अध्यायः 233

मार्कण्डेयेन युधिष्ठिराय स्कन्दनाम्नां कीर्तनम् ॥

युधिष्ठिर उवाच KK03-11-233-001
भगवञ्श्रोतुमिच्छामि नामानि च महात्मनः । KK03-11-233-001a
तरिषु लोकेषु यान्यस्य विख्यातानि द्विजोत्तम ॥ KK03-11-233-001c
वैशम्पायन उवाच KK03-11-233-002
इत्युक्तः पाण्डवेयेन महात्मा ऋषिसन्निधौ । KK03-11-233-002a
उवाच भगवांस्तत्र मार्कण्डेयो महातपाः ॥ KK03-11-233-002c
आगेयश्चैव स्कन्दश्च दीप्तकीर्तिरनामयः । KK03-11-233-003a
मयूरकेतुर्धर्मात्मा भूतेशो महिषार्दनः ॥ KK03-11-233-003c
कामजित्कामदः कान्तः सत्यवाग्भुवनेश्वरः । KK03-11-233-004a
शिशुः शीघ्रः शुचिश्चण्डो दीप्तवर्णः शुभाननः ॥ KK03-11-233-004c
अमोघस्त्वनघो रौद्रः प्रियश्चन्द्राननस्तथा । KK03-11-233-005a
दीप्तशक्तिः प्रशान्तात्मा भद्रकुक्कुटमोहनः ॥ KK03-11-233-005c
षष्ठीप्रियश्च धर्मात्मा पवित्रो मातृवत्सलः । KK03-11-233-006a
कन्याभर्ता विभक्तश्च स्वाहेयो रेवतीसुतः ॥ KK03-11-233-006c
प्रभुर्नेता विशाखश्च नैगमेयः सुदुश्चरः । KK03-11-233-007a
सुव्रतो ललितश्चैव बालक्रीडनकप्रियः ॥ KK03-11-233-007c
खचारी ब्रह्मचारी च शूरः शरवणोद्भवः । KK03-11-233-008a
विश्वामित्रप्रियश्चैव देवसेनाप्रियस्तथा । KK03-11-233-008c
वासुदेवप्रियश्चैव प्रियः प्रियकृदेव तु ॥ KK03-11-233-008e
नामान्येतानि दिव्यानि कार्तिकेयस्य यः पठेत् । KK03-11-233-009a
स्वर्गं कीर्तिं धनं चैव स लभेन्नात्र संशयः ॥ KK03-11-233-009c
मार्कण्डेय उवाच KK03-11-233-010
स्तोष्यामि देवैर्ऋषिभिश्च जुष्टं शक्त्या गुहं नामभिरप्रमेयम् । KK03-11-233-010a
षडाननं शक्तिधरं सुवीरं निबोध चैतानि कुरुप्रवीर ॥ KK03-11-233-010c
ब्रह्मण्यो वै ब्रह्मजो ब्रह्मविच्च ब्रह्मेशयो ब्रह्मवतांवरिष्ठः । KK03-11-233-011a
ब्रह्मप्रियो ब्राह्मणसर्वमन्त्री त्वं ब्रह्मणां ब्राह्मणानां च नेता ॥ KK03-11-233-011c
स्वाहा स्वधा त्वं परमं पवित्रं मन्त्रस्तुतस्त्वं प्रथितः षडर्चिः । KK03-11-233-012a
संवत्सरस्त्वमृतवश्च षड्वै मासार्धमासाश्च दिनं दिशश्च ॥ KK03-11-233-012c
त्वं पुष्कराक्षस्त्वरविन्दवक्त्रः सहस्रचक्षोसि सहस्रबाहुः । KK03-11-233-013a
त्वं लोकपालः परमं हविश्च त्वं भावनः सर्वसुरासुराणाम् ॥ KK03-11-233-013c
त्वमेव सेनाधिपतिः प्रचण्डःप्रभुर्विभुश्चाप्यथ शक्रजेता । KK03-11-233-014a
सहस्रपात्त्वं धरणी त्वमेव सहस्रतुष्टिश्च सहस्रभुक्च ॥ KK03-11-233-014c
सहस्रशीर्षस्त्वमनन्तरूपः सहस्रपात्त्वं दशशक्तिधारी । KK03-11-233-015a
गङ्गासुतस्त्वं स्वमतेन देव स्वाहामहीकृत्तिकानां तथैव ॥ KK03-11-233-015c
त्वं क्रीडसे षण्मुख कुक्कुटेन यथेष्टनानाविधकामरूपी । KK03-11-233-016a
दीक्षाऽसि सोमो मरुतः सदैव धर्मोऽसि वायुरचलेन्द्र इन्द्रः ॥ KK03-11-233-016c
सनातनानामपि शाश्वतस्त्वं प्रभुः प्रभूणामपि चोग्रधन्वा । KK03-11-233-017a
ऋतस्य कर्ता दितिजान्तकस्त्वं जेता रिपूणां प्रवरः सुराणाम् ॥ KK03-11-233-017c
सूक्ष्मं तपस्तत्परमं त्वमेव परावरज्ञोसि परावरस्त्वम् । KK03-11-233-018a
धर्मस्य कामस्य परस्य चैव त्वत्तेजसा कृत्स्नमिदं महात्मन् ॥ KK03-11-233-018c
व्याप्तं जगत्सर्वसुरप्रवीर शक्त्या मया संस्तुत लोकनाथ । KK03-11-233-019a
नमोस्तु ते द्वादशनेत्रबाहो अतः परं वेद्मि गतिं न तेऽहम् ॥ KK03-11-233-019c
स्कन्दस्य य इदं विप्रः पठेज्जन्म समाहितः । KK03-11-233-020a
श्रावयेद्ब्राह्मणेभ्यो यः शृणुयाद्वा द्विजेरितम् ॥ KK03-11-233-020c
धनमायुर्यशो दीप्तं पुत्राञ्शत्रुजयं तथा । KK03-11-233-021a
स पुष्टितुष्टी सम्प्राप्य स्कन्दसालोक्यमाप्नुयात् ॥ KK03-11-233-021c

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि त्रयस्त्रिंशदधिकद्विशततमोऽध्यायः ॥ 233 ॥

3-233-4 कामजित्पूर्णमनोरथः ॥ 3-233-10 जुष्टं सेवितम् ॥ 3-233-11 ब्रह्मण्यो ब्राह्मणेषु साधुः । ब्रह्मजो वेदोक्तेन गर्भाधानादिकर्मणा जातः । ब्रह्मविद्वेदार्थज्ञाता । ब्रह्मे ब्रह्मणि कर्मब्रह्मरूपे शेते इति ब्रह्मेशयः । अदन्तत्वमार्षम् । कर्मब्रह्मनिष्ठावानित्यर्थः । ब्राह्मणसव्रतीति पाठे ब्राह्मणो ब्रह्मवित्तेन सह समानं व्रतमद्वेष्टृत्वादिरूपं यस्य स ब्राह्मणसव्रती ॥ 3-233-12 षडर्चिःषण्मुखत्वात्षड्जिह्वः ॥