अध्यायः 236

प्रियोक्तिभिर्द्रौपदीम् परिसान्त्वितवत्या सत्यभामया सह श्रीकृष्णेन स्वपुरम् प्रति गमनम् ॥ 1 ॥

वैशम्पायन उवाच KK03-12-236-001
मार्कण्डेयादिभिर्विप्रैः पाण्डवैश्च महात्मभिः । KK03-12-236-001a
कथाभिरनुकूलाभिः सह स्थित्वा जनार्दनः ॥ KK03-12-236-001c
ततस्तैः संविदं कृत्वा यथावन्मधुसूदनः । KK03-12-236-002a
आरुरुक्षू रथं सत्यामाह्वयामास भारत ॥ KK03-12-236-002c
सत्यभामा ततस्तत्र स्वजित्वा द्रुपदात्मजाम् । KK03-12-236-003a
उवाच वचनं हृद्यं यथाभावं समाहितम् ॥ KK03-12-236-003c
कृष्णे माभूत्तवोत्कण्ठा मा व्यथा मा प्रजागरः । KK03-12-236-004a
भर्तृभिर्देवसङ्काशैर्जितां प्राप्स्यसि मेदिनीम् ॥ KK03-12-236-004c
न ह्येवं शीलसम्पन्ना नैवं पूजितलक्षणाः । KK03-12-236-005a
प्राप्नुवन्ति चिरं क्लेशं यथा त्वमसितेक्षणे ॥ KK03-12-236-005c
अवश्यं च त्वया भूमिरियं निहतकण्टका । KK03-12-236-006a
भर्तृभिः सह भोक्तव्या निर्द्वन्द्वेति श्रुतं मया ॥ KK03-12-236-006c
धार्तराष्ट्रवधं कृत्वा वैराणि प्रतियात्य च । KK03-12-236-007a
युधिष्ठिरस्थां पृथिवीं द्रष्टासि द्रुपदात्मजे ॥ KK03-12-236-007c
यास्ताः प्रव्राजमानां त्वां प्राहसन्दर्पमोहिताः । KK03-12-236-008a
ताः क्षिप्रं हतसङ्कल्पा द्रक्ष्यसि त्वं कुरुस्त्रियः ॥ KK03-12-236-008c
तव दुःखोपपन्नाया यैराचरितमप्रियम् । KK03-12-236-009a
विद्धि सम्प्रस्थितान्सर्वांस्तान्कृष्णे यमसादनम् ॥ KK03-12-236-009c
पुत्रस्ते प्रतिविन्ध्यश्च सुतसोमस्तथाविधः । KK03-12-236-010a
श्रुतकर्माऽर्जुनिश्चैव शतानीकश्च नाकुलिः ॥ KK03-12-236-010c
सहदेवाच्च यो जातः श्रुतसेनस्तवात्मजः । KK03-12-236-011a
सर्वे कुशलिनो वीराः कृतास्त्राश्च सुतास्तव ॥ KK03-12-236-011c
अभिमन्युरिव प्रीता द्वारवत्यां रता भृशम् । KK03-12-236-012a
त्वमिवैषां सुभद्रा च प्रीत्या सर्वात्मना स्थिता ॥ KK03-12-236-012c
प्रीयते तव निर्द्वन्द्वा तेभ्यश्च विगतज्वरा । KK03-12-236-013a
दुःखिता तेन दुःखेन सुखेन सुखिता तथा ॥ KK03-12-236-013c
भजेत्सर्वात्मना चैव प्रद्युम्नजननी तथा । KK03-12-236-014a
भानुप्रभृतिभिश्चैनान्विशिनष्टि च केशवः ॥ KK03-12-236-014c
भोजनाच्छादने चैषां नित्यं मे श्वशुरः स्थितः । KK03-12-236-015a
रामप्रभृतयः सर्वे भजन्त्यन्धकवृष्णयः ॥ KK03-12-236-015c
तुल्यो हि प्रणयस्तेषां प्रद्युम्नस्य च भामिनि । KK03-12-236-016a
एवमादि प्रियं सत्यं हृद्यमुक्त्वा मनोनुगम् ॥ KK03-12-236-016c
गमनाय मनश्चक्रे वासुदेवरथं प्रति । KK03-12-236-017a
तां कृष्णां कृष्णमहिषी चकाराभिप्रदक्षिणम् ॥ KK03-12-236-017c
आरुरोह रथं शौरेः सत्यभामाऽथ भामिनी । KK03-12-236-018a
स्मयित्वा तु यदुश्रेष्ठो द्रौपदीं परिसान्त्व्य च । KK03-12-236-018c
उपावर्त्य ततः शीघ्रैर्हयैः प्रायात्परन्तपः ॥ KK03-12-236-018e

इति श्रीमन्महाभारते अरण्यपर्वणि द्रौपदीसत्यभामासंवादपर्वणि षट्त्रिंशदधिकद्विशततमोऽध्यायः ॥ 236 ॥

3-236-2 संविदं सम्भाषाम् ॥ 3-236-3 स्वजित्वा आश्लिष्य ॥ 3-236-4 कृष्णे हे द्रौपदि ॥ 3-236-6 निर्द्वन्द्वा निष्प्रतिपक्षा ॥ 3-236-16 प्रणयः स्नेहः ॥ 3-236-18 उपावर्त्य पाण्डवनिति शेषः ॥