अध्यायः 237

कस्माच्चिद्ब्राह्मणात्पाण्डववृत्तान्तं श्रुतवता धृतराष्ट्रेण पाण्डवान्प्रति परिशोचनम् ॥ 1 ॥ तथा पाण्डवपराक्रमानुस्मरणेन स्वपुत्राणाम् भाविवधनिर्धारणपूर्वकं तान्प्रति परिशोचनम् ॥ 2 ॥

जनसेजय उवाच KK03-13-237-001
एवं वने वर्तमाना नराग्र्याः शीतोष्णवातातपकर्शिताङ्गाः । KK03-13-237-001a
सरस्तदासाद्य वनं च पुण्यं ततः परं किमकुर्वन्त पार्थाः ॥ KK03-13-237-001c
वैशम्पायन उवाच KK03-13-237-002
सरस्तदासाद्य तु पाण्डुपुत्रा जनं समुत्सृज्य विधाय चेष्टम् । KK03-13-237-002a
वनानि रम्याण्यथ पर्वतांश्च नदीप्रदेशांश्च तदा विचेरुः ॥ KK03-13-237-002c
तथा वने तान्वसतः प्रवीरान् स्वाध्यायवन्तश्च तपोधनाश्च । KK03-13-237-003a
अभ्याययुर्वेदविदः पुराणास्तान्पूजयामासुरथो नराग्र्याः ॥ KK03-13-237-003c
ततः कदाचित्कुशलः कथासु विप्रोऽभ्यगच्छद्भुवि कौरवेयान् । KK03-13-237-004a
स तैः समेत्याथ यदृच्छयैव वैचित्रवीर्यं नृपमभ्यगच्छत् ॥ KK03-13-237-004c
अथोपविष्टः प्रतिसत्कृतश्च वृद्धेन राज्ञा कुरुसत्तमेन । KK03-13-237-005a
प्रचोदितः सङ्कथयाम्बभूव धर्मानिलेन्द्रप्रभवान्यमौ च ॥ KK03-13-237-005c
कृशांश्च वातातपकर्शिताङ्गान् दुःखस्य चोग्रस्य मुखे प्रपन्नान् । KK03-13-237-006a
तां चाप्यनाथामिव वीरनाथां कृष्णां परिक्लेशगुणेन युक्ताम् ॥ KK03-13-237-006c
ततः कथास्तस्य निशम्य राजा वैचित्रवीर्यः कृपयाऽभितप्तः । KK03-13-237-007a
वने तथा पार्थिवपुत्रपौत्राञ्श्रुत्वा तथा दुःखनदीं प्रपन्नान् ॥ KK03-13-237-007c
प्रोवाच दैन्याभिहतान्तरात्मा निश्वासवातोपहतस्तदानीम् । KK03-13-237-008a
वाचं कथञ्चित्स्थिरतामुपेत्य तत्सर्वमात्मप्रभवं विचिन्त्य ॥ KK03-13-237-008c
कथन्नु सत्यः शुचिरार्यवृत्तः श्रेष्ठः सुतानां मम धर्मराजः । KK03-13-237-009a
अजातशत्रुः पृथिवीतले स्म शेते पुरा राङ्कवकूटशायी ॥ KK03-13-237-009c
प्रबोध्यते मागधसूतपुत्रैर्नित्यं स्तुवद्भिः स्वयमिन्द्रकल्पः । KK03-13-237-010a
पतत्रिसङ्घैः स जघन्यरात्रे प्रबोध्यते नूनमिलातलस्थः ॥ KK03-13-237-010c
कथन्नु वातातपकर्शिताङ्गो वृकोदरः कोपपरिप्लुताङ्गः । KK03-13-237-011a
शेते पृथिव्यामतथोचिताङ्गः कृष्णासमक्षं वसुधातलस्थः ॥ KK03-13-237-011c
तथाऽर्जुनः सुकुमारो मनस्वी वशे स्थितो धर्मसुतस्य राज्ञः । KK03-13-237-012a
विदूयमानैरिव सर्वगात्रैर्ध्रुवं न शेते वसतीरमर्षात् ॥ KK03-13-237-012c
यमौ च कृष्णां च युधिष्ठिरं च भीमं च दृष्ट्वा सुखविप्रयुक्तान् । KK03-13-237-013a
विनिःश्वसन्सर्प इवोग्रतेजा ध्रुवं न शेते वसतीरमर्षात् ॥ KK03-13-237-013c
तथा यमौ चाप्यसुखौ सुखार्हौ समृद्धरूपावमरौ दिवीव । KK03-13-237-014a
प्रजागरस्थौ ध्रुवमप्रशान्तौ क्रोधेन सत्येन च वार्यमाणौ ॥ KK03-13-237-014c
समीरणेनाथ समो बलेन समीरणस्यैव सुतो बलीयान् । KK03-13-237-015a
स धर्मपाशेन सितोऽग्रजेन ध्रुवं विनिःश्वस्य सहत्यमर्षम् ॥ KK03-13-237-015c
स चापिभूमौ परिवर्तमानो वधं सुतानां मम काङ्क्षमाणः । KK03-13-237-016a
सत्येन धर्मेण च वार्यमाणः कालं प्रतीक्षत्यधिको रणेऽन्यैः ॥ KK03-13-237-016c
अजातशत्रौ तु जिते निकृत्या दुःशासनो यत्परुषाण्यवोचत् । KK03-13-237-017a
तानि प्रविष्टानि वृकोदराङ्गं दहन्ति कक्षाग्निरिवेन्धनानि ॥ KK03-13-237-017c
न पापकं ध्यास्यति धर्मपुत्रो धनञ्जयश्चाप्यनुवर्त्स्यते तम् । KK03-13-237-018a
अरण्यवासेन विवर्धते तु भीमस्य कोपोऽग्निरिवानिलेन ॥ KK03-13-237-018c
स तेन कोपेन विदीर्यमाणः करं करेणाभिनिपीड्य वीरः । KK03-13-237-019a
विनिःश्वसत्युष्णमतीव घोरं दहन्निवेमां मम पुत्रसेनाम् ॥ KK03-13-237-019c
गाण्डीवधन्वा च वृकोदरश्च संरम्भिणावन्तककालकल्पौ । KK03-13-237-020a
न शेषयेतां युधि शत्रुसेनां शरान्किरन्तावशनिप्रकाशान् ॥ KK03-13-237-020c
दुर्योधनः शकुनिः सूतपुत्रो दुःशासनश्चापि सुमन्दचेताः । KK03-13-237-021a
मधु प्रपश्यन्ति न तु प्रपातं वृकोदरं चैव धनञ्जयं च ॥ KK03-13-237-021c
शुभाशुभं कर्म नरो हि कृत्वा प्रतीक्षते चेत्स फलं विपाके । KK03-13-237-022a
सतेन युज्यत्यवशः फलेन मोक्षः कथं स्यात्पुरुषस्य तस्मात् ॥ KK03-13-237-022c
क्षेत्रे सुकृष्टे ह्युपिते च बीजे देवे च वर्षत्यृतुकालयुक्तम् । KK03-13-237-023a
न स्यात्फलं तस्य कुतः प्रसिद्धिरन्यत्र दैवादिति नास्ति हेतुः ॥ KK03-13-237-023c
कृतं मताक्षेण यथा न साधु साधुप्रवृत्तेन च पाण्डवेन । KK03-13-237-024a
मया च दुष्पुत्रवशानुगेन कृतः कुरूणामयमन्तकालः ॥ KK03-13-237-024c
ध्रुवं प्रशाम्यत्यसमीरितोऽग्निर्ध्रुवं प्रजास्यत्युत गर्भिणी या । KK03-13-237-025a
ध्रुवं दिनादौ रजनीप्रणाशस्तथा क्षपादौ च दिनप्रणाशः ॥ KK03-13-237-025c
कृतेच कस्मान्न परे च कुर्युर्दत्ते च दद्युः पुरुषाः कथंस्वित् । KK03-13-237-026a
प्राप्यार्थकालं च भवेदनर्थः कथञ्चन स्यादिति तत्कुतः स्यात् ॥ KK03-13-237-026c
कथं न भिद्येत न च स्रवेत न च प्रसिच्येदिति रक्षितव्यम् । KK03-13-237-027a
अरक्ष्यमाणं शतधा प्रकीर्येद्ध्रुवं न नाशोऽस्ति कृतस्य लोके ॥ KK03-13-237-027c
गतो ह्यरण्यादपि शक्रलोकं धनञ्जयः पश्यत वीर्यमस्य । KK03-13-237-028a
अस्त्राणि दिव्यानि चतुर्विधानि ज्ञात्वा पुनर्लोकमिमं प्रपन्नः ॥ KK03-13-237-028c
स्वर्गं हि गत्वा सशरीर एव को मानुषः पुनरागन्तुमिच्छेत् । KK03-13-237-029a
अन्यत्र कालोपहताननेकान्समीक्षमाणस्तु कुरून्मुमूर्षून् ॥ KK03-13-237-029c
धनुर्ग्राहश्चार्जुनः सव्यसाची धनुश्च तद्गाण्डिवं भीमवेगम् । KK03-13-237-030a
अस्त्राणि दिव्यानि च तानि तस्य त्रयस्य तेजः प्रसहेत कोऽत्र ॥ KK03-13-237-030c
निशम्य तद्वचनं पार्थिवस्य दुर्योधनं रहिते सौबलोऽथ । KK03-13-237-031a
अबोधयत्कर्णमुपेत्य सर्वं स चाप्यहृष्टोऽभवदल्पचेताः ॥ KK03-13-237-031c

इति श्रीमन्महाभारते अरण्यपर्वणि घोषयात्रापर्वणि सप्तत्रिंशदधिकद्विशततमोऽध्यायः ॥ 237 ॥

3-237-1 सरो द्वैतवनस्थम् ॥ 3-237-2 जनं समुदायम् ॥ 3-237-3 वने द्वैतवने ॥ 3-237-4 नृपं धृतराष्ट्रम् ॥ 3-237-9 रङ्कोर्मृगविशेषस्य लोमराशिमयीतूलिका राङ्कवकूटम् ॥ 3-237-13 उग्रतेजा अर्जुनः ॥ 3-237-14 प्रजागरस्थौ भुवि शयाते इति शेषः ॥ 3-237-16 अन्यैः अन्येभ्यः अधिकः ॥ 3-237-23 उपिते न्युप्ते । एवं मच्चित्ते दुर्योधनादीनां च चित्ते वृद्धहितोपदेशो वृथा भवतीति भावः ॥ 3-237-24 मताक्षेण शकुनिना पाण्डवेन च तदानीमेव तान् अनिघ्नता ॥ 3-237-25 प्रजास्यति अपत्यम् जनयिष्यति । क्षपादौ रात्र्यादौ । एतस्य पापस्य फलम् अपरिहार्यमिति भावः ॥