अध्यायः 238

कर्णशकुनिभ्यां दुर्योधनम् प्रति स्ववैभवप्रदर्शनेन पाण्डवानां दुःखजननाय द्वैतवनगमनचोदना ॥ 1 ॥

वैशम्पायन उवाच KK03-13-238-001
धृतराष्ट्रस्य तद्वाक्यं निशम्य शकुनिस्तदा । KK03-13-238-001a
दुर्योधनमिदं काले कर्णेन सहितोऽब्रवीत् ॥ KK03-13-238-001c
प्रव्राज्य पाण्डवान्वीरान्स्वेन वीर्येण भारत । KK03-13-238-002a
भुङ्क्ष्वेमां पृथिवीमेको दिवि शम्बरहा यथा ॥ KK03-13-238-002c
'तवाद्यपृथिवी राजन्नखिला सागराम्बरा । KK03-13-238-003a
सपर्वतवनाकारा सहस्थावरजङ्गमा' ॥ KK03-13-238-003c
प्राच्याश्च दाक्षिणात्याश्च प्रतीच्योदीच्यवासिनः । KK03-13-238-004a
कृताः करप्रदाः सर्वे राजानस्ते नराधिप ॥ KK03-13-238-004c
या हि सा दीप्यमानेव पाण्डवान्भजते पुरा । KK03-13-238-005a
साऽद्य लक्ष्मीस्त्वया राजन्नवाप्ता भ्रातृभिः सह ॥ KK03-13-238-005c
इन्द्रप्रस्थगते यां तां दीप्यमानां युधिष्ठिरे । KK03-13-238-006a
अपश्याम श्रियं राजन्सुचिरं शोककर्शिताः ॥ KK03-13-238-006c
सा तु बुद्धिबलेनेयं राज्ञस्तस्मात्तथाविधात् । KK03-13-238-007a
त्वयाक्षिप्ता महाबाहो दीप्यमानेव दृश्यते ॥ KK03-13-238-007c
तथैव तव राजेन्द्र राजानः परवीरहन् । KK03-13-238-008a
शासनेऽधिष्ठिताः सर्वे किं कुर्म इति वादिनः ॥ KK03-13-238-008c
ते वयं पृथिवी राजन्निखिला सागराम्बरा । KK03-13-238-009a
सपर्वतवना देवी सग्रामनगराकरा ॥ KK03-13-238-009c
नानावनोद्देशवती पत्तनैरुपशोभिता । KK03-13-238-010a
'नानाजनपदाकीर्णा स्फीतराष्ट्रा महाहला' ॥ KK03-13-238-010c
नन्द्यमानो द्विजै राजन्भासि नक्षत्रराडिव । KK03-13-238-011a
पौरुषाद्दिवि देवेषु भ्राजसे रश्मिवानिव ॥ KK03-13-238-011c
रुद्रैरिव यमो राजा मरुद्भिरिव वासवः । KK03-13-238-012a
कुरुभिस्त्वं वृतो राजन्भासि नक्षत्रराडिव ॥ KK03-13-238-012c
यैः स्म ते नाद्रियेताज्ञा न च ये शासने स्थिताः । KK03-13-238-013a
पश्यामस्ताञ्श्रिया हीनान्पाण्डवान्वनवासिनः ॥ KK03-13-238-013c
श्रूयते हि महाराज सरो द्वैतवनं प्रति । KK03-13-238-014a
वसन्तः पाण्डवाः सार्धं ब्राह्मणैर्वनवासिभिः ॥ KK03-13-238-014c
स प्रयाहि महाराज श्रिया परमया युतः । KK03-13-238-015a
तापयन्पाण्डुपुत्रांस्त्वं रश्मिवानिव तेजसा ॥ KK03-13-238-015c
स्थितो राज्येऽच्युतान्राज्याच्छ्रियाहीनाञ्छ्रियावृतः KK03-13-238-016a
असमृद्धान्समृद्धार्थः पश्य पाण्डुसुतान्नृप ॥ KK03-13-238-016c
महाभिजनसम्पन्नं भद्रे महति संस्थितम् । KK03-13-238-017a
पाण्डवास्त्वाऽभिवीक्षन्तु ययातिमिव नाहुषम् ॥ KK03-13-238-017c
यां श्रियं सुहृदश्चैव दुर्हृदश्च विशाम्पते । KK03-13-238-018a
पश्यन्ति पौरुषैर्दीप्तां सा समर्था भवत्युत ॥ KK03-13-238-018c
समस्थो विषमस्थान्हि दुर्हृदो योऽभिवीक्षते । KK03-13-238-019a
जगतीस्थानिवाद्रिस्थः किमतः परमं सुखम् ॥ KK03-13-238-019c
न पुत्रधनलाभेन न राज्येनापि विन्दति । KK03-13-238-020a
प्रीतिं नृपतिशार्दूल याममित्राघदर्शनात् ॥ KK03-13-238-020c
किन्नु तस्य सुखं न स्यादाश्रमे यो धनञ्जयम् । KK03-13-238-021a
अभिवीक्षेत सिद्धार्थो वल्कलाजिनवाससम् ॥ KK03-13-238-021c
सुवाससो हि ते भार्या वल्कलाजिनसंवृताम् । KK03-13-238-022a
पश्यन्तु दुःखितां कृष्णां सा च निर्विद्यतां पुनः ॥ KK03-13-238-022c
विनिन्दतां तथाऽत्मानं जीवितं च धनच्युतम् । KK03-13-238-023a
'दाराणां ते श्रियं दृष्ट्वा दीप्तामद्य जनाधिप' ॥ KK03-13-238-023c
न तथा हि सभामध्ये तस्या भवितुमर्हति । KK03-13-238-024a
वैमनस्यं यथा दृष्ट्वा तव भार्याः स्वलङ्कृताः ॥ KK03-13-238-024c
वैशम्पायन उवाच KK03-13-238-025
एवमुक्त्वा तु राजानं कर्णः शकुनिना सह । KK03-13-238-025a
तूष्णीं बभूवतुरुभौ वाक्यान्ते जनमेजय ॥ KK03-13-238-025c

इति श्रीमन्महाभारते अरण्यपर्वणि घोषयात्रापर्वणि अष्टत्रिंशदधिकद्विशततमोऽध्यायः ॥ 238 ॥

3-238-4 प्रतीच्या उदीच्याश्च देशास्तद्वासिनः । ते त्वया ॥ 3-238-13 नाद्रियेत नादृता ॥ 3-238-17 त्वा त्वाम् ॥ 3-238-18 समर्था सुहृदां हर्षं शत्रूणां च शोकं दातुमिति शेषः ॥ 3-238-20 अघं दुःखम् ॥ 3-238-22 निर्विद्यतां जीवितादपि विरक्ता भवतु ॥