अध्यायः 234
सत्यभामया पतिवशीकरणोपायम् पृष्टया द्रौपद्या तदुत्तरदानव्याजेन पतिव्रताधर्मकथनम् ॥ 1 ॥
वैशम्पायन उवाच KK03-12-234-001
उपासीनेषु विप्रेषु पाण्डवेषु च भारत । KK03-12-234-001a
द्रौपदी सत्यभामा च विविशाते तदा समम् ॥ KK03-12-234-001c
'प्रविश्य चाश्रमं पुण्यमुभे ते परमस्त्रियौ' । KK03-12-234-002a
जाहस्यमाने सुप्रीते सुखं तत्र निषीदतुः ॥ KK03-12-234-002c
चिरस्य दृष्ट्वा राजेन्द्र तेऽन्योन्यस्य प्रियंवदे । KK03-12-234-003a
कथयामासतुश्चित्राः कथाः कुरुयदूचिताः ॥ KK03-12-234-003c
अथाब्रवीत्सत्यभामा कृष्णस्य महिषी प्रिया । KK03-12-234-004a
सात्राजिती याज्ञसेनीं रहसीदं सुमध्यमा ॥ KK03-12-234-004c
केन द्रौपदि वृत्तेन पाण्डवानधितिष्ठसि । KK03-12-234-005a
लोकपालोपमान्वीरान्नूनं परमसम्मतान् ॥ KK03-12-234-005c
कथं च वशगास्तुभ्यं न कुप्यन्ति च ते शुभे । KK03-12-234-006a
तव वश्या हि सतत पाण्डवाः प्रियदर्शने ॥ KK03-12-234-006c
'न चान्योन्यमसूयन्ते कथं वा ते सुमध्यमे' । KK03-12-234-007a
मुखप्रेक्षाश्च ते सर्वे तत्त्वमेतद्ब्रवीहि मे ॥ KK03-12-234-007c
व्रतचर्या तपो वाऽपि स्नानमन्त्रौषधानि वा । KK03-12-234-008a
विद्यावीर्यं मूलवीर्यं जपहोमागदास्तथा ॥ KK03-12-234-008c
ममाद्याचक्ष्व पाञ्चालि यशस्यं भगवेतनम् । KK03-12-234-009a
येन कृष्णे भवेन्नित्यं मम कृष्णो वशानुगः ॥ KK03-12-234-009c
एवमुक्त्वा सत्यभामा विरराम यशस्विनी । KK03-12-234-010a
पतिव्रता महाभागा द्रौपदी प्रत्युवाच ताम् ॥ KK03-12-234-010c
असत्स्त्रीणां समाचरं सत्ये मामनुपृच्छसि । KK03-12-234-011a
असदाचरिते मार्गे कथं स्यादनुकीर्तनम् ॥ KK03-12-234-011c
अनुप्रश्नः संशयो वा नैष त्वय्युपपद्यते । KK03-12-234-012a
कथं ह्युपेता बुद्ध्या त्वं कृष्णस्य महिषी प्रिया ॥ KK03-12-234-012c
यदैव भर्ता जानीयान्मन्त्रमूलपरां स्त्रियम् । KK03-12-234-013a
उद्विजेत तदैवास्याः सर्पाद्वेश्मगतादिव ॥ KK03-12-234-013c
उद्विग्नस्य कुतः शान्तिरशान्तस्य कुतः सुखम् । KK03-12-234-014a
न जातु वशगो भर्ता स्त्रियाः स्यान्मन्त्रकारणात् ॥ KK03-12-234-014c
किमत्र प्रहिताश्चापि गदाः परमदारुणाः । KK03-12-234-015a
मूलप्रवादैर्हि विषं प्रयच्छन्ति जिघांसवः ॥ KK03-12-234-015c
जिह्वया यानि पुरुषस्त्वचा वाप्युपसेवते । KK03-12-234-016a
तत्र चूर्णानि दत्तानि हन्युः क्षिप्रमसंशयम् ॥ KK03-12-234-016c
जलोदरसमायुक्ताः श्वित्रिणः पलितास्तथा । KK03-12-234-017a
अपुमांसः कृताः स्त्रीभिर्जडान्धबधिरास्तथा ॥ KK03-12-234-017c
पापानुगास्तु पापास्ताः पतीनुपसृजन्त्युत । KK03-12-234-018a
न जातु विप्रियं भर्तुः स्त्रिया कार्यं कथञ्चन ॥ KK03-12-234-018c
वर्ताम्यहं तु यां वृत्तिं पाण्डवेषु महात्मसु । KK03-12-234-019a
तां सर्वां शृणु मे सत्यां सत्यभामे यशस्विनि ॥ KK03-12-234-019c
अहङ्कारं विहायाहं कामक्रोधौ च सर्वदा । KK03-12-234-020a
सदारान्पाण्डवान्नित्यं प्रयतोपचराम्यहम् ॥ KK03-12-234-020c
प्रणयं प्रतिसंहृत्य निधायात्मानमात्मनि । KK03-12-234-021a
शुश्रूषुर्निरभीमाना पतीनां चित्तरक्षिणी ॥ KK03-12-234-021c
दुर्व्याहृताच्छङ्कमाना दुस्थिताद्दुरवेक्षितात् । KK03-12-234-022a
दुरासिताद्दुर्व्रजितादिङ्गिताध्यासितादपि ॥ KK03-12-234-022c
सूर्यवैश्वानरसमान्सोमकल्पान्महारथान् । KK03-12-234-023a
सेवे चक्षुर्हृणः पार्थानुग्रवीर्यप्रतापिनः ॥ KK03-12-234-023c
देवो मनुष्यो गन्धर्वो युवा चापि स्वलङ्कृतः । KK03-12-234-024a
द्रव्यवानभिरूपो वा न मेऽन्यः पुरुषो मतः ॥ KK03-12-234-024c
न भुक्तवति न स्नाते नासंविष्टे च भर्तरि । KK03-12-234-025a
न संविशामि नाश्नामि न स्नाये कर्म कुर्वती ॥ KK03-12-234-025c
क्षेत्राद्वनाद्वा ग्रामाद्वा भर्तारं गृहमागतम् । KK03-12-234-026a
अभ्युत्थायाभिनन्दामि आसनेनोदकेन च ॥ KK03-12-234-026c
प्रसन्नभाण्डा मृष्टान्ना काले भोजनदायिनी । KK03-12-234-027a
संयता गुप्तधान्या च सुसम्मृष्टनिवेशना ॥ KK03-12-234-027c
अतिरस्कृतसम्भाषा दुःस्त्रियो नानुसेवती । KK03-12-234-028a
अनुकूलवती नित्यं भवाम्यनलसा सदा ॥ KK03-12-234-028c
अनर्म चापि हसितं द्वारि स्थानमभीक्ष्णशः । KK03-12-234-029a
अवस्करे चिरस्थानं निष्कुटेषु च वर्जये ॥ KK03-12-234-029c
'अत्यालापमसन्तोषं परव्यापारसङ्कथाः' । KK03-12-234-030a
अतिहासातिरोषौ च क्रोधस्थानं च वर्जये ॥ KK03-12-234-030c
निरताऽहं सदा सत्ये पापानां च विवर्जने । KK03-12-234-031a
सर्वथा भर्तुरहितं न ममेष्टं कथञ्चन ॥ KK03-12-234-031c
यदा प्रवसते भर्ता कुटुम्बार्थेन केनचित् । KK03-12-234-032a
सुमनोवर्णकापेता भवामि व्रतचारिणी ॥ KK03-12-234-032c
यच्च भर्ता न पिबति यच्च भर्ता न सेवते । KK03-12-234-033a
यच्च नाश्नाति मे भर्ता सर्वं तद्वर्जयाम्यहम् ॥ KK03-12-234-033c
यथोपदेशं नियता वर्तमाना वराङ्गने । KK03-12-234-034a
स्वलङ्कृता सुप्रयता भर्तुः प्रियहिते रता ॥ KK03-12-234-034c
ये च धर्माः कुटुम्बेषु श्वश्र्वामे कथिताः पुरा । KK03-12-234-035a
'अनुतिष्ठामि तान्सत्ये नित्यकालमतन्द्रिता' ॥ KK03-12-234-035c
भिक्षाबलिश्राद्धविधिस्थालीपाकाश्च पर्वसु । KK03-12-234-036a
मान्यानां मानसत्कारा ये चान्ये विदिता मम ॥ KK03-12-234-036c
तान्सर्वाननुवर्तामि दिवारात्रमतन्द्रिता । KK03-12-234-037a
विनयान्नियमांश्चैव सदा सर्वात्मना श्रिता ॥ KK03-12-234-037c
मृदून्सतः सत्यशीलान्सत्यधर्मानुपालिनः । KK03-12-234-038a
स देवः सा गतिर्नार्यास्तस्य का विप्रियं चरेत् ॥ KK03-12-234-038c
पत्याश्रयो हि मे धर्मो मतः स्त्रीणां सनातनः । KK03-12-234-039a
स देवः सा गतिर्नार्यास्तस्य काविप्रियं चरेत् ॥ KK03-12-234-039c
अहं पतीन्नातिशये नात्यश्ने नातिभूषये । KK03-12-234-040a
नापि श्वश्रूं परिवदे सर्वदा परियन्त्रिता ॥ KK03-12-234-040c
अवधानेन सुभगे नित्योत्थिततयैव च । KK03-12-234-041a
भर्तारो वशगा मह्यं गुरुशुश्रूषयैव च ॥ KK03-12-234-041c
नित्यमार्यामहं कुन्तीं वीरसूं सत्यवादिनीम् । KK03-12-234-042a
स्वयं परिचराम्येतां पानाच्छादनभोजनैः ॥ KK03-12-234-042c
नैतामतिशये जातु वस्त्रभूषणभोजनैः । KK03-12-234-043a
न वदे चाप्यतिवाचा तां पृथां पृथिवीसमाम् ॥ KK03-12-234-043c
अष्टावग्रे ब्राह्मणानां सहस्राणि स्म नित्यदा । KK03-12-234-044a
भुञ्जते रुक्मपात्रीषु युधिष्ठिरनिवेशने ॥ KK03-12-234-044c
अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः । KK03-12-234-045a
त्रिंशद्दासीक एकैको यान्बिभर्ति युधिष्ठिरः ॥ KK03-12-234-045c
दशान्यानि सहस्राणि येषामन्नं सुसंस्कृतम् । KK03-12-234-046a
ह्रियते रुक्मपात्रीभिर्यतीनामूर्ध्वरेतसाम् ॥ KK03-12-234-046c
तान्सर्वानग्रहारेण ब्राह्मणान्वेदवादिनः । KK03-12-234-047a
यथार्हं पूजयामि स्म पानाच्छादनभोजनैः ॥ KK03-12-234-047c
शतं दासीसहस्राणि कौन्तेयस्य महात्मनः । KK03-12-234-048a
कम्बुकेयूरधारिण्यो निष्ककण्ठ्यः स्वलङ्कृताः ॥ KK03-12-234-048c
महार्हमाल्याभरणाः सुवर्णाश्चन्दनोक्षिताः । KK03-12-234-049a
मणीन्हेम च बिभ्रत्यो नृत्तगीतविशारदाः ॥ KK03-12-234-049c
तासां नाम च रूपं च भोजनाच्छादनानि च । KK03-12-234-050a
सर्वासामेव वेदाहं कर्म चैव कृताकृतम् ॥ KK03-12-234-050c
शतं दासीसहस्राणि कुन्तीपुत्रस्य धीमतः । KK03-12-234-051a
पात्रीहस्ता दिवारात्रमतिथीन्भोजयन्त्युत ॥ KK03-12-234-051c
शतमश्वसहस्राणि दशनागायुतानि च । KK03-12-234-052a
युधिष्ठिरस्यानुयात्रमिन्द्रप्रस्थनिवासिनः ॥ KK03-12-234-052c
एतदासीत्तदा राज्ञो यन्महीं पर्यपालयत् । KK03-12-234-053a
येषां सङ्ख्याविधिं चैव प्रदिशामि शृणोमि च ॥ KK03-12-234-053c
अन्तःपुराणां सर्वेषां भृत्यानां चैव सर्वशः । KK03-12-234-054a
आगोपालाविपालेभ्यः सर्वं वेद कृताकृतम् ॥ KK03-12-234-054c
सर्वं राज्ञः समुदयमायं च व्ययमेव च । KK03-12-234-055a
एकाऽहं वेद्मि कल्याणि पाण्डवानां यशस्विनि ॥ KK03-12-234-055c
मयि सर्वं समासज्य कुटुम्बं भरतर्षभाः । KK03-12-234-056a
उपासनरताः सर्वे घटयन्ति वरानने ॥ KK03-12-234-056c
तमहं भारमासक्तमनाधृष्यं दुरात्मभिः । KK03-12-234-057a
सुखं सर्वं परित्यज्य रात्र्यहानि घटामि वै ॥ KK03-12-234-057c
अधृष्यं वरुणस्येव निधिपूर्णमिवोदधिम् । KK03-12-234-058a
एकाहं वेद्मि कोशं वै पतीनां धर्मचारिणाम् ॥ KK03-12-234-058c
अनिशायां निशायां च विहाय क्षुत्पिपासयोः । KK03-12-234-059a
आराधयन्त्याः कौरव्यांस्तुल्या रात्रिरहश्च मे ॥ KK03-12-234-059c
प्रथमं प्रतिबुध्यामि चरमं संविशामि च । KK03-12-234-060a
नित्यकालमहं सत्ये एतत्संवननं मम ॥ KK03-12-234-060c
एतज्जानाम्यहं कर्तुं भर्तृसंवननं महत् । KK03-12-234-061a
असत्स्त्रीणां समाचारं नाहं कुर्यां न कामये ॥ KK03-12-234-061c
वैशम्पायन उवाच KK03-12-234-062
तच्छ्रुत्वा धर्मसहितं व्याहृतं कृष्णया तदा । KK03-12-234-062a
उवाच सत्या सत्कृत्य पाञ्चालीं धर्मचारिणीम् ॥ KK03-12-234-062c
अभिपन्नाऽस्मि पाञ्चालि याज्ञसेनि क्षमस्व मे । KK03-12-234-063a
कामकारः सखीनां हि सोपहासं प्रभाषितम् ॥ KK03-12-234-063c
इति श्रीमन्महाभारते अरण्यपर्वणि द्रौपदीसत्यभामासंवादपर्वणि चतुस्त्रिंशदधिकद्विशततमोऽध्यायः ॥ 234 ॥
3-234-1 सममेकत्र । विविशाते तदाश्रममिति ध.पाठः ॥ 3-234-2 जाहस्यमाने परस्परमतिशयेन हसन्त्यौ ॥ 3-234-8 मूलवीर्यं मूलम् अप्रच्युतं तारुण्यादि तद्वीर्यम् । अगदोऽञ्जनादिरौषधम् ॥ 3-234-9 भगदैवतमिति झ. पाठः । भगदैवत सौभाग्यवर्धकं सौरव्रतादिकम् । वशानुग इच्छानुसारी ॥ 3-234-11 हे सत्ये अनुकीर्तनमुत्तरम् ॥ 3-234-17 जलोदरः उदररोगः । श्वित्रिणः कुष्ठवन्तः ॥ 3-234-18 उपसृजन्ति दोषैर्योजयन्ति ॥ 3-234-21 प्रणयम् ईर्ष्याम् । आत्मानं चित्तम् । आत्मनि स्वस्मिन् । निरभिमाना दर्पहीना ॥ 3-234-22 इङ्गितम् अभिप्रायः अध्यासितः क्षिप्तो यस्मिन् कटाक्षो तस्मात् इङ्गिताध्यासितात् ॥ 3-234-23 चक्षुर्हृणः दृष्ट्वैव रिपून् घ्नन्ति तादृशान् । सेवे शत्रुहणान्पार्थानिति क. ट. ध. पाठः ॥ 3-234-24 अभिरूपः सुन्दरः ॥ 3-234-28 अतिरस्कृतसम्भाषा तिरस्कारशून्यवचना ॥ 3-234-29 अनर्म परिहासहीनम् । हसितं हासः । स्थानं स्थितिम् । अवस्करे तिरस्करोमि । किरतेरिदं रूपम् । निष्कुटेषु गृहारामेषु ॥ 3-234-32 सुमनोवर्णकापेता पुष्पैरनुलेपनैश्च वर्जिता ॥ 3-234-36 मानः पूजा । सत्कार आदरः ॥ 3-234-40 नातिशये नातिक्रमामि । न परिवदे न निन्दामि ॥ 3-234-41 अवधानेन अप्रमादेन । मह्यं मम ॥ 3-234-47 अग्रहारेण वैश्वदेवान्ते प्रथमदेयेनान्नेव ॥ 3-234-52 अनुयात्रं स्वैरयात्रायामपि परिवारभूतम् ॥ 3-234-54 वेद वेद्मि ॥ 3-234-60 संवननं वशीकरणम् ॥ 3-234-63 अभिपन्ना प्रार्थयाना ॥