अध्यायः 229

मार्कण्डेयेन युधिष्ठिरम् प्रति स्कन्दचरित्रप्रतिपादनम् ॥ 1 ॥ इन्द्रेण स्कन्दस्य देवसैनापत्येऽभिषेचनम् ॥ 2 ॥ स्कन्देनेन्द्रप्रार्थनया देवसेनाया उद्वहनम् ॥ 3 ॥

मार्कण्डेय उवाच KK03-11-229-001
ततः प्रकल्प्य पुत्रत्वे स्कन्दं मातृगणोऽगमत् । KK03-11-229-001a
काकी च हलिमा चैव माता चाथ हली तथा । KK03-11-229-001c
आर्या बाला च धात्री च सप्तैता शिशुमातरः ॥ KK03-11-229-001e
एतासां वीर्यसम्पन्नः शिशुर्नामातिदारुणः । KK03-11-229-002a
स्कन्दप्रसादजः पुत्रो लोहिताक्षो भयङ्करः ॥ KK03-11-229-002c
एष वीरोऽष्टमः प्रोक्तः स्कन्दो मातृगणोद्भवः । KK03-11-229-003a
छागवक्त्रेण सहितो नवमः परिकीर्त्यते ॥ KK03-11-229-003c
षष्ठं छागमयं वक्त्रं स्कन्दस्यैवेति विद्धि तम् । KK03-11-229-004a
षट्शिरोभ्यन्तरं राजन्नित्यं मातृगणार्चितम् ॥ KK03-11-229-004c
षण्णां तु प्रवरं तस्य शीर्षाणामिह शब्द्यते । KK03-11-229-005a
शक्तिं येनासृजद्दिव्यां भद्रशाख इति स्म ह ॥ KK03-11-229-005c
इत्येतद्द्विविधाकारं वृत्तं शुक्लस्य पञ्चमीम् । KK03-11-229-006a
तत्र युद्धं महाघोरं वृत्तं षष्ठ्यां जनाधिप ॥ KK03-11-229-006c
उपविष्टं तु तं स्कन्दमामुक्तकवचस्रजम् । KK03-11-229-007a
हिरण्यचूडमुकुटं हिरण्याक्षं महाप्रभम् ॥ KK03-11-229-007c
लोहिताम्बरसंवीतं तीक्ष्णदंष्ट्रं मनोरमम् । KK03-11-229-008a
सर्वलक्षणसम्पन्नं त्रैलोक्यस्यापि सुप्रियम् ॥ KK03-11-229-008c
ततस्तं वरदं शूरं युवानं मृष्टकुण्डलम् । KK03-11-229-009a
अभजत्पद्मरूपा श्रीः स्वयमेव शरीरिणी ॥ KK03-11-229-009c
श्रिया जुष्टः पृथुयशाः स कुमारो वरस्तदा । KK03-11-229-010a
निषण्णो दृश्यते भूतैः पौर्णमास्यां यथा शशी ॥ KK03-11-229-010c
अपूजयन्महात्मानो ब्राह्मणास्तं महाबलम् ॥ KK03-11-229-011ac
इदमाहुस्तदा चैव स्कन्दं तत्र महर्षयः ॥ KK03-11-229-012ac
हिरण्यवर्ण भद्रं ते लोकानां शङ्करो भव । KK03-11-229-013a
त्वया षड्रात्रजातेन सर्वे लोका वशीकृताः ॥ KK03-11-229-013c
अभयं च पुनर्दत्तं त्वयैवैषां सुरोत्तम । KK03-11-229-014a
तस्मादिन्द्रो भवानस्तु त्रैलोक्यस्याभयङ्करः ॥ KK03-11-229-014c
स्कन्द उवाच KK03-11-229-015
किमिन्द्रः सर्वलोकानां करोतीह तपोधनाः । KK03-11-229-015a
कथं देवगणांश्चैव पाति नित्यं सुरेश्वरः ॥ KK03-11-229-015c
ऋषय ऊचुः KK03-11-229-016
इन्द्रो दधाति भूतानां बलं तेजः प्रजाः सुखम् । KK03-11-229-016a
तुष्टः प्रयच्छति तथा सर्वान्कामान्सुरेश्वरः ॥ KK03-11-229-016c
दुर्वृत्तानां संहरति व्रतस्थानां प्रयच्छति । KK03-11-229-017a
अनुशास्ति च भूतानि कार्येषु बलसूदनः ॥ KK03-11-229-017c
असूर्ये च भवेत्सूर्यस्तथाऽचन्द्रे च चन्द्रमाः । KK03-11-229-018a
भवत्यग्निश्च वायुश्च पृथिव्यापश्च खं तथा ॥ KK03-11-229-018c
एतदिन्द्रेण कर्तव्यमिन्द्रे हि विपुलं बलम् । KK03-11-229-019a
त्वं च वीर बली श्रेष्ठस्तस्मादिन्द्रो भवस्व नः ॥ KK03-11-229-019c
शक्र उवाच KK03-11-229-020
भवस्वेन्द्रो महाबाहो सर्वेषां नः सुखावहः । KK03-11-229-020a
अभिषिच्यस्व चैवाद्य प्राप्तरूपोऽसि सत्तम ॥ KK03-11-229-020c
स्कन्द उवाच KK03-11-229-021
शाधि त्वमेव त्रैलोक्यमव्यग्रो विजये रतः । KK03-11-229-021a
अहं ते किङ्करः शक्र न ममेन्द्रत्वमीप्सितम् ॥ KK03-11-229-021c
शक्र उवाच KK03-11-229-022
बलं तवाद्भुतं वीर त्वं देवानामरीञ्जहि । KK03-11-229-022a
अवज्ञास्यन्ति मां लोका वीर्यण तव विस्मिताः ॥ KK03-11-229-022c
इन्द्रत्वे तु स्थितं वीर बलहीनं पराजितम् । KK03-11-229-023a
'त्वत्तेजसाऽवमंस्यन्ति लोका मां सुरसत्तम' ॥ KK03-11-229-023c
आवयोश्च मिथो भेदे प्रयतिष्यन्त्यतन्द्रिताः । KK03-11-229-024a
भेदिते च त्वयि विभो लोको द्वैधमुपेष्यति ॥ KK03-11-229-024c
द्विधाभूतेषु लोकेषु निश्चितेष्वावयोस्तथा । KK03-11-229-025a
विग्रहः सम्प्रवर्तेत भूतभेदान्महाबल ॥ KK03-11-229-025c
तत्र त्वं मां रणे तात यथाश्रद्धं विजेष्यसि । KK03-11-229-026a
तस्मादिन्द्रो भवानेव भविता मा विचारय ॥ KK03-11-229-026c
स्कन्द उवाच KK03-11-229-027
त्वमेव राजा भद्रं ते त्रैलोक्यस्य ममैव च । KK03-11-229-027a
करोमि किं च ते शक्र शासनात्तद्ब्रवीहि मे ॥ KK03-11-229-027c
इन्द्र उवाच KK03-11-229-028
अहमिन्द्रो भविष्यामि तव वाक्यान्महाबल । KK03-11-229-028a
यदि सत्यमिदं वाक्यं निश्चयाद्भाषितं त्वया ॥ KK03-11-229-028c
यदि वा शासनं स्कन्द कर्तुमिच्छसि मे शृणु । KK03-11-229-029a
अभिषिच्यस्व देवानां सैनापत्ये महाबल ॥ KK03-11-229-029c
स्कन्द उवाच KK03-11-229-030
दानवानां विनाशाय देवानामर्थसिद्धये । KK03-11-229-030a
गोब्राह्मणहितार्थाय सैनापत्येऽभिषिञ्च माम् ॥ KK03-11-229-030c
मार्कण्डेय उवाच KK03-11-229-031
सोऽभिषिक्तो मघवता सर्वैर्देवगणैः सह । KK03-11-229-031a
अतीव शुशुभे तत्र पूज्यमानो महर्षिभिः ॥ KK03-11-229-031c
तत्र तत्काञ्चनं छत्रं ध्रियमाणं व्यरोचत । KK03-11-229-032a
तथैव सुसमिद्धस्य पावकस्यात्ममण्डलम् ॥ KK03-11-229-032c
विश्वकर्मकृता चास्य दिव्या माला हिरण्मयी । KK03-11-229-033a
आबद्धा त्रिपुरघ्नेन स्वयमेव यशस्विना ॥ KK03-11-229-033c
आगम्य मनुजव्याघ्र सह देव्या परन्तप । KK03-11-229-034a
अर्चयामास सुप्रीतो भगवान्गोवृषध्वजः ॥ KK03-11-229-034c
रुद्रमग्निं द्विजाः प्राहू रुद्रसूनुस्ततस्तु सः । KK03-11-229-035a
'कीर्त्यते सुमहातेजाः कुमारोऽद्भुतदर्शनः' ॥ KK03-11-229-035c
रुद्रेण शुक्रमुत्सृष्टं तच्छ्वेतः पर्वतोऽभवत् । KK03-11-229-036a
पावकस्येन्द्रियं श्वेते कृत्तिकाभिः कृतं नगे ॥ KK03-11-229-036c
पूज्यमानं तु रुद्रेण दृष्ट्वा सर्वे दिवौकसः । KK03-11-229-037a
रुद्रसूनुं ततः प्राहुर्गुहं गुणवतांवरम् ॥ KK03-11-229-037c
अनुप्रविश्य रुद्रेण वह्निं जातो ह्ययं शिशुः । KK03-11-229-038a
तत्र जातस्ततः स्कन्दो रुद्रसूनुस्ततोऽभवत् ॥ KK03-11-229-038c
रुद्रस्य वह्नेः स्वाहायाः षण्णां स्त्रीणां च तेजसा । KK03-11-229-039a
जातः स्कन्दः सुरश्रेष्ठो रुद्रसूनुस्ततोऽभवत् ॥ KK03-11-229-039c
अरजे वाससी रक्ते वसानः पावकात्मजः । KK03-11-229-040a
भाति दीप्तवपुः श्रीमान्रक्ताभ्राभ्यामिवांशुमान् ॥ KK03-11-229-040c
कुक्कुटश्चाग्निना दत्तस्तस्य केतुरलङ्कृतः । KK03-11-229-041a
रथे समुच्छ्रितो भाति कालाग्निरिव लोहितः ॥ KK03-11-229-041c
या चेष्टा सर्वभूतानां प्रभा शक्तिर्बलं तथा । KK03-11-229-042a
अग्रतस्तस्य सा शक्तिर्देवानां जयवर्धनी ॥ KK03-11-229-042c
विवेश कवचं चास्य शरीरं सहजं तथा । KK03-11-229-043a
युध्यमानस्य देवस्य प्रादुर्भवति तत्सदा ॥ KK03-11-229-043c
शक्तिर्धर्मो बलं तेजः कान्तत्वं सत्यमुन्नतिः । KK03-11-229-044a
ब्रह्मण्यत्वमसम्मोहो भक्तानां परिरक्षणम् ॥ KK03-11-229-044c
निकृन्तनं च शत्रूणां लोकानां चाभिरक्षणम् । KK03-11-229-045a
स्कन्देन सह जातानि सर्वाण्येव जनाधिप ॥ KK03-11-229-045c
एवं देवगणैः सर्वैः सोऽभिषिक्तः स्वलङ्कृतः । KK03-11-229-046a
बभौ प्रतीतः सुमनाः परिपूर्णेन्दुदर्शनः ॥ KK03-11-229-046c
इष्टैः स्वाध्यायघोषैश्च देवतूर्यवरैरपि । KK03-11-229-047a
देवगन्धर्वगीतैश्च सर्वैरप्सरसां गणैः ॥ KK03-11-229-047c
एतैश्चान्यैश्च बहुभिस्तुष्टैर्हृष्टैः स्वलङ्कृतः । KK03-11-229-048a
[सुसंवृतः पिशाचानां गणैर्देवगणैस्तथा ।] KK03-11-229-048c
क्रीडन्भाति तदा देवैरभिषिक्तश्च पावकिः ॥ KK03-11-229-048e
अभिषिक्तं महासेनमपश्यन्त दिवौकसः । KK03-11-229-049a
विनिहत्य तमः सूर्यं यथैवाभ्युदितं तथा ॥ KK03-11-229-049c
अथैनमभ्ययुः सर्वा देवसेनाः सहस्रशः । KK03-11-229-050a
अस्माकं त्वं पतिरिति ब्रुवाणाः सर्वतो दिशः ॥ KK03-11-229-050c
ताः समासाद्य भगवान्सर्वभूतगणैर्वृतः । KK03-11-229-051a
अर्चितस्तु स्तुतश्चैव सान्त्वयामास ता अपि ॥ KK03-11-229-051c
शतक्रतुश्चाभिषिच्य स्कन्दं सेनापतिं तदा । KK03-11-229-052a
सस्मार तां देवसेनां या सा तेन विमोक्षिता ॥ KK03-11-229-052c
अयं तस्याः पतिर्नूनं विहितो ब्रह्मणा स्वयम् । KK03-11-229-053a
सञ्चिन्त्य त्वानयामास देवसेनां ह्यलङ्कृताम् ॥ KK03-11-229-053c
स्कन्दं प्रोवाच बलभिदियं कन्या सुरोत्तम । KK03-11-229-054a
अजाते त्वयि निर्दिष्टा तव पत्नी स्वयम्भुवा ॥ KK03-11-229-054c
तस्मात्त्वमस्या विधिवत्पाणिं मन्त्रपुरस्कृतम् । KK03-11-229-055a
गृहाण दक्षिणं देव्याः पाणिना पद्मवर्चसा ॥ KK03-11-229-055c
एवमुक्तः स जग्राह तस्याः पाणिं यथाविधि । KK03-11-229-056a
बृहस्पतिर्मन्त्रविद्धि जजाप च जुहाव च ॥ KK03-11-229-056c
एवं स्कन्दस्य महिषीं देवसेनां विदुर्जनाः । KK03-11-229-057a
षष्ठीं यां ब्राह्मणाः प्राहुर्लक्ष्मीमासां सुखप्रदाम् ॥ KK03-11-229-057c
सिनीबालीं कुहूं चैव सद्वृत्तिमपराजिताम् । KK03-11-229-058a
'इत्येवमादिभिर्देवी नामभिः परिकीर्त्यते' ॥ KK03-11-229-058c
यदा स्कन्दः पतिर्लब्धः शाश्वतो देवसेनया । KK03-11-229-059a
तदा तमाश्रयल्लक्ष्मीः स्वयं देवी शरीरिणी ॥ KK03-11-229-059c
श्रीजुष्टः पञ्चमीस्कन्दस्तस्माच्छ्रीः पञ्चमी स्मृता । KK03-11-229-060a
षष्ठ्यां कृतार्थोऽभूद्यस्मात्तस्मात्षष्ठी महातिथिः ॥ KK03-11-229-060c

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि एकोनत्रिंशदधिकद्विशततमोऽध्यायः ॥ 229 ॥

3-229-27 शासनं तद्ब्रवीहि इति झ. पाठः ॥ 3-229-35 रुद्रमग्निमिति । रुद्रो वा एष यदग्निरिति श्रुतिविदो द्विजाः प्राहुः ॥ 3-229-38 अनुप्रविश्य स्थितेनेति शेषः ॥