अध्यायः 228

षडृषिभिर्लोकापवादभयात्स्वपत्नीनाम् परित्यागः ॥ 1 ॥ विश्वामित्रेण कुमारस्य जातकर्मादिना संस्करणम् ॥ 2 ॥ स्कन्दपराक्रमासहिष्णुना शक्रेण स्कन्देन सहाऽऽयोधनम् ॥ 3 ॥ इन्द्रवज्राभिहतात्स्कन्दस्य दक्षिणपार्श्वाद्विशाखस्य तथा कुमाराणां कन्यानाञ्च समुद्भवः ॥ 4 ॥ स्कन्दाद्भीतेनेन्द्रेण तेन सह सन्धानम् ॥ 5 ॥

मार्कण्डेय उवाच KK03-11-228-001
तस्मिञ्जाते महासत्त्वे महासेने महाबले । KK03-11-228-001a
समुत्तस्थुर्महोत्पाता घोररूपाः पृथग्विधाः ॥ 1 ॥ KK03-11-228-001c
स्त्रीपुंसोर्विपरीतं च तथा द्वन्द्वानि यानि च । KK03-11-228-002a
ग्रहा दीप्ता दिशः खं च ररास च मही भृशम् ॥ KK03-11-228-002c
ऋषयश्च महाघोरान्दृष्ट्वोत्पातान्समन्ततः । KK03-11-228-003a
अकुर्वञ्शान्तिमुद्विग्ना लोकानां लोकभावनाः ॥ KK03-11-228-003c
निवसन्ति वने ये तु तस्मिंश्चैत्ररथे जनाः । KK03-11-228-004a
तेऽब्रुवन्नेष नोऽनर्थः पावकेनाहृतो महान् । KK03-11-228-004c
सङ्गम्य षड्भिः पत्नीभिः सप्तर्षीणामिति स्म ह ॥ KK03-11-228-004e
अपरे गरुडीमाहुस्तयाऽनर्थोऽयमाहृतः । KK03-11-228-005a
यैर्दृष्टा सा तदा देवी तस्या रूपेण गच्छती ॥ KK03-11-228-005c
न तु तत्स्वाहया कर्म कृतं जानाति वै जनः ॥ KK03-11-228-006ac
सुपर्णी तु वचः श्रुत्वा ममायं तनयस्त्विति । KK03-11-228-007a
उपगम्य शनैः स्कन्दमाहाहं जननी तव ॥ KK03-11-228-007c
अथ सप्तर्षयः श्रुत्वा जातं पुत्रं महौजसम् । KK03-11-228-008a
तत्यजुः षट् तदा पत्नीर्विना देवीमरुन्धतीम् । KK03-11-228-008c
षड्भिरेव तदा जातमाहुस्तद्वनवासिनः ॥ KK03-11-228-008e
सप्तर्षीनाह च स्वाहा मम पुत्रोऽयमित्युत । KK03-11-228-009a
अहं हेतुर्नैतदेवमिति राजन्पुनः पुनः ॥ KK03-11-228-009c
विश्वामित्रस्तु कृत्वेष्टिं सप्तर्षीणां महामुनिः । KK03-11-228-010a
पावकं कामसन्तप्तमदृष्टः पृष्ठतोऽन्वगात् । KK03-11-228-010c
तत्तेन निखिलं सर्वमवबुध्य यथातथम् ॥ KK03-11-228-010e
विश्वामित्रस्तु प्रथमं कुमारं शरणं गतः । KK03-11-228-011a
स्तवं दिव्यं सम्प्रचक्रे महासेनस्य चापि सः ॥ KK03-11-228-011c
मङ्गलानि च सर्वाणि कौमाराणि त्रयोदश । KK03-11-228-012a
जातकर्मादिकास्तस्य क्रियाश्चक्रे महामुनिः ॥ KK03-11-228-012c
पड्वक्त्रस्य तु माहात्म्यं कुक्कुटस्य तु साधनम् । KK03-11-228-013a
शक्त्या देव्याः साधनं च तथा पारिषदामपि॥ KK03-11-228-013c
विश्वामित्रश्चकारैतत्कर्म लोकहिताय वै । KK03-11-228-014a
तस्मादृषिः कुमारस् विश्वामित्रोऽभवत्प्रियः ॥ KK03-11-228-014c
अन्वजानाच्च स्वाहाया रूपान्यत्वं महामुनिः । KK03-11-228-015a
अब्रवीच्च मुनीन्सर्वान्नापराध्यन्ति वै स्त्रियः । KK03-11-228-015c
श्रुत्वा तु तत्वतस्तस्मात्ते पत्नीः सर्वतोत्यजन् ॥ KK03-11-228-015e
मार्कण्डेय उवाच KK03-11-228-016
स्कन्दं श्रुत्वा तदा देवा वासवं सहिताऽब्रुवन् । KK03-11-228-016a
अविषह्यं बलं स्कन्दं जहि शक्राशु माचिर ॥ KK03-11-228-016c
यदि वा न निहंस्येनमद्येन्द्रोऽयं भविष्यति । KK03-11-228-017a
त्रैलोक्यं सन्निगृह्यास्मांस्त्वां च शक्र महाबल ॥ KK03-11-228-017c
स तानुवाच व्यथितो बालोऽयं सुमहाबलः । KK03-11-228-018a
स्रष्टारमपि लोकानां युधि विक्रम्य नाशयेत् । KK03-11-228-018c
[न बालमुत्सहे हन्तुमिति शक्रः प्रभाषते ॥ KK03-11-228-018e
तेऽब्रुवन्नास्ति ते वीर्यं यत एवं प्रभाषसे ।] KK03-11-228-019a
सर्वास्त्वद्याभिगच्छन्तु स्कन्दं लोकस्य मातरः ॥ KK03-11-228-019c
कामवीर्या घ्नन्तु चैनं तथेत्युक्त्वा च ता ययुः । KK03-11-228-020a
तमप्रतिबलं दृष्ट्वा विषण्णवदनास्तु ताः ॥ KK03-11-228-020c
अशक्योऽयं विचिन्त्यैवं तमेव शरणं ययुः । KK03-11-228-021a
ऊचुश्चैनं त्वमस्माकं पुत्रोऽस्माभिर्धृतं जगत् ॥ KK03-11-228-021c
अभिनन्द्य ततः सर्वाः प्रस्नुताः स्नेहविक्लबाः । KK03-11-228-022a
[तासां तद्वचनं श्रुत्वा पातुकामः स्तनान्प्रभुः] ॥ KK03-11-228-022c
ताः सम्पूज्य महासेनः कामांश्चासां प्रदाय सः । KK03-11-228-023a
अपश्यदग्निमायान्तं पितरं बलिनां बली ॥ KK03-11-228-023c
स तु सम्पूजितस्तेन सह मातृगणेन ह । KK03-11-228-024a
परिवार्य महासेनं रक्षमाणः स्थितः शिवः ॥ KK03-11-228-024c
सर्वासां या तु मातॄणां नारी क्रोधसमुद्भवा । KK03-11-228-025a
धात्री स्वपुत्रवत्स्कन्दं शूलहस्ताऽभ्यरक्षत ॥ KK03-11-228-025c
लोहितस्योदधेः कन्या क्रूरा लोहितभोजना । KK03-11-228-026a
परिष्वज्य महासेनं पुत्रवत्पर्यरक्षत ॥ KK03-11-228-026c
अग्निर्भूत्वा नैगमेयश्छागवक्त्रो बहुप्रजः । KK03-11-228-027a
रमयामास शैलस्तं बालं क्रीडनकैरिव ॥ KK03-11-228-027c
ब्रहाः सोपग्रहाश्चैव ऋषयो मातरस्तथा । KK03-11-228-028a
हुताशनमुखाश्चैव दृप्ताः पारिषदां गणाः ॥ KK03-11-228-028c
एते चान्ये च बहवो घोरास्त्रिदिववासिनः । KK03-11-228-029a
परिवार्य महासेनं स्थिता मातृगणैः सह ॥ KK03-11-228-029c
सन्दिग्धं विजयं दृष्ट्वा विजयेप्सुः सुरेश्वरः । KK03-11-228-030a
आरुह्यैरावतस्कन्धं प्रययौ दैवतैः सह ॥ KK03-11-228-030c
आदाय वज्रं बलवान्सर्वैर्देवगणैर्वृतः । KK03-11-228-031a
विजिघांसुर्महासेनमिन्द्रस्तूर्णतरं ययौ ॥ KK03-11-228-031c
'इन्द्रस्तस्य महावेगं दृष्ट्वाऽद्भुतपराक्रमम् । KK03-11-228-032a
विस्मितश्चाभवद्राजन्देवानीकमचोदयत् ॥ KK03-11-228-032c
उग्रं तं च महानादं देवानीकं महाप्रभम् । KK03-11-228-033a
विचित्रध्वजसन्नाहं नानावाहनकार्मुकम्' ॥ KK03-11-228-033c
प्रवराम्बरसंवीतं श्रिया जुष्टमलङ्कृतम् । KK03-11-228-034a
विजिघांसुं तमायान्तं कुमारः शक्रमन्वयात् ॥ KK03-11-228-034c
वियत्पतिः स शक्रस्तु द्रुतमायान्महाबलः । KK03-11-228-035a
संहर्षयन्देवसेनां जिघांसुः पावकात्मजम् ॥ KK03-11-228-035c
सम्पूज्यमानस्त्रिदशैस्तथैव परमर्षिभिः । KK03-11-228-036a
समीपमथ सम्प्राप्तो वह्निपुत्रस्य वासवः ॥ KK03-11-228-036c
सिंहनादं ततश्चक्रे देवेशः सहितैः सुरैः । KK03-11-228-037a
गुहोऽपिशब्दं तं श्रुत्वा व्यनदात्सागरो यथा ॥ KK03-11-228-037c
तस्य शब्देन महता समुद्धूतोदधिप्रभम् । KK03-11-228-038a
बभ्राम तत्रतत्रैव दैवसैन्यमचेतनम् ॥ KK03-11-228-038c
जिघांसूनुपसम्प्राप्तान्देवान्दृष्ट्वा सपावकिः । KK03-11-228-039a
विससर्ज मुखात्क्रुद्धः प्रवृद्धाः पावकार्चिषः ॥ KK03-11-228-039c
अदहद्देवसैन्यानि वेपमानानि भूतले ॥ KK03-11-228-040ac
ते प्रदीप्तशिरोदेहाः प्रदीप्तायुधवाहनाः । KK03-11-228-041a
प्रच्युताः सहसा भान्ति चित्रास्तारागणा इव ॥ KK03-11-228-041c
दह्यमानाः प्रपन्नास्ते शरणं पावकात्मजम् । KK03-11-228-042a
देवा वज्रधरं त्यक्त्वा ततः शान्तिमुपागताः ॥ KK03-11-228-042c
त्यक्तो देवैस्ततः स्कन्दे वज्रं शक्रो न्यपातयत् ॥ KK03-11-228-043ac
तद्विसृष्टं जघानाशु पार्श्वं स्कन्दस्य दक्षिणम् । KK03-11-228-044a
बिभेद च महाराज पार्श्वं तस्य महात्मनः ॥ KK03-11-228-044c
वज्रप्रहारात्स्कन्दस्य सञ्जातः पुरुषोऽपरः । KK03-11-228-045a
युवा काञ्चनसन्नाहः शक्तिधृग्दिव्यकुण्डलः ॥ KK03-11-228-045c
यद्वज्रविशनाज्जातो विशाखस्तेन सोऽभवत् ॥ KK03-11-228-046ac
तं जातमपरं दृष्ट्वा कालानलसमद्युतिम् । KK03-11-228-047a
भयादिन्द्रस्तु तं स्कन्दं प्राञ्जलिः शरणं गतः ॥ KK03-11-228-047c
तस्याभयं ददौ स्कन्दः सहसैन्यस्य सत्तम । KK03-11-228-048a
ततः प्रहृष्टास्त्रिदशा वादित्राण्यभ्यवादयन् ॥ KK03-11-228-048c
स्कन्दपारिषदान्घोराञ्छृणुष्वाद्भुतदर्शनान् । KK03-11-228-049a
वज्रप्रहारात्स्कन्दस्य जज्ञुस्तत्र कुमारकाः । KK03-11-228-049c
ये हरन्ति शिशूञ्जातान्गर्भस्थाश्चैव दारुणाः ॥ KK03-11-228-049e
वज्रप्रहारात्कन्याश्च जज्ञिरेऽस्य महाबलाः ॥ KK03-11-228-050ac
कुमारान्स विशाखं च पुत्रत्वे समकल्पयत् । KK03-11-228-051a
स भूत्वा भगवान्सङ्ख्ये रक्षंश्छागमुखस्तदा ॥ KK03-11-228-051c
वृतः कन्यागणैः सर्वैरात्मीयैः सह पुत्रकैः । KK03-11-228-052a
मातॄणां प्रेषितानां च भद्रशाखश्च कोमलैः ॥ KK03-11-228-052c
ततः कुमारं सञ्जातं स्कन्दमाहुर्जना भुवि । KK03-11-228-053a
रुद्रमग्निमुखां स्वाहां प्रदेशेषु महाबलाः ॥ KK03-11-228-053c
यजन्ति पुत्रकामाश्च पुत्रिणश्च सदा जनाः । KK03-11-228-054a
यास्तास्त्वजनयत्कन्यास्तपो नाम हुताशनः ॥ KK03-11-228-054c
किं करोमीति ताः स्कन्दं सम्प्राप्ताः समभाषयन् ॥ KK03-11-228-055ac
भवेम सर्वलोकस्य मातरो वयमुत्तमाः । KK03-11-228-056a
प्रसादात्तव पूज्याश्च प्रियमेतत्कुरुष्व नः ॥ KK03-11-228-056c
सोऽब्रवीद्बाढमित्येवं भविष्यध्वं पृथिग्विधाः । KK03-11-228-057a
शिवाश्चैवाशिवाश्चैव पुनःपुनरुदारधीः ॥ KK03-11-228-057c
'अग्निर्भूत्वा ततश्चैनं छागवक्त्रो बहुप्रजः । KK03-11-228-058a
रमयामास शैलस्थं बालं क्रीडनकैरिव' ॥ KK03-11-228-058c

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि अष्टाविंशत्यधिकद्विशततमोऽध्यायः ॥ 228 ॥

3-228-2 विपरीतं वैरम् । द्वन्द्वानि अतिशीतात्युष्णादीनि ॥ 3-228-15 श्रुत्वा तु ध्रुत्वापि । सर्वतः लोकापवादभयाद्रामवत्पत्नीस्त्यक्तवन्त इत्यर्थः । अथाव्रवीत्तान्सप्तर्षीन्युष्मत्पत्नीष्वयं शिशुः । षट्सु जातोहुवहात्ते चाग्रेस्त्वग्रतोत्यजन् । इति ध. पाठः ॥ 3-228-46 वज्रस्य विशनात् बाहोराखननाच्च विशाख इत्यर्थः ॥ 3-228-51 कुमारास्ते=पितृत्वे इति झ. पाठः ॥ 3-228-53 ततः कुमारपितरमिति झ. पाठः ॥