अध्यायः 227

स्वाहयाऽरुन्धतीवर्जं सप्तर्षिपत्नीसारूप्येणाग्निना सह रमणम् ॥ 1 ॥ ततो गारुडरूपस्वीकारेणाग्निरेतसां श्वेतपर्वतस्थकाञ्चनकुण्डे प्रक्षेपणम् ॥ 2 ॥ स्कन्नात्तद्रेतसः षण्मुखस्य सम्भवः ॥ ततस्तेन बाणैः क्रौञ्चगिरिविदारणपूर्वकं शक्त्या श्वेतगिरिशिखरविभेदनम् ॥ 4 ॥

मार्कण्डेय उवाच KK03-11-227-001
शिवा भार्या त्वङ्गिरसः शीलरूपगुणान्विता । KK03-11-227-001a
तस्याः सा प्रथमं रूपं कृत्वा देवी जनाधिप ॥ KK03-11-227-001c
जगाम पावकाभ्याशं तं चोवाच वराङ्गना । KK03-11-227-002a
मामग्ने कामसन्तप्तां त्वं कामयितुमर्हसि ॥ KK03-11-227-002c
करिष्यसि न चेदेवं मृतां मामुपधारय । KK03-11-227-003a
'तवाप्यधर्मः सुमहान्भविता वै हुताशन' ॥ KK03-11-227-003c
अहमङ्गिरसो भार्या शिवा नाम हुताशन । KK03-11-227-004a
सखीभिः सहिता प्राप्ता मन्त्रयित्वा विनिश्चयम् ॥ KK03-11-227-004c
अग्निरुवाच KK03-11-227-005
कथं मां त्वं विजानीषे कामार्तमितराः कथम् । KK03-11-227-005a
यास्त्वया कीर्तिताः सर्वाः सप्तर्षीणां प्रियाः स्त्रियः ॥ KK03-11-227-005c
शिवोवाच KK03-11-227-006
अस्माकं त्वं प्रियो नित्यं बिभीमस्तु वयं तव । KK03-11-227-006a
त्वच्चित्तमिङ्गितैर्ज्ञात्वा प्रेषिताऽस्मि तवान्तिकम् ॥ KK03-11-227-006c
मैथुनायेह सम्प्राप्ता कामाच्चैव द्रुतं च माम् । KK03-11-227-007a
'उपयन्तुं महावीर्य पूर्वमेव त्वमर्हसि' । KK03-11-227-007c
[जामयो मां प्रतीक्षन्ते गमिष्यामि हुताशन] ॥ KK03-11-227-007e
मार्कण्डेय उवाच KK03-11-227-008
ततोऽग्निरुपयेमे तां शिवां प्रीतिमुदायुतः । KK03-11-227-008a
प्रीत्या देवी समायुक्ता शुक्रं जग्राह पाणिना ॥ KK03-11-227-008c
साऽचिन्तयन्ममेदं ये रूपं द्रक्ष्यन्ति कानने । KK03-11-227-009a
ते ब्राह्मणीनामनृतं दोषं वक्ष्यन्ति पावके ॥ KK03-11-227-009c
तस्मादेतद्रक्षमाणा गरुडी सम्भवाम्यहम् । KK03-11-227-010a
वनान्निर्गमनं चैव सुखं मम भविष्यति ॥ KK03-11-227-010c
मार्कण्डेय उवाच KK03-11-227-011
सुपर्णी सा तदा भूत्वा निर्जगाम महावनात् । KK03-11-227-011a
अपश्यत्पर्वतं श्वेतं शरस्तम्बैः सुसंवृतम् ॥ KK03-11-227-011c
दृष्टीविषैः सप्तशीर्षैर्गुप्तं भोगिभिरद्भुतैः । KK03-11-227-012a
रक्षोभिश्च पिशाचैश्च रौद्रैर्भूतगणैस्तथा ॥ KK03-11-227-012c
राक्षसीभिश्च सम्पूर्णमनेकैश्च मृगद्विजैः । KK03-11-227-013a
'नदीप्रस्रवणोपेतं नानातरुलताचितम्' ॥ KK03-11-227-013c
सा तत्र सहसा गत्वा शैलपृष्ठं सुदुर्गमम् । KK03-11-227-014a
प्राक्षिपत्काञ्चने कुण्डे शुक्रं सा त्वरिता शुभा ॥ KK03-11-227-014c
शिष्टानामपि सा देवी सप्तर्षीणां महात्मनाम् । KK03-11-227-015a
पत्नीसरूपतां कृत्वा रमयामास पावकम् ॥ KK03-11-227-015c
दिव्यरूपमरुन्धत्याः कर्तुं न शकितं तया । KK03-11-227-016a
तस्यास्तपःप्रभावेण भर्तृशुश्रूषणेन च ॥ KK03-11-227-016c
षट्कृत्वस्तत्तु निक्षिप्तमग्ने रेतः कुरूत्तम । KK03-11-227-017a
तस्मिन्कुण्डे प्रतिपदि कामिन्या स्वाहया तदा ॥ KK03-11-227-017c
तत्स्कन्नं तेजसा तत्र संवृतं जनयत्सुतम् । KK03-11-227-018a
ऋषिभिः पूजितं स्कन्नमनयन्स्कन्दतां ततः ॥ KK03-11-227-018c
षट्शिरा द्विगुणश्रोत्रो द्वादशाक्षिभुजक्रमः । KK03-11-227-019a
एकग्रीवस्त्वेककायः कुमारः समपद्यत ॥ KK03-11-227-019c
द्वितीयायामभिव्यक्तस्तृतीयायां शिशुर्बभौ । KK03-11-227-020a
अङ्गप्रत्यङ्गसम्भूतश्चतुर्थ्यामभवद्गुहः ॥ KK03-11-227-020c
लोहिताभ्रेण महता संवृतः सह विद्युता । KK03-11-227-021a
लोहिताभ्रे सुमहति भाति सूर्य इवोदितः ॥ KK03-11-227-021c
गृहीतं तु धनुस्तेन विपुलं रोमहर्षणम् । KK03-11-227-022a
न्यस्तं यत्त्रिपुरघ्नेन सुरारिविनिकृन्तनम् ॥ KK03-11-227-022c
तद्गृहीत्वा धनुःश्रेष्ठं ननाद बलवांस्तदा । KK03-11-227-023a
सम्मोहयन्निमाल्ँलोकान्गुहस्त्रीन्सचराचरान् ॥ KK03-11-227-023c
तस् तं निनदं श्रुत्वा महामेघौघनिःस्वनम् । KK03-11-227-024a
उत्पेततुर्महानागौ चित्रश्चैरावतश्च ह ॥ KK03-11-227-024c
तावापतन्तौ सम्प्रेक्ष्य स बालोऽर्कसमद्युतिः । KK03-11-227-025a
द्वाभ्यां गृहीत्वा पाणिभ्यां शक्तिं चान्येन पाणिना ॥ KK03-11-227-025c
अपरेणाग्निदायादस्ताम्रचूडं भुजेन सः । KK03-11-227-026a
महाकायमुपश्लिष्टं कुक्कुटं बलिनां वरम् । KK03-11-227-026c
गृहीत्वा व्यनदद्भीमं चिक्रीड च महाभुजः ॥ KK03-11-227-026e
द्वाभ्यां भुजाभ्यां बलवान्गृहीत्वा शङ्खमुत्तमम् । KK03-11-227-027a
प्राध्मापयत भूतानां त्रासनं बलिनामपि । KK03-11-227-027c
द्वाभ्यां भुजाभ्यामाकाशं बहुशो निजघान ॥ KK03-11-227-027e
क्रीडन्भाति महासेनस्त्रींल्लोकान्वदनैः पिबन् । KK03-11-227-028a
पर्वताग्रेऽप्रमेयात्मा रश्मिमानुदये यथा ॥ KK03-11-227-028c
स तस्य पर्वतस्याग्रे निषण्णोऽद्भुतविक्रमः । KK03-11-227-029a
व्यलोकयदमेयात्मा मुखैर्नानाविधैर्दिशः ॥ KK03-11-227-029c
स पश्यन्विविधान्भावांश्चकार निनदं पुनः । KK03-11-227-030a
तस्य तं निनदं श्रुत्वा न्यपतन्बहुधा जनाः । KK03-11-227-030c
भीताश्चोद्विग्नमनसस्तमेव शरणं ययुः ॥ KK03-11-227-030e
ये तु तं संश्रिता देवं नानावर्णास्तदा जनाः । KK03-11-227-031a
तानप्याहुः पारिषदान्ब्राह्मणाः सुमहाबलान् ॥ KK03-11-227-031c
स तूत्थाय महाबाहुरुपसान्त्व्य च ताञ्जनान् । KK03-11-227-032a
धनुर्विकृष्य व्यसृजद्बाणाञ्श्वेते महागिरौ ॥ KK03-11-227-032c
विभेद स शरैः शैलं क्रौञ्चं हिमवतः सुतम् । KK03-11-227-033a
तेन हंसाश्च गृध्राश्च मेरुं गच्छन्ति पर्वतम् ॥ KK03-11-227-033c
स विशीर्णोऽपतच्छैलो भृशमार्तस्वरान्रुवन् ॥ KK03-11-227-034ac
तस्मिन्निपतिते त्वन्ये नेदुः शैला भृशं भयात् । KK03-11-227-035a
'घोरमार्तस्वरं चक्रुर्दृष्ट्वा क्रौञ्चं विदारितम्' ॥ KK03-11-227-035c
स तं नादं भृशार्तानां श्रुत्वाऽपि बलिनांवरः । KK03-11-227-036a
न प्राव्यधदमेयात्मा शक्तिमुद्यम्य चानदत् ॥ KK03-11-227-036c
सा तदा विमला शक्तिः क्षिप्ता तेन महात्मना । KK03-11-227-037a
बिभेद शिखरं घोरं श्वेतस्य तरसा गिरेः ॥ KK03-11-227-037c
स तेनाभिहतो दीर्णो गिरिः श्वेतोऽचलैः सह । KK03-11-227-038a
पलायत महीं त्यक्त्वा भीतस्तस्मान्महात्मनः ॥ KK03-11-227-038c
ततः प्रव्यथिता भूमिर्व्यशीर्यत समन्ततः । KK03-11-227-039a
आर्ता स्कन्दं समासाद्य पुनर्बलवती बभौ ॥ KK03-11-227-039c
पर्वताश्च नमस्कृत्य तमेव पृथिवीं गताः । KK03-11-227-040a
अथैनमभजल्लोकः स्कन्दं शुक्लस्य पञ्चमीम् ॥ KK03-11-227-040c

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि सप्तविंशत्यधिकद्विशततमोऽध्यायः ॥ 227 ॥

3-227-4 शिष्टाभिः प्रहिता प्राप्तेति झ. पाठः ॥ 3-227-9 ते ब्राह्मणीनामहितमिति झ. थ. पाठः ॥