अध्यायः 235

द्रौपद्या सत्यभामाम् प्रति पतिवशीकरणोपायोपदेशव्याजेन पतिव्रताधर्मकथनम् ॥ 1 ॥

द्रौपद्युवाच KK03-12-235-001
इमं तु ते मार्गमपेतदोषं वक्ष्यामि चित्तग्रहणाय भर्तुः । KK03-12-235-001a
अस्मिन्यथावत्सखि वर्तमाना भर्तारमाच्छेत्स्यसि कामिनीभ्यः ॥ KK03-12-235-001c
नैतादृशं दैवतमस्ति किञ्चित्सर्वेषु लोकेषु सदेवकेषु । KK03-12-235-002a
यथा पतिस्तस्य तु सर्वकामा लभ्याः प्रसादे कुपितश्च हन्यात् ॥ KK03-12-235-002c
तस्मादपत्यं विविधाश्च भोगाः शय्यासनान्यद्भुतदर्शनानि । KK03-12-235-003a
वस्त्राणि माल्यानि तथैव गन्धाः स्वर्गश्च लोको विपुला च कीर्तिः ॥ KK03-12-235-003c
सुखं सुखेनेह न जातु लभ्यं दुःखेन साध्वी लभते सुखानि । KK03-12-235-004a
सा कृष्णमाराधय सौहृदेन प्रेम्णा च नित्यं प्रतिकर्मणा च ॥ KK03-12-235-004c
स्नानासनैश्चारुभिरग्रमाल्यैर्दाक्षिण्ययोगैर्विविधैश्च गन्धैः । KK03-12-235-005a
अस्याः प्रियोस्मीति यथा विदित्वा त्वामेव संश्लिष्यति सर्वभावैः ॥ KK03-12-235-005c
श्रुत्वा स्वरं द्वारगतस्य भर्तुः प्रत्युत्थिता तिष्ठ गृहस्य मध्ये । KK03-12-235-006a
दृष्ट्वा प्रविष्टं त्वरिताऽसनेन पाद्येन चैनं प्रतिपूजयस्व ॥ KK03-12-235-006c
सम्प्रेषितायामथ चैव दास्यामुत्थाय सर्वं स्वयमेव कार्यम् । KK03-12-235-007a
जानातु कृष्णस्तव भावमेतं सर्वात्मना मां भजतीति सत्ये ॥ KK03-12-235-007c
त्वत्सन्निधौ यत्कथयेत्पतिस्ते यद्यप्यगुह्यं परिरक्षितव्यम् । KK03-12-235-008a
काचित्सपत्नी तव वासुदेवं प्रत्यादिशेत्तेन भवेद्विरागः ॥ KK03-12-235-008c
प्रियांश्च रम्यांश्च हितांश्च भर्तुस्तान्भोजयेथा विविधैरुपायैः । KK03-12-235-009a
द्वेष्यैरुपेक्ष्यैरहितैश्च तस्य भिद्यस्व नित्यं कुहकोद्धतैश्च ॥ KK03-12-235-009c
मदं प्रमादं पुरुषेषु हित्वा संयच्छ मानं प्रतिगृह्य वाचम् । KK03-12-235-010a
प्रद्युम्नसाम्बावपि ते कुमारौ नोपासितव्यौ रहिते कदाचित् ॥ KK03-12-235-010c
महाकुलीनाभिरपापिकाभिः स्त्रीभिः सतीभिस्तव सख्यमस्तु । KK03-12-235-011a
चण्डाश्च शौण्डाश्च महाशनाश्च चोराश्च दुष्टाश्चपलाश्च वर्ज्याः ॥ KK03-12-235-011c
एतद्यशस्यं भगवेतनं च स्वार्थं तदा शत्रुनिबर्हणं च । KK03-12-235-012a
महार्हमाल्याभरणाङ्गरागा भर्तारमाराधय पुण्यगन्धैः ॥ KK03-12-235-012c

इति श्रीमन्महाभारते अरण्यपर्वणि द्रौपदीसत्यभामासंवादपर्वणि पञ्चत्रिंशदधिकद्विशततमोऽध्यायः ॥ 235 ॥

3-235-1 आच्छेत्स्यसि बलाद्धरिष्यसि । कामिनीभ्यः सपत्नीभ्यः । भर्तारमाकर्षसीति थ. पाठः ॥ 3-235-4 प्रतिकर्मणा कायक्लेशेन ॥ 3-235-5 संश्लिष्यति तद्विधत्स्वेति झ. पाठः ॥ 3-235-8 न भवेद्विकार इतिट. पाठः ॥ 3-235-10 तदप्रमादं पुरुषेषु कृत्वेति ध.पाठः । नैवं प्रमाणं कुहकेषु कुर्या इति थ.पाठः । रहिते विजने ॥ 3-235-11 चण्डाः क्रूराः । शौण्डाः पराभिभवसमर्थाः । महाशनाः बहुभुजः । दुष्टाः द्वेषाद्याक्रान्ताः । स्त्रियो वर्ज्या इति शेषः ॥ 3-235-12 भगदैवतमिति झ. पाठः । भगदैवतं भाग्यकरम् ॥