अध्यायः 230
मार्कण्डेयेन युधिष्ठिरम् प्रति स्कन्दचरित्रकीर्तनम् ॥ 1 ॥
मार्कण्डेय उवाच KK03-11-230-001
श्रिया जुष्टं महासेनं देवसेनापतीकृतम् । KK03-11-230-001a
सप्तर्षिपत्नयः षड् देव्यस्तत्सकाशमथागमन् ॥ KK03-11-230-001c
ऋषिभिः सम्परित्यक्ता धर्मयुक्ता महाव्रताः । KK03-11-230-002a
द्रुतमागम्य चोचुस्ता देवसेनापतिं प्रभुम् ॥ KK03-11-230-002c
वयं पुत्र परित्यक्ता भर्तृभिर्देवसम्मितैः । KK03-11-230-003a
अकारणाद्रुषा तैस्तु पुण्यस्थानात्परिच्युताः ॥ KK03-11-230-003c
अस्माभिः किल जातस्त्वमिति केनाप्युदाहृतम् । KK03-11-230-004a
तत्सत्यमेतत्संश्रुत्य तस्मान्नस्त्रातुमर्हसि ॥ KK03-11-230-004c
अक्षयश्च भवेत्स्वर्गस्त्वत्प्रसादाद्धि नः प्रभो । KK03-11-230-005a
त्वां पुत्रं चाप्यभीप्सामः कृत्वैतदनृणो भव ॥ KK03-11-230-005c
स्कन्द उवाच KK03-11-230-006
मातरो हि भवत्यो मे सुतो वोऽहमनिन्दिताः । KK03-11-230-006a
यद्वापीच्छत तत्सर्वं सम्भविष्यति वस्तथा ॥ KK03-11-230-006c
मार्कण्डेय उवाच KK03-11-230-007
विवक्षन्तं ततः शक्रं किं कार्यमिति सोऽब्रवीत् । KK03-11-230-007a
उक्तः स्कन्देन ब्रूहीति सोऽब्रवीद्वासवस्ततः ॥ KK03-11-230-007c
अभिजित्स्पर्धमाना तु रोहिण्या कन्यसी स्वसा । KK03-11-230-008a
इच्छन्ती ज्येष्ठतां देवी तपस्तप्तुं वनं गता ॥ KK03-11-230-008c
तत्र मूढोस्मि भद्रं ते नक्षत्रं गगनाच्च्युतम् । KK03-11-230-009a
कालं त्विमं परं स्कन्द ब्रह्मणा सह चिन्तय ॥ KK03-11-230-009c
धनिष्ठादिस्तदा कालो ब्रह्मणा परिकल्पितः । KK03-11-230-010a
रोहिणी ह्यभवत्पूर्वमेवं सङ्ख्या समाभवत् ॥ KK03-11-230-010c
एवमुक्ते तु शक्रेण त्रिविदं कृत्तिका गताः । KK03-11-230-011a
नक्षत्रं शकटाकारं भाति तद्वह्निदैवतम् ॥ KK03-11-230-011c
विनता चाब्रवीत्स्कन्दं मम त्वं पिण्डदः सुतः । KK03-11-230-012a
इच्छामि नित्यमेवाहं त्वया पुत्र सहासितुम् ॥ KK03-11-230-012c
स्कन्द उवाच KK03-11-230-013
एवमस्तु नमस्तेऽस्तु पुत्रस्नेहात्प्रशाधि माम् । KK03-11-230-013a
स्नुषया पूज्यमाना वै देवि वत्स्यसि नित्यदा ॥ KK03-11-230-013c
मार्कण्डेय उवाच KK03-11-230-014
अथ मातृगणः सर्वः स्कन्दं वचनमब्रवीत् । KK03-11-230-014a
वयं सर्वस्य लोकस्य मातरः कविभिः स्तुताः । KK03-11-230-014c
इच्छामो मातरस्तुभ्यं भवितुं पूजयस्व नः ॥ KK03-11-230-014e
'तासां तु वचनं श्रुत्वा स्कन्दो वचनमब्रवीत्' । KK03-11-230-015a
मातरो हि भवत्यो मे भवतीनामहं सुतः । KK03-11-230-015c
उच्यतां यन्मया कार्यं भवतीनामथेप्सितम् ॥ KK03-11-230-015e
मातर ऊचुः KK03-11-230-016
यास्तु ता मातरः पूर्वं लोकस्यास्य प्रकल्पिताः । KK03-11-230-016a
अस्माकं तु भवेत्स्थानं तासां चैव न तद्भवेत् ॥ KK03-11-230-016c
भवेम पूज्या लोकस्य न ताः पूज्याः सुरर्षभ । KK03-11-230-017a
प्रजाऽस्माकं हृतास्ताभिस्त्वत्कृते ताः प्रयच्छ नः ॥ KK03-11-230-017c
स्कन्द उवाच KK03-11-230-018
वृत्ताः प्रजा न ताः शक्या भवतीभिर्निषेवितुम् । KK03-11-230-018a
अन्यां वः कां प्रयच्छामि प्रजां यां मनसेच्छथ ॥ KK03-11-230-018c
मातर ऊचुः KK03-11-230-019
इच्छाम तासां मातॄणां प्रजा भोक्तुं प्रयच्छ नः । KK03-11-230-019a
त्वया सह पृथग्भूता ये च तासामथेश्वराः ॥ KK03-11-230-019c
स्कन्द उवाच KK03-11-230-020
प्रजा वो दद्मि कष्टं तु भवतीभिरुदाहृतम् । KK03-11-230-020a
परिरक्षत भद्रं वः प्रजा साधुनमस्कृताः ॥ KK03-11-230-020c
मातर ऊचुः KK03-11-230-021
परिरक्षाम भद्रं ते प्रजाः स्कन्द यथेच्छसि । KK03-11-230-021a
त्वया नो रोचते स्कन्द सहवासश्चिरं प्रभो ॥ KK03-11-230-021c
स्कन्द उवाच KK03-11-230-022
यावत्षोडश वर्षाणि भवन्ति तरुणाः प्रजाः । KK03-11-230-022a
प्रबाधत मनुष्याणां तावद्रूपैः पृथग्विधैः ॥ KK03-11-230-022c
अहं च वः प्रदास्यामि रौद्रमात्मानमव्ययम् । KK03-11-230-023a
परमं तेन सहिताः सुखं वत्स्यथ पूजिताः ॥ KK03-11-230-023c
मार्कण्डेय उवाच KK03-11-230-024
ततः शरीरात्स्कन्दस्य परुषः पावकप्रभः । KK03-11-230-024a
भोक्तुं प्रजाः स मर्त्यानां निष्पपात महाबलः ॥ KK03-11-230-024c
अपतत्सहसा भूमौ विसञ्ज्ञोऽथ क्षुधार्दितः । KK03-11-230-025a
स्कन्देन सोऽभ्यनुज्ञातो रौद्ररूपोऽभवद्ग्रहः ॥ KK03-11-230-025c
स्कन्दापस्मार इत्याहुर्गृहं तं द्विजसत्तमाः । KK03-11-230-026a
विनता तु महारौद्रा कथ्यते शकुनिग्रहः ॥ KK03-11-230-026c
मातॄणां राक्षसं प्राहुस्तं विद्यात्पूतनाग्रहम् । KK03-11-230-027a
कष्टा दारुणरूपेण घोररूपा निशाचरी ॥ KK03-11-230-027c
पशाची दारुणाकारा कथ्यते शीतपूतना । KK03-11-230-028a
गर्भान्सा मानुषीणां तु हरते घोरदर्शना ॥ KK03-11-230-028c
अदितिं रेवतीं प्राहुर्ग्रहस्तस्यास्तु रैवतः । KK03-11-230-029a
सोऽपि बालान्महाघोरो बाधते वै महाग्रहः ॥ KK03-11-230-029c
दैत्यानां या दितिर्माता तामाहुर्मुखमण्डिकाम् । KK03-11-230-030a
अत्यर्थं शिशुमांसेन सम्प्रहृष्टा दुरासदा ॥ KK03-11-230-030c
कुमाराश्च कुमार्यश्च ये प्रोक्ताः स्कन्दसम्भवाः । KK03-11-230-031a
तेऽपि गर्भभुजः सर्वे कौरव्य सुमहाग्रहाः ॥ KK03-11-230-031c
तासामेव तु पत्नीनां पतयस्ते प्रकीर्तिताः । KK03-11-230-032a
आजायमानान्गृह्णन्ति बालकान्रौद्रकर्मणः ॥ KK03-11-230-032c
गवां माता तु या प्राज्ञैः कथ्यते सुरभिर्नृप । KK03-11-230-033a
शकुनिस्तामथारुह्य सह भुङ्क्ते शिशून्भुवि ॥ KK03-11-230-033c
सरमा नाम या माता शुनां देवी जनाधिप । KK03-11-230-034a
साऽपि गर्भान्समादत्ते मानुषीणां सदैव हि ॥ KK03-11-230-034c
पादपानां च या माता करञ्जनिलया हि सा । KK03-11-230-035a
वरदा सा हि सौम्या च नित्यं भूतानुकम्पिनी ॥ KK03-11-230-035c
करञ्जे तां नमस्यन्ति तस्मात्पुत्रार्थिनो नराः । KK03-11-230-036a
इमे त्वष्टादशान्ये वै ग्रहा मांसमधुप्रियाः ॥ KK03-11-230-036c
द्विपञ्चरात्रं तिष्ठन्ति सततं सूतिकागृहे । KK03-11-230-037a
कद्रूः सूक्ष्मवपुर्भूत्वा गर्भिणीं प्रविशत्यथ ॥ KK03-11-230-037c
भुङ्क्ते सा तत्र तं गर्भं सा तु नागं प्रसूयते । KK03-11-230-038a
गन्धर्वाणां तु या माता सा गर्भं गृह्य गच्छति ॥ KK03-11-230-038c
ततो विलीनगर्भा सा मानुषी भुवि दृश्यते । KK03-11-230-039a
या जनित्री त्वप्सरसां गर्भमास्ते प्रगृह्य सा ॥ KK03-11-230-039c
उपविष्टं ततो गर्भं कथयन्ति मनीषिणः । KK03-11-230-040a
लोहितस्योदधेः कन्या धात्री स्कन्दस्य सा स्मृता ॥ KK03-11-230-040c
लोहितायनिरित्येवं कदम्बे सा हि पूज्यते । KK03-11-230-041a
पुरुषे तु यथा रुद्रस्तथाऽऽर्या प्रमदास्वपि ॥ KK03-11-230-041c
आर्या माता कुमारस्य पृथक्कामार्थमिज्यते । KK03-11-230-042a
एवमेते कुमाराणां मया प्रोक्ता महाग्रहाः ॥ KK03-11-230-042c
यावत्षोडश वर्षाणि शिशूनां ह्यशिवास्ततः । KK03-11-230-043a
ये च मातृगणाः प्रोक्ताः पुरुषाश्चैव ये ग्रहाः ॥ KK03-11-230-043c
सर्वे स्कन्दग्रहा नाम ज्ञेया नित्यं शरीरिभिः । KK03-11-230-044a
तेषां प्रशमनं कार्यं स्नानं धूपमथाञ्जनम् । KK03-11-230-044c
बलिकर्मोपहाराश्च स्कन्दस्येज्या विशेषतः ॥ KK03-11-230-044e
एवमभ्यर्चिताः सर्वे प्रयच्छन्ति शुभं नृणाम् । KK03-11-230-045a
आयुर्दीर्घं च राजेन्द्र सम्यक्पूजानमस्कृताः ॥ KK03-11-230-045c
ऊर्ध्वं तु षोडशाद्वर्षाद्ये भवन्ति ग्रहा नृणाम् । KK03-11-230-046a
तानहं सम्प्रवक्ष्यामि नमस्कृत्य महेश्वरम् ॥ KK03-11-230-046c
यः पश्यति नरो देवाञ्जाग्रद्वा शयितोपि वा । KK03-11-230-047a
उन्माद्यति स तु क्षिप्रं तं तु देवग्रहं विदुः ॥ KK03-11-230-047c
आसीनश्च शयानश्च यः पश्यति नरः पितॄन् । KK03-11-230-048a
उन्माद्यति स तु क्षिप्रं स ज्ञेयस्तु पितृग्रहः ॥ KK03-11-230-048c
अवमन्यति यः सिद्धान्क्रुद्धाश्चापि शपन्ति यम् । KK03-11-230-049a
उन्माद्यति स तु क्षिप्रं ज्ञेयः सिद्धग्रहस्तु सः ॥ KK03-11-230-049c
उपाघ्राति च यो गन्धान्रसांश्चापि पृथग्विधान् । KK03-11-230-050a
उन्माद्यति स तु क्षिप्रं स ज्ञेयो राक्षसो ग्रहः ॥ KK03-11-230-050c
गन्धर्वाश्चापि यं दिव्याः संविशन्ति नरं भुवि । KK03-11-230-051a
उन्माद्यति स तु क्षिप्रं ग्रहो गान्धर्व एव सः ॥ KK03-11-230-051c
अधिरोहन्ति यं नित्यं पिशाचाः पुरुषं प्रति । KK03-11-230-052a
उन्माद्यति स तु क्षिप्रं ग्रहः पैशाच एव सः ॥ KK03-11-230-052c
आविशन्ति च यं यक्षाः पुरुषं कालपर्यये । KK03-11-230-053a
उन्माद्यति स तु क्षिप्रं ज्ञेयो यक्षग्रहस्तु सः ॥ KK03-11-230-053c
यस्य दोषैः प्रकुपितं चित्तं मुह्यति देहिनः । KK03-11-230-054a
उन्माद्यति स तु क्षिप्रं साधनं तस्य शास्त्रतः ॥ KK03-11-230-054c
वैक्लव्याच्च भयाच्चैव घोराणां चापि दर्शनात् । KK03-11-230-055a
उन्माद्यति स तु क्षिप्रं सान्त्वं तस्य तु साधनम् ॥ KK03-11-230-055c
कश्चित्क्रीडितुकामो वै भोक्तुकामस्तथाऽपरः । KK03-11-230-056a
अभिकामस्तथैवान्य इत्येष त्रिविधो ग्रहः ॥ KK03-11-230-056c
यावत्सप्ततिवर्षाणि भवन्त्येते ग्रहा नृणाम् । KK03-11-230-057a
अतः परं देहिनां तु ग्रहतुल्या भवेज्जरा ॥ KK03-11-230-057c
अप्रकीर्णेन्द्रियं दान्तं शुचिं नित्यमतन्द्रितम् । KK03-11-230-058a
आस्तिकं श्रद्दधानं च वर्जयन्ति तदा ग्रहाः ॥ KK03-11-230-058c
इत्येष ते ग्रहोद्देशो मानुषाणां प्रकीर्तितः । KK03-11-230-059a
न स्पृशन्ति ग्रहा भक्तान्नरान्देवं महेश्वरम् ॥ KK03-11-230-059c
इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि त्रिंशदधिकद्विशततमोऽध्यायः ॥ 230 ॥
3-230-4 असत्यमेतत्संस्कृत्य इति ध. पाठः । अपत्यमेतत्संस्मृत्य इति ट. थ. पाठः ॥ 3-230-7 विवक्षन्तमभिजिन्नक्षत्रस्य पतनान्नक्षत्रसङ्ख्या कथं समा भवेदिति प्रष्टुमिच्छन्तम् ॥ 3-230-8 कन्यसी कनिष्ठा । वनं गता अधिकारं त्यक्तेति शेषः ॥ 3-230-10 यस्य नक्षत्रस्याद्यक्षणे चन्द्रसूर्यगुरूणां योगस्तद्युगादिनक्षत्रम् । तच्च पूर्वं रोहिण्यभूत् । तदाभिजित्पतनकाले त्वेकन्यूनैरहोरात्रैर्भगणस्य भोगात् कृतयुगादिनक्षत्रं धनिष्ठैवाभवदित्यर्थः । सङ्ख्या कलाकाष्ठादीनाम् ॥ 3-230-11 तथा च कृत्तिकाभिरेव नक्षत्रसङ्ख्यापूर्ति कुर्विति शक्राशयं ज्ञात्वा तास्त्रिदिवं गताः । नक्षत्रं सप्तशीर्षाभम् इति झ. पाठः ॥ 3-230-12 ऋषिपत्नीनामिव गरुत्मत्या अपिरूपं स्वाहया धृतमिति तत्सुतत्वं बोध्यम् ॥ 3-230-13 स्नुषया देवसेनया ॥ 3-230-14 मातृगणो विनतादिसमूहः ॥ 3-230-16 ताः प्रसिद्धाः मातरो ब्राह्मीमाहेश्वरीप्रभृतयः ॥ 3-230-17 त्वत्कृते त्वदर्थं ताभिर्ब्राह्म्यादिभिरस्मद्भर्तॄन् मिथ्याभिशापदोषेण कोपयन्तीभिः प्रजा हृताः सङ्गाभावादित्यर्थः । सन्धिरार्षः । नोऽस्मभ्यं प्रयच्छ भर्तॄणामनुकूलनेनेत्यर्थः ॥ 3-230-18 वृत्ता मया दत्ता अपि । मया प्रार्थिता अपि मुनयो युष्मान् नाङ्गीकरिष्यन्तीति भावः ॥ 3-230-19 मातॄणां ब्राह्म्यादीनाम् । तासां प्रजानामीश्वराः पित्रादयः ॥ 3-230-20 प्रजाः अस्मदाद्याः । नमस्कृता यूयं मयेति शेषः ॥ 3-230-32 अज्ञायमाना गृह्णन्ति इति ध. पाठः ॥ 3-230-38 मुजाता हरिणी या तु सा गर्भं पिबति प्रभो इति ट. थ. ध.पाठः ॥