KK03-13-240-014a
किं पुनः स कृतास्त्रोऽद्य न हन्याद्वो महारथः ॥ KK03-13-240-014c
अथवा मद्वचः श्रुत्वा तत्र यत्ता भविष्यथ । KK03-13-240-015a
उद्विग्नवासा विस्रब्धा दुःखं तत्र गमिष्यथ ॥ KK03-13-240-015c
अथवा सैनिकाः केचिदपकुर्युर्युधिष्ठिरे । KK03-13-240-016a
तदबुद्धिकृतं कर्म दोषमुत्पादयेच्च वः ॥ KK03-13-240-016c
तस्मादन्ये नरा यान्तु स्मारणायाप्तकारिणः । KK03-13-240-017a
न स्वयं तत्र गमनं रोचये तव भारत ॥ KK03-13-240-017c
शकुनिरुवाच KK03-13-240-018
धर्मज्ञः पाण्डवो ज्येष्ठः प्रतिज्ञातं च संसदि । KK03-13-240-018a
तेन द्वादशवर्षाणि वस्तव्यानीति भारत ॥ KK03-13-240-018c
अनुवृत्ताश्च तं सर्वे पाण्डवा धर्मचारिणः । KK03-13-240-019a
युधिष्ठिरस्तु कौन्तेयो न नः कोपं करिष्यति ॥ KK03-13-240-019c
मृगयां चैव नो गन्तुमिच्छा संवर्धते भृशम् । KK03-13-240-020a
स्मारणं तु चिकीर्षामो न तु पाण्डवदर्शनम् ॥ KK03-13-240-020c
न चानार्यसमाचारः कश्चित्तत्र भविष्यति । KK03-13-240-021a
न च तत्र गमिष्यामो यत्र तेषां प्रतिश्रयः ॥ KK03-13-240-021c
वैशम्पायन उवाच KK03-13-240-022
एवमुक्तः शकुनिना धृतराष्ट्रो जनेश्वरः । KK03-13-240-022a
दुर्योधनं सहामात्यमनुजज्ञे न कामतः ॥ KK03-13-240-022c
अनुज्ञातस्तु गान्धारिः कर्णेन सहितस्तदा । KK03-13-240-023a
निर्ययौ भरतश्रेष्ठो बलेन महता वृतः ॥ KK03-13-240-023c
दुःशासनेन च तथा सौबलेन च धीमता । KK03-13-240-024a
संवृतो भ्रातृभिश्चान्यैः स्त्रीभिश्चापि सहस्रशः ॥ KK03-13-240-024c
तं निर्यान्तं महाबाहुं द्रष्टुं द्वैतवनं सरः । KK03-13-240-025a
पौराश्चानुययुः सर्वे सहदारा वनं च तत् ॥ KK03-13-240-025c
अष्टौ रथसहस्राणि त्रीणि नागायुतानि च । KK03-13-240-026a
पत्तयो बहुसाहस्रा हयाश्च नवतिः शताः ॥ KK03-13-240-026c
शकटापणवेशाश्च वणिजो वन्दिनस्तथा । KK03-13-240-027a
नराश्च मृगयाशीलाः शतशोऽथ सहस्रशः ॥ KK03-13-240-027c
ततः प्रयाणे नृपतेः सुमहानभवत्स्वनः । KK03-13-240-028a
प्रावृषीव महावायोरुत्थितस्य विशाम्पते ॥ KK03-13-240-028c
गव्यूतिमात्रे न्यवसद्राजा दुर्योधनस्तदा । KK03-13-240-029a
प्रयातो वाहनैः सर्वैस्ततो द्वैतवनं सरः ॥ KK03-13-240-029c
इति श्रीमन्महाभारते अरण्यपर्वणि घोषयात्रापर्वणि चत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 240 ॥
3-240-2 समङ्गो नाम इति झ. पाठः ॥ 3-240-4 स्मारणे स्मरणहेतौ कर्मणि गवां सङ्ख्यापूर्वकं वयोवर्णजातिनाम्नां लेखने ॥ 3-240-7 ते पाण्डवाः ॥ 3-240-9 तेजोऽग्निरेव ॥ 3-240-27 वेशो वेश्याजनाश्रयः ॥ 3-240-29 गव्यूतिः क्रोशद्वयम् ॥