अध्यायः 232

स्कन्दस्य देवसैनापत्येऽभिषेकानन्तरम् महादेवस्य पार्वत्या सह भद्रवटम् प्रति प्रस्थानम् ॥ 1 ॥ तदेन्द्रादिभिर्दिक्पालैः ससैन्यैस्तमनु प्रस्थानम् ॥ 2 ॥ तदा रुद्रेण स्कन्दस्य देवसैनापत्ये नियोजनम् ॥ 3 ॥ ततो देवासुराणाम् महायुद्धम् । तत्र स्कन्देन महिषासुरसंहारः ॥ 4 ॥

मार्कण्डेय उवाच KK03-11-232-001
यदाऽभिषिक्तो भगवान्सैनापत्ये तु पावकिः । KK03-11-232-001a
तदा सम्प्रस्थितः श्रीमान्हृष्टो भद्रवटं हरः ॥ KK03-11-232-001c
रथेनादित्यवर्णेन पार्वत्या सहितः प्रभुः । KK03-11-232-002a
'अनुयातः सुरैः सर्वैः सहस्राक्षपुरोगमैः' ॥ KK03-11-232-002c
सहस्रं तस्य सिंहानां तस्मिन्युक्तं रथोत्तमे । KK03-11-232-003a
उत्पपात दिवं शुभ्रं कालेनाभिप्रचोदितम् ॥ KK03-11-232-003c
ते पिबन्त इवाकाशं त्रासयन्तक्षराचरान् । KK03-11-232-004a
सिंहा नभस्यगच्छन्त नदन्तश्चारुकेसराः ॥ KK03-11-232-004c
तस्मिन्रथे पशुपतिः स्थितो भात्युमया सह । KK03-11-232-005a
विद्युता सहितः सूर्यः सेन्द्रचापे घने यथा ॥ KK03-11-232-005c
अग्रतस्तस्य भगवान्धनेशो गुह्यकैः सह । KK03-11-232-006a
आस्थाय रुचिरं याति पुष्पकं नरवाहनः ॥ KK03-11-232-006c
ऐरावतं समास्थाय शक्रश्चापि सुरैः सह । KK03-11-232-007a
पृष्ठतोऽनुययौ यान्तं वरदं वृषभध्वजम् ॥ KK03-11-232-007c
जृम्भकैर्यक्षरक्षोभिः स्रग्विभिः समलङ्कृतः । KK03-11-232-008a
यात्यमोघो महायक्षो दक्षिणं पक्षमास्थितः ॥ KK03-11-232-008c
तस्य दक्षिणतो देवा बहवश्चित्रयोधिनः । KK03-11-232-009a
गच्छन्ति वसुभिः सार्धं रुद्रैश्च सह सङ्गताः ॥ KK03-11-232-009c
यमश्च मृत्युना सार्धं सर्वतः परिवारितः । KK03-11-232-010a
घोरैर्व्याधिशतैर्याति घोररूपवपुस्तथा ॥ KK03-11-232-010c
यमस्य पृष्ठतश्चैव घोरस्त्रिशिखरः शितः । KK03-11-232-011a
विजयो नाम रुद्रस्य याति शूलः स्वलङ्कृतः ॥ KK03-11-232-011c
तमुग्रपाशो वरुणो भगवान्सलिलेश्वरः । KK03-11-232-012a
परिवार्य शनैर्याति यादोभिर्विविधैर्वृतः ॥ KK03-11-232-012c
पृष्ठतो विजयस्यापि याति रुद्रस्य पट्टसः । KK03-11-232-013a
गदामुसलशक्त्याद्यैर्वृतः प्रहरणोत्तमैः ॥ KK03-11-232-013c
पट्टसं त्वन्वगाद्राजंश्छत्रं रौद्रं महाप्रभम् । KK03-11-232-014a
कमण्डलुश्चाप्यनु तं महर्षिगणसेवितः ॥ KK03-11-232-014c
तस्य दक्षिणतो भाति दण्डो गच्छञ्श्रिया वृतः । KK03-11-232-015a
भृग्वङ्गिरोभिः सहितो दैवतैश्चानुपूजितः ॥ KK03-11-232-015c
एषां तु पृष्ठतो रुद्रो विमले स्यन्दने स्थितः । KK03-11-232-016a
याति संहर्षयन्सर्वांस्तेजसा त्रिदिवौकसः ॥ KK03-11-232-016c
ऋषयश्चापि देवाश्च गन्धर्वा भुजगास्तथा । KK03-11-232-017a
नद्यो ह्रदाःसमुद्राश्च तथैवाप्सरसां गणाः ॥ KK03-11-232-017c
नक्षत्राणि ग्रहाश्चैव देवानां शिशवश्च ये । KK03-11-232-018a
स्त्रियश्च विविधाकारा यान्ति रुद्रस्य पृष्ठतः ॥ KK03-11-232-018c
सृजन्त्यः पुष्पवर्षाणि चारुरूपा वराङ्गनाः । KK03-11-232-019a
पर्जन्यश्चाप्यनुययौ नमस्कृत्य पिनाकिनम् ॥ KK03-11-232-019c
छत्रं च पाण्डुरं सोमस्तस्य मूर्धन्यधारयत् । KK03-11-232-020a
चामरे चापि वायुश्च गृहीत्वाऽग्निश्च धिष्ठितौ ॥ KK03-11-232-020c
शक्रश्च पृष्ठतस्तस्य याति राजञ्छ्रिया वृतः । KK03-11-232-021a
सह राजर्षिभिः सर्वैः स्तुवानो वृषकेतनम् ॥ KK03-11-232-021c
गौरी विद्याऽथ गान्धारी केशिनी मित्रसाह्वया । KK03-11-232-022a
सावित्र्या सह सर्वास्ताः पार्वत्या यान्ति पृष्ठतः ॥ KK03-11-232-022c
तत्र विद्यागणाः सर्वे ये केचित्कविभिः स्मृताः । KK03-11-232-023a
तस्य कुर्वन्ति वचनं सेन्द्रा देवाश्चमूमुखे ॥ KK03-11-232-023c
गृहीत्वा तु पताकां वै यात्यग्रे राक्षसो ग्रहः । KK03-11-232-024a
व्यापृतस्तु श्मशाने यो नित्यं रुद्रस्य वै सखा । KK03-11-232-024c
पिङ्गलो नाम यक्षेन्द्रो लोकस्यानन्ददायकः ॥ KK03-11-232-024e
एभिश्च सहितो देवस्तत्र याति यथासुखम् । KK03-11-232-025a
अग्रतः पृष्ठतश्चैव न हि तस्य गतिर्ध्रुवा ॥ KK03-11-232-025c
रुद्रं सत्कर्मभिर्मर्त्याः पूजयन्तीह दैवतम् । KK03-11-232-026a
शिवमित्येव यं प्राहुरीशं रुद्रं पिनाकिनम् ॥ KK03-11-232-026c
'एवं सर्वे सुरगणास्तदा वै प्रीतमानसाः' । KK03-11-232-027a
भावैस्तु विविधाकारैः पूजयन्ति महेश्वरम् ॥ KK03-11-232-027c
देवसेनापतिस्त्वं देवसेनाभिरावृतः । KK03-11-232-028a
अनुगच्छति देवेशं ब्रह्मण्यः कृत्तिकासुतः ॥ KK03-11-232-028c
अथाब्रवीन्महासेनं महादेवो बृहद्वचः । KK03-11-232-029a
सप्तमं मारुतस्कन्धं रक्ष नित्यमतन्द्रितः ॥ KK03-11-232-029c
स्कन्द उवाच KK03-11-232-030
सप्तमं मारुतस्कन्धं पालयिष्याम्यहं प्रभो । KK03-11-232-030a
यदन्यदपि मे कार्यं देव तद्वद माचिरम् ॥ KK03-11-232-030c
रुद्र उवाच KK03-11-232-031
कार्येष्वहं त्वया पुत्र सन्द्रष्टव्यः सदैव हि । KK03-11-232-031a
दर्शनान्मम भक्त्या च श्रेयः परमवाप्स्यसि ॥ KK03-11-232-031c
मार्कण्डेय उवाच KK03-11-232-032
इत्युक्त्वा विससर्जैनं परिष्वज्य महेश्वरः । KK03-11-232-032a
'स्कन्दं सहोमया प्रीतो ज्वलन्तमिव तेजसा' ॥ KK03-11-232-032c
विसर्जिते ततः स्कन्दे बभूवौत्पातिकं महत् । KK03-11-232-033a
सहसैव महाराज देवान्सर्वान्प्रमोहयत् ॥ KK03-11-232-033c
जज्वाल खं सनक्षत्रं प्रमूढं भुवनं भृशम् । KK03-11-232-034a
चचाल व्यनदच्चोर्वी तमोभूतं जगत्प्रभो ॥ KK03-11-232-034c
ततस्तद्दारुणं दृष्ट्वा क्षुभितः शङ्करस्तदा । KK03-11-232-035a
उमा चैव महाभाग देवाश्च समहर्षयः ॥ KK03-11-232-035c
ततस्तेषु प्रमूढेषु पर्वताम्बुदसन्निभम् । KK03-11-232-036a
नानाप्रहरणं घोरमदृश्यत महद्बलम् ॥ KK03-11-232-036c
तद्वै घोरमसङ्ख्येयं गर्जच्च विविधा गिरः । KK03-11-232-037a
अभ्यद्रवद्रणे देवान्भगवन्तं च शङ्करम् ॥ KK03-11-232-037c
तैर्विसृष्टान्यनीकेषु बाणजालान्यनेकशः । KK03-11-232-038a
पर्वताश्च शतघ्न्यश्च प्रासासिपरिघा गदाः ॥ KK03-11-232-038c
निपतद्भिश्च तैर्घोरैर्देवानीकं महायुधैः । KK03-11-232-039a
क्षणेन व्यद्रवत्सर्वं विमुखं चाप्यदृश्यत ॥ KK03-11-232-039c
निकृत्तयोधनागाश्वं कृत्तायुधमहारथम् । KK03-11-232-040a
दानवैरर्दितं सैन्यं देवानां विमुखं बभौ ॥ KK03-11-232-040c
असुरैर्वध्यमानं तत्पावकैरिव काननम् । KK03-11-232-041a
अपतद्दग्धभूयिष्ठं महाद्रुमवनं तथा ॥ KK03-11-232-041c
ते विभिन्नशिरोदेहाः प्राद्रवन्तो दिवौकसः । KK03-11-232-042a
न नाथमधिगच्छन्ति वध्यमाना महारणे ॥ KK03-11-232-042c
अथ तद्विद्रुतं सैन्यं दृष्ट्वा देवः पुरन्दरः । KK03-11-232-043a
आश्वासयन्नुवाचेदं बलभिद्दानवार्दितम् ॥ KK03-11-232-043c
भयं त्यजत भद्रं वः शूराः शस्त्राणि गृह्णत । KK03-11-232-044a
कुरुध्वं विक्रमे बुद्धिं मा वः काचिद्व्यथा भवेत् ॥ KK03-11-232-044c
जयतैनान्सुदुर्वृत्तान्दानवान्घोरदर्शनान् । KK03-11-232-045a
अभिद्रवत भद्रं वो मया सह महासुरान् ॥ KK03-11-232-045c
शक्रस्य वचनं श्रुत्वा समाश्वस्ता दिवौकसः । KK03-11-232-046a
दानवान्प्रत्ययुध्यन्त शक्रं कृत्वा व्यपाश्रयम् ॥ KK03-11-232-046c
ततस्ते त्रिदशाः सर्वे मरुतश्च महाबलाः । KK03-11-232-047a
प्रत्युद्ययुर्महाभागाः साध्याश्च वसुभिः सह ॥ KK03-11-232-047c
तैर्विसृष्टान्यनीकेषु क्रुद्धैः शस्त्राणि संयुगे । KK03-11-232-048a
शराश्च दैत्यकायेषु पिबन्ति रुधिरं बहु ॥ KK03-11-232-048c
तेषां देहान्विनिर्भिद्य शरास्ते निशितास्तदा । KK03-11-232-049a
निपतन्तोऽभ्यदृश्यन्त नगेभ्य इव पन्नगाः ॥ KK03-11-232-049c
तानि दैत्यशरीराणि निर्भिन्नानि स्म सायकैः । KK03-11-232-050a
अपतन्भूतले राजंश्छिन्नाभ्राणीव सर्वशः ॥ KK03-11-232-050c
ततस्तद्दानवं सैन्यं सर्वैर्देवगणैर्युधि । KK03-11-232-051a
त्रासितं विविधैर्बाणैः कृतं चैव पराङ्मुखम् ॥ KK03-11-232-051c
अथोत्क्रुष्टं तदा हृष्टैः सर्वैर्देवैरुदायुधैः । KK03-11-232-052a
संहतानि च तूर्याणि प्रावाद्यन्त ह्यनेकशः ॥ KK03-11-232-052c
एवमन्योन्यसंयुक्तं युद्धमासीत्सुदारुणम् । KK03-11-232-053a
देवानां दानवानां च मांसशोणितकर्दमम् ॥ KK03-11-232-053c
अनयो देवलोकस्य सहसैवाभ्यदृश्यत । KK03-11-232-054a
तथहि दानवा घोरा विनिघ्नन्ति दिवौकसः ॥ KK03-11-232-054c
ततस्तूर्यप्रणादाश्च भेरीणां च महास्वनाः । KK03-11-232-055a
बभूवुर्दानवेन्द्राणां सिंहनादाश्च दारुणाः ॥ KK03-11-232-055c
अथ दैत्यबलाद्घोरान्निष्पपात महाबलः । KK03-11-232-056a
दानवो महिषो नाम प्रगृह्य विपुलं गिरिम् ॥ KK03-11-232-056c
ते तं धनैरिवादित्यं दृष्ट्वा सम्परिवारितम् । KK03-11-232-057a
तमुद्यतगिरिं राजन्व्यद्रवन्त दिवौकसः ॥ KK03-11-232-057c
अथाभिद्रुत्य महिषो देवांश्चिक्षेप तं गिरिम् । KK03-11-232-058a
'महाकायं महाराज सतोयमिव तोयदम्' ॥ KK03-11-232-058c
पतता तेन गिरिणा देवसैन्यस्य पार्थिव । KK03-11-232-059a
भीमरूपेण निहतमयुतं प्रापतद्भुवि ॥ KK03-11-232-059c
अथ तैर्दानवैः सार्धं महिषस्त्रासयन्सुरान् । KK03-11-232-060a
अभ्यद्रवद्रणे तूर्णं सिंहः क्षुद्रमृगानिव ॥ KK03-11-232-060c
तमापतन्तं महिषं दृष्ट्वा सेन्द्रा दिवौकसः । KK03-11-232-061a
व्यद्रवन्त रणे भीता विकीर्णायुधकेतनाः ॥ KK03-11-232-061c
ततःस महिषः क्रुद्धस्तूर्णं रुद्ररथं ययौ । KK03-11-232-062a
अभिद्रुत्य च जग्राह रुद्रस्य रथकूबरम् ॥ KK03-11-232-062c
यदा रुद्ररथं क्रुद्धो महिषः सहसा गतः । KK03-11-232-063a
रेसतू रोदसी गाढं मुमुहुश्च महर्षयः ॥ KK03-11-232-063c
अनदंश्चमहाकाया दैत्या जलधरोपमाः । KK03-11-232-064a
आसीच्च निश्चितं तेषां जितमस्माभिरित्युत ॥ KK03-11-232-064c
तथाभूते तु भगवानाहूय गुहमात्मजम् । KK03-11-232-065a
'दौरात्म्यं पश्य पुत्र त्वं दानवस्य दुरात्मनः । KK03-11-232-065c
जहि शीघ्रं दुराचारं द्रष्टुमिच्छामि ते बलम् ॥ KK03-11-232-065e
इत्युक्त्वा भगवान्स्कन्दं परिपूज्य महेश्वरः । KK03-11-232-066a
अयोजयन्निग्रहार्थं महिषस्य गतायुषः' । KK03-11-232-066c
सस्मार च तदा स्कन्दं मृत्युं तस्य दुरात्मनः ॥ KK03-11-232-066e
महिषोऽपि रथं दृष्ट्वा रौद्रं रुद्रस्य चानदत् । KK03-11-232-067a
देवान्सन्त्रासयंश्चापि दैत्यांस्चापि प्रहर्षयन् ॥ KK03-11-232-067c
ततस्तस्मिन्भये घोरे देवानां समुपस्थिते । KK03-11-232-068a
आजगाम महासेनः क्रोधात्सूर्य इव ज्वलन् ॥ KK03-11-232-068c
लोहिताम्बरसंवीतो लोहितस्रग्विभूषणः । KK03-11-232-069a
लोहिताश्वो महाबाहुर्हिरण्यकवचः प्रभुः ॥ KK03-11-232-069c
रथमादित्यसङ्काशमास्थितः कनकप्रभम् । KK03-11-232-070a
तं दृष्ट्वा दैत्यसेना सा व्यद्रवत्सहसा रणे ॥ KK03-11-232-070c
स चापि तां प्रज्वलितां महिषस्य विदारिणीम् । KK03-11-232-071a
मुमोच शक्तिं राजेन्द्र महासेनो महाबलः ॥ KK03-11-232-071c
सा मुक्ताऽभ्यहरत्तस्य महिषस्य शिरो महत् । KK03-11-232-072a
पपात भिन्ने शिरसि महिषस्त्यक्तजीवितः ॥ KK03-11-232-072c
पतता शिरसा तेन द्वारं षोडशयोजनम् । KK03-11-232-073a
पर्वताभेन पिहितं तदाऽगम्यं ततोऽभवत् । KK03-11-232-073c
उत्तराः कुरवस्तेन गच्छन्त्यद्य यथासुखम् ॥ KK03-11-232-074a
क्षिप्ताक्षिप्ता तु सा शक्तिर्हत्वा शत्रून्सहस्रशः । KK03-11-232-074c
स्कन्दहस्तमनुप्राप्ता दृश्यते देवदानवैः ॥ KK03-11-232-075a
प्रायः शरैर्विनिहता महासेनेन धीमता । KK03-11-232-075c
शेषा दैत्यगणा घोरा भीतास्त्रस्ता दुरासदैः । KK03-11-232-076a
स्कन्दपारिषदैर्हत्वा भक्षिताश्च सहस्रशः ॥ KK03-11-232-076c
दानवान्भक्षयन्तस्ते प्रपिबन्तश्च शोणितम् । KK03-11-232-077a
क्षणान्निर्दानवं सर्वमकार्षुर्भृशहर्षिताः ॥ KK03-11-232-077c
तमांसीव यथा सूर्यो वृक्षानग्निर्घनान्खगः । KK03-11-232-078a
तथा स्कन्दोऽजयच्छत्रून्स्वेन वीर्येण कीर्तिमान् ॥ KK03-11-232-078c
सम्पूज्यमानस्त्रिदशैरभिवाद्य महेश्वरम् । KK03-11-232-079a
शुशुभे कृतिकापुत्रः प्रकीर्णांशुरिवांशुमान् ॥ KK03-11-232-079c
नष्टशत्रुर्यदा स्कन्दः प्रयातस्तु महेश्वरम् । KK03-11-232-080a
तदाऽब्रवीन्महासेनं परिष्वज्य पुरन्दरः ॥ KK03-11-232-080c
ब्रह्मदत्तवरः स्कन्द त्वयाऽयं महिषो हतः । KK03-11-232-081a
'अजय्यो युधि देवानां दानवः स महाबलः' ॥ KK03-11-232-081c
देवास्तृणसमा यस्य वबूवुर्जयतांवर । KK03-11-232-082a
सोऽयं त्वया महाबाहो शमितो देवकण्टकः ॥ KK03-11-232-082c
शतं महिषतुल्यानां दानवानां त्वया रणे । KK03-11-232-083a
निहतं देवशत्रूणां यैर्वयं पूर्वतापिताः ॥ KK03-11-232-083c
तावकैर्भक्षिताश्चान्ये दानवाः शतसङ्घशः । KK03-11-232-084a
अजेयस्त्वं रणेऽरीणामुमापतिरिव प्रभुः ॥ KK03-11-232-084c
एतत्ते प्रथमं देव ख्यातं कर्म भविष्यति । KK03-11-232-085a
त्रिषु लोकेषु कीर्तिश्च तवाक्षय्या भविष्यति । KK03-11-232-085c
वशगाश्च भविष्यन्ति सुरास्तव महाभुज ॥ KK03-11-232-085e
महासेनमेवमुक्त्वा निवृत्तः सह दैवतैः । KK03-11-232-086a
अनुज्ञातो भगवता त्र्यम्बकेण शचीपतिः ॥ KK03-11-232-086c
गतो भद्रवटं रुद्रो निवृत्ताश्च दिवौकसः । KK03-11-232-087a
उक्ताश्च देवा रुद्रेण स्कन्दं पश्यत मामिव ॥ KK03-11-232-087c
स हत्वा दानवगणान्पूज्यमानो महर्षिभिः । KK03-11-232-088a
एकाह्नैवाजयत्सर्वं त्रैलोक्यं वह्निनन्दनः ॥ KK03-11-232-088c
स्कन्दस्य य इदं विप्रः पठेज्जन्म समाहितः । KK03-11-232-089a
'शृणुयाद्ब्राह्मणेभ्यो यः श्रावयेद्वा विचेतनम् ॥ KK03-11-232-089c
धनमायुर्यशो दीप्तिं पुत्राञ्शत्रुजयं तथा' । KK03-11-232-090a
सपुष्टिमिह सम्प्राप्य स्कन्दसालोक्यमाप्नुयात् ॥ KK03-11-232-090c

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि द्वात्रिंशदधिकद्विशततमोऽध्यायः ॥ 232 ॥

3-232-8 जृम्भकैर्ग्रहविशेषैः भास्करैर्यक्षरक्षोभिः इति ध.पाठः ॥ 3-232-23 विद्यागणाः स्तुतिपद्यसमूहाः ॥ 3-232-62 कूबरं धूःप्रदेशम् ॥ 3-232-63 रेसतुः शब्दं चक्रतुः । रोदसी द्यावाभूमी ॥