अध्यायः 239
कर्णशकुन्यादिभिर्द्वैतवनगमने घोषयात्राया उपायत्वनिर्धारणम् ॥ 1 ॥
वैशम्पायन उवाच KK03-13-239-001
कर्णस्य वचनं श्रुत्वा राजा दुर्योधनस्ततः । KK03-13-239-001a
हृष्टो भूत्वा पुनर्दीनो राधेयमिदमब्रवीत् ॥ KK03-13-239-001c
ब्रवीषि यदिदं कर्ण सर्वं मनसि मे स्थितम् । KK03-13-239-002a
न त्वभ्यनुज्ञां लप्स्यामि गमने यत्र पाण्डवाः ॥ KK03-13-239-002c
परिदेवति तान्वीरान्धृतराष्ट्रो महीपतिः । KK03-13-239-003a
मन्यतेऽभ्यधिकांश्चापि तपोयोगेन पाण्डवान् ॥ KK03-13-239-003c
अथवाऽप्यनुबुध्येत नृपोऽस्माकं चिकीर्षितम् । KK03-13-239-004a
एतामप्यायतिं रक्षन्नाभ्यनुज्ञातुमर्हति ॥ KK03-13-239-004c
न हि द्वैतवने किञ्चिद्विद्यतेऽन्यत्प्रयोजनम् । KK03-13-239-005a
उन्माथनमृते तेषां वनस्थानामपि द्विषाम् ॥ KK03-13-239-005c
जानासि हि यथा क्षत्ता द्यूतकाल उपस्थिते । KK03-13-239-006a
अब्रवीद्यच्च मां त्वां च सौबलं वचनं तदा ॥ KK03-13-239-006c
तानि सर्वाणि वाक्यानि यच्चान्यत्परिदेवितम् । KK03-13-239-007a
विचिन्त्य निश्चयं गच्छे गमनायेतराय वा ॥ KK03-13-239-007c
ममापि हि महान्हर्षो यदहं भीमफल्गुनौ । KK03-13-239-008a
क्लिष्टावरण्ये पश्येयं कृष्णया सहिताविति ॥ KK03-13-239-008c
न तथा ह्याप्नुयां प्रीतिमवाप्य वसुधामिमाम् । KK03-13-239-009a
दृष्ट्वा यथा पाण्डुसुतान्वल्कलाजिनवाससः ॥ KK03-13-239-009c
किन्नु स्यादधिकं तस्माद्यदहं द्रुपदात्मजाम् । KK03-13-239-010a
द्रौपदीं कर्ण पश्येयं काषायवसनां वने ॥ KK03-13-239-010c
यदि मां धर्मराजश्च भीमसेनश्च पाण्डवः । KK03-13-239-011a
युक्तं परमया लक्ष्म्या पश्येतां जीवितं भवेत् ॥ KK03-13-239-011c
उपायं न तु पश्यामि येन गच्छेम तद्वनम् । KK03-13-239-012a
यथा चाभ्यनुजानीयाद्गच्छन्तं मां महीपतिः ॥ KK03-13-239-012c
स सौबलेन सहितस्तथा दुःशासनेन च । KK03-13-239-013a
उपायं पश्य निपुणं येन गच्छेम तद्वनम् ॥ KK03-13-239-013c
अहमप्यनुगच्छामि गमनायेतराय च । KK03-13-239-014a
कल्यमेव गमिष्यामि समीपं पार्थिवस्य ह ॥ KK03-13-239-014c
मयि तत्रोपविष्टे तु भीष्मे च कुरुसत्तमे । KK03-13-239-015a
उपायो यो भवेद्दृष्टस्तं ब्रूयाः सहसौबलः ॥ KK03-13-239-015c
ततो भीष्मस्य राज्ञश्च निशम्य गमनं प्रति । KK03-13-239-016a
व्यवसायं करिष्येऽहमनुनीय पितामहम् ॥ KK03-13-239-016c
तथेत्युक्त्वा तु ते सर्वे जग्मुरावसथान्प्रति । KK03-13-239-017a
व्युषितायां रजन्यां तु कर्णो राजानमभ्ययात् ॥ KK03-13-239-017c
ततो दुर्योधनं कर्णः प्रहसन्निदमब्रवीत् । KK03-13-239-018a
उपायः परिदृष्टोऽयं तं निबोध जनेश्वर ॥ KK03-13-239-018c
घोषा द्वैतवने सर्वे त्वत्प्रतीक्षा नराधिप । KK03-13-239-019a
घोषयात्रापदेशेन गमिष्यामो न संशयः ॥ KK03-13-239-019c
उचितं हि सदा गन्तुं घोषयात्रां विशाम्पते । KK03-13-239-020a
एवं चेत्त्वां पिता राजन्समनुज्ञातुमर्हति ॥ KK03-13-239-020c
तथा कथयमानौ तु घोषयात्राविनिश्चयम् । KK03-13-239-021a
गान्धारराजः शकुनिरित्युवाच हसन्निव ॥ KK03-13-239-021c
उपायोऽयं मया दृष्टो गमनाय निरामयः । KK03-13-239-022a
अनुज्ञास्यति नो राजा चोदयिष्यति चाप्युत ॥ KK03-13-239-022c
घोषा द्वैतवने सर्वे त्वत्प्रतीक्षा नराधिप । KK03-13-239-023a
घोषयात्रापदेशेन गमिष्यामः सरः प्रति ॥ KK03-13-239-023c
ततः प्रहसिताः सर्वे तेऽन्योन्यस्य तलान्ददुः । KK03-13-239-024a
तदेव च विनिश्चेत्य ददृशुः कुरुसत्तमम् ॥ KK03-13-239-024c
इति श्रीमन्महाभारते अरण्यपर्वणि घोषयात्रापर्वणि एकोनचत्वारिंशदधिकद्विशततमोऽध्यायः ॥
3-239-4 आयतिमुत्तरकालम् ॥ 3-239-7 इतरायावस्थानाय ॥ 3-239-11 लक्ष्म्या उपेतं पश्येतां चेज्जीवितं युक्तमिति सम्बन्धः ॥ 3-239-14 अहमप्यद्य निश्चित्य इति झ. पाठः । कल्यं प्रातः ॥ 3-239-15 वचो भीष्मस्य इति झ. पाठः ॥ 3-239-19 घोषा गोव्रजाः ॥ 3-239-22 अयमुपायो घोषयात्रैव ॥ 3-239-24 तलान् हस्ततलानि ॥