अध्यायः 231

स्कन्देन स्वाहादेव्या अभीष्टदानम् ॥ 1 ॥ ब्रह्मणा स्कन्दम् प्रति सोपपत्तिकं तस्य रुद्रपुत्रत्वादिकथनम् ॥ 2 ॥

मार्कण्डेय उवाच KK03-11-231-001
यदा स्कन्देन मातॄणामेवमेतत्प्रियं कृतम् । KK03-11-231-001a
अथनैमब्रवीत्स्वाहा मम पुत्रस्त्वमौरसः ॥ KK03-11-231-001c
इच्छाम्यहं त्वया दत्तां प्रीतिं परमदुर्लभाम् । KK03-11-231-002a
तामब्रवीत्ततः स्कन्दः प्रीतिमिच्छसि कीदृशीम् ॥ KK03-11-231-002c
स्वाहोवाच KK03-11-231-003
दक्षस्याहं प्रिया कन्या स्वाहा नाम महाभुज । KK03-11-231-003a
बाल्यात्प्रभृति नित्यं च जातकामा हुताशने ॥ KK03-11-231-003c
न स मां कामिनीं पुत्र सम्यग्जानाति पावकः । KK03-11-231-004a
इच्छामि शाश्वतं वासं वस्तुं पुत्र सहाग्निना ॥ KK03-11-231-004c
स्कन्द उवाच KK03-11-231-005
हव्यं कव्यं च यत्किञ्चिद्द्विजा मन्त्रसुसंस्तुतम् । KK03-11-231-005a
होष्यन्त्यग्नौ सदा देवि स्वाहेत्युक्त्वा समुद्धृतम् ॥ KK03-11-231-005c
अद्यप्रभृति दास्यन्ति सुवृत्ताः सत्पथे स्थिताः । KK03-11-231-006a
एवमग्निस्त्वया सार्धं सदा वत्स्यति शोभने ॥ KK03-11-231-006c
मार्कण्डेय उवाच KK03-11-231-007
एवमुक्ता ततः स्वाहा तुष्टा स्कन्देन पूजिता । KK03-11-231-007a
पावकेन समायुक्ता भर्त्रा स्कन्दमपूजयत् ॥ KK03-11-231-007c
ततो ब्रह्मा महासेनं प्रजापतिरथाब्रवीत् । KK03-11-231-008a
अभिगच्छ महादेवं पितरं त्रिपुरार्दनम् ॥ KK03-11-231-008c
रुद्रेणाग्निं समाविश्य स्वाहामाविश्य चोमया । KK03-11-231-009a
हितार्थं सर्वलोकानां जातस्त्वमपराजितः ॥ KK03-11-231-009c
उमायोन्यां च रुद्रेण शुक्रं सिक्तं महात्मना । KK03-11-231-010a
अस्मिन्गिरौ निपतितं मिञ्जिकामिञ्जिकं यतः ॥ KK03-11-231-010c
'मिथुनं वै महाभाग तत्र तद्रुद्रसम्भवम्' । KK03-11-231-011a
सम्भूतं लोहितोदे तु शुक्रशेषमवापतत् ॥ KK03-11-231-011c
सूर्यरश्मिषु चाप्यनयदन्यच्चैवापतद्भुवि । KK03-11-231-012a
आसक्तमन्यद्वृक्षेषु तदेवं पञ्चधाऽपतत् ॥ KK03-11-231-012c
तत्र ते विविधाकारा गणा ज्ञेया मनीषिभिः । KK03-11-231-013a
तव पारिषदा घोरा य एते पिशिताशिनः ॥ KK03-11-231-013c
एवमस्त्विति चाप्युक्त्वा महासेनो महेश्वरम् । KK03-11-231-014a
अपूजयदमेयात्मा पितरं पितृवत्सलः ॥ KK03-11-231-014c
मार्कण्डेय उवाच KK03-11-231-015
अर्कपुष्पैस्तु ते पञ्च गणाः पूज्या धनार्थिभिः । KK03-11-231-015a
व्याधिप्रशमनार्थं च तेषां पूजां समाचरेत् ॥ KK03-11-231-015c
मिञ्जिकामिञ्जिकं चैव मिथुनं रुद्रसम्भवम् । KK03-11-231-016a
नमस्कार्यं सदैवेह बालानां हितमिच्छता ॥ KK03-11-231-016c
स्त्रियो मानुषमांसादा वृक्षका नाम नामतः । KK03-11-231-017a
वृक्षेषु जातास्ता देव्यो नमस्कार्याः प्रजार्थिभिः ॥ KK03-11-231-017c
एषामेव पिशाचानामसङ्ख्येयगणाः स्मृताः । KK03-11-231-018a
घण्टायाः सपताकायाः शृणु मे सम्भवं नृप ॥ KK03-11-231-018c
ऐरावतस्य घण्टे द्वे वैजयन्त्याविति श्रुते । KK03-11-231-019a
गुहस्य ते स्वयं दत्ते क्रमेणानाय्य धीमता ॥ KK03-11-231-019c
एका तत्र विशाखस्य घण्टा स्कन्दस्य चापरा । KK03-11-231-020a
पताका कार्तिकेयस्य विशाखस्य च लोहिता ॥ KK03-11-231-020c
यानि क्रीडनकान्यस्य देवैर्दत्तानि वै तदा । KK03-11-231-021a
तैरेव रमते देवो महासेनो महाबलः ॥ KK03-11-231-021c
स संवृतः पिशाचानां गणैर्देवगणैस्तथा । KK03-11-231-022a
शुशुभे काञ्चने शैले दीप्यमानः श्रिया वृत्तः ॥ KK03-11-231-022c
तेन वीरेण शुशुभे स शैलः शुभकाननः । KK03-11-231-023a
आदित्येनेवांशुमता मन्दरश्चारुकन्दरः ॥ KK03-11-231-023c
सन्तानकवनैः फुल्लैः करवीरवनैरपि । KK03-11-231-024a
पारिजातवनैश्चैव जपाशोकवनैस्तथा ॥ KK03-11-231-024c
कदम्बतरुषण्डैश्च दिव्यैर्मृगगणैरपि । KK03-11-231-025a
दिव्यैः पक्षिगणैश्चैव शुशुभे श्वेतपर्वतः ॥ KK03-11-231-025c
तत्र देवगणाः सर्वे सर्वे देवर्षयस्तथा । KK03-11-231-026a
मेघतूर्यरवाश्चैव क्षुब्धोदधिसमस्वनाः ॥ KK03-11-231-026c
तत्र देवाश्च गन्धर्वा नृत्यन्तेऽप्सरसस्तथा । KK03-11-231-027a
हृष्टानां तत्र भूतानां श्रूयते निनदो महान् ॥ KK03-11-231-027c
एवं सेन्द्रं जगत्सर्वं श्वेतपर्वतसंस्थितम् । KK03-11-231-028a
प्रहृष्टं प्रेक्षते स्कन्दं न च ग्लायति दर्शनात् ॥ KK03-11-231-028c

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि एकत्रिंशदधिकद्विशततमोऽध्यायः ॥ 231 ॥

3-231-10 मुञ्जिको मुष्टिका ततः इति ट. थ.पाठः ॥