अध्यायः 226

कन्यया इन्द्रम् प्रति स्वस्य दक्षपुत्रीत्वकथनपूर्वकम् भर्तृकामनानिवेदनम् ॥ 1 ॥ इन्द्रेण कन्याया उचितपतिम् प्रार्थितेन ब्रह्मणा कन्याभर्तुरनतिचिरभावित्वकथनपूर्वकं तस्यैव तत्सेनापतीभवनकथनम् ॥ 2 ॥ सप्तर्षिमखे तत्पत्नीनामवलोकनेन क्षुभितमनसाऽग्निना तासामलाभेन निर्वेदाद्वनम् प्रति गमनम् ॥ 3 ॥ चिरेणाग्निकामया स्वाहयाऽत्रावसरे सप्तर्षिपत्नीसमानरूपस्वीकारेणाग्निवशीकरणनिर्धारणम् ॥ 4 ॥

कन्योवाच KK03-11-226-001
अहं प्रजापतेः कन्या देवसेनेति विश्रुता । KK03-11-226-001a
भगिनी मे दैत्यसेना सा पूर्वं केशिना हृता ॥ KK03-11-226-001c
सहैवावां भगिन्यौ तु सखीभिः सह मानसम् । KK03-11-226-002a
आगच्छावो विहारार्थमनुज्ञाप्य प्रजापतिम् ॥ KK03-11-226-002c
नित्यं चावां प्रार्थयते हर्तुं केशी महासुरः । KK03-11-226-003a
इच्छत्येनं दैत्यसेना न चाहं पाकशासन ॥ KK03-11-226-003c
सा हृताऽनेन भगवान्मुक्ताऽहं त्वद्बलेन तु । KK03-11-226-004a
त्वया देवेन्द्र निर्दिष्टं पतिमिच्छामि दुर्जयम् ॥ KK03-11-226-004c
इन्द्र उवाच KK03-11-226-005
मम मातृष्वसेयी त्वं माता दाक्षायणी मम । KK03-11-226-005a
आख्यातुं त्वहमिच्छामि स्वयमात्मबलं त्वया ॥ KK03-11-226-005c
कन्योवाच KK03-11-226-006
अबलाऽहं महाबाहो पतिस्तु बलवान्मम । KK03-11-226-006a
वरदानात्पितुर्भावी सुरासुरनमस्कृतः ॥ KK03-11-226-006c
इन्द्र उवाच KK03-11-226-007
कीदृशं तु बलं देवि पत्युस्तव भविष्यति । KK03-11-226-007a
एतदिच्छाम्यहं श्रोतुं तव वाक्यमनिन्दिते ॥ KK03-11-226-007c
कन्योवाच KK03-11-226-008
देवदानवयक्षाणां किन्नरोरगरक्षसाम् । KK03-11-226-008a
जेता यो दुष्टदैत्यानां महावीर्यो महाबलः ॥ KK03-11-226-008c
यस्तु सर्वाणि भूतानि त्वया सह विजेष्यति । KK03-11-226-009a
स हि मे भविता भर्ता ब्रह्मण्यः कीर्तिवर्धनः ॥ KK03-11-226-009c
मार्कण्डेय उवाच KK03-11-226-010
इन्द्रस्तस्या वचः श्रुत्वा दुःखितोऽचिन्तयद्भृशम् । KK03-11-226-010a
अस्या देव्याः पतिर्नास्ति यादृशं सम्प्रभाषते ॥ KK03-11-226-010c
अथापश्यत्स उदये भास्करं भास्करद्युतिः । KK03-11-226-011a
सोमं चैव महाभागं प्रविशन्तं दिवाकरम् ॥ KK03-11-226-011c
अमावास्यां प्रवृत्तायां मुहूर्ते रौद्र एव तु । KK03-11-226-012a
देवासुरं च सङ्ग्रामं सोऽपश्यदुदये गिरौ ॥ KK03-11-226-012c
लोहितैश्च घनैर्युक्तां पूर्वां सन्ध्यां शतक्रतुः । KK03-11-226-013a
अपश्यल्लोहितोदं च मघवान्वरुणालयम् ॥ KK03-11-226-013c
भृगुभिश्चाङ्गिरोभ्यश्च हुतं मन्त्रैः पृथग्विधैः । KK03-11-226-014a
हव्यं गृहीत्वा वह्निं च प्रविशन्तं दिवाकरम् ॥ KK03-11-226-014c
पर्व चैव चतुर्विंशं तदा सूर्यमुपस्थितम् । KK03-11-226-015a
तथा सूर्यं वह्नि गतं सोमं सूर्यगतं च तम् ॥ KK03-11-226-015c
समालोक्यैकतामेव शशिनो भास्करस्य च । KK03-11-226-016a
समवायं तु तं रौद्रं दृष्ट्वा शक्रोऽन्वचिन्तयत् ॥ KK03-11-226-016c
सूर्याचन्द्रमसोर्घोरं दृश्यते परिवेषणम् । KK03-11-226-017a
एतस्मिन्नेव रात्र्यन्ते महद्युद्धं तु शंसति ॥ KK03-11-226-017c
सरित्सिन्धुरपीयं तु प्रत्यसृग्वाहिनी भृशम् । KK03-11-226-018a
शृगालिन्यग्निवक्त्रा च प्रत्यादित्यं विराविणी ॥ KK03-11-226-018c
एष रौद्रश्च सङ्घातो महान्युक्तश्च तेजसा । KK03-11-226-019a
सोमस्य वह्निसूर्याभ्यामद्भुतोऽयं समागमः ॥ KK03-11-226-019c
जनयेद्यं सुतं सोमः सोऽस्या देव्याः पतिर्भवेत् । KK03-11-226-020a
अथानेकैर्गुणैश्चाग्निरग्निः सर्वाश्च देवताः ॥ KK03-11-226-020c
एष चेज्जनयेद्गर्भं सोऽस्या देव्याः पतिर्भवेत् । KK03-11-226-021a
एवं सञ्चिन्त्य भगवान्ब्रह्मलोकं तदा गतः ॥ KK03-11-226-021c
गृहीत्वा देवसेनां तां ववन्दे स पितामहम् । KK03-11-226-022a
उवाच चास्या देव्यास्त्वं साधु शूरं पतिं दिशा ॥ KK03-11-226-022c
ब्रह्मोवाच KK03-11-226-023
यथैतच्चिन्तितं कार्यं त्वया दानवसूदन । KK03-11-226-023a
तथा स भविता गर्भो बलवानुरुविक्रमः ॥ KK03-11-226-023c
स भविष्यति सेनानीस्त्वया सह शतक्रतो । KK03-11-226-024a
अस्या देव्याः पतिश्चैव स भविष्यति वीर्यवान् ॥ KK03-11-226-024c
एतच्छ्रुत्वा नमस्तस्मै कृत्वाऽसौ सह कन्यया । KK03-11-226-025a
तत्राभ्यगच्छद्देवेन्द्रो यत्र सप्तर्षयोऽभवन् ॥ KK03-11-226-025c
वसिष्ठप्रमुखा मुख्या विप्रेन्द्राः सुमहाप्रभाः । KK03-11-226-026a
भागार्थं तपसोपात्तं तेषां सोमं तथाऽध्वरे ॥ KK03-11-226-026c
पिपासवो ययुर्देवाः शतक्रतुपुरोगमाः । KK03-11-226-027a
इष्टिं कृत्वा यथान्यायं सुसमिद्धे हुताशने ॥ KK03-11-226-027c
जुहुवुस्ते महात्मानो हव्यं सर्वदिवौकसाम् । KK03-11-226-028a
समाहूतो हुतवहः सोऽद्भुतः सूर्यमण्डलात् ॥ KK03-11-226-028c
विनिःसृत्य ययौ वह्निः पार्श्वतो विधिवत्प्रभुः । KK03-11-226-029a
आगम्याहवनीयं वै तैर्द्विजैर्मन्त्रतो हुतम् ॥ KK03-11-226-029c
स तत्र विविधं हव्यं प्रतिगृह्य हुताशनः । KK03-11-226-030a
ऋषिभ्यो भरतश्रेष्ठ प्रायच्छत दिवौकसाम् ॥ KK03-11-226-030c
निष्क्रामंश्चाप्यपश्यत्स पत्नीस्तेषां महात्मनाम् । KK03-11-226-031a
स्वेष्वासनेषूपविष्टाः स्नायन्तीश्च यथासुखम् ॥ KK03-11-226-031c
रुक्मवेदिनिभास्तास्तु चन्द्रलेखा इवामलाः । KK03-11-226-032a
हुताशनार्चिःप्रतिमाः सर्वास्तारा इवाद्भुताः ॥ KK03-11-226-032c
स तत्र तेन मनसा बभूव क्षुभितेन्द्रियः । KK03-11-226-033a
पत्नीर्दृष्ट्वा द्विजेन्द्राणां वह्निः कामवशं ययौ ॥ KK03-11-226-033c
भूयः सञ्चिन्तयामास न न्याय्यं क्षुभितो ह्यहम् । KK03-11-226-034a
साध्व्यः पत्न्यो द्विजेन्द्राणामकामाः कामयाम्यहम् ॥ KK03-11-226-034c
नैताः शक्या मया द्रष्टुं स्प्रष्टुं वाऽप्यनिमित्ततः । KK03-11-226-035a
गार्हपत्यं समाविश्य तस्मात्पश्याम्यभीक्ष्णशः ॥ KK03-11-226-035c
मार्कण्डेय उवाच KK03-11-226-036
संस्पृशन्निव सर्वास्ताः शिखाभिः काञ्चनप्रभाः । KK03-11-226-036a
पश्यमानश्च मुमुदे गार्हपत्यं समाश्रितः ॥ KK03-11-226-036c
निरुष्य तत्र सुचिरमेवं वह्निर्वनं गतः । KK03-11-226-037a
मनस्तासु विनिक्षिप्य कामयानो वराङ्गनाः ॥ KK03-11-226-037c
कामसन्तप्तहृदयो देहत्यागे विनिश्चितः । KK03-11-226-038a
अलाभे ब्राह्मणस्त्रीणामग्निर्वनमुपागमत् ॥ KK03-11-226-038c
स्वाहा तं दक्षदुहिता प्रथमाऽकामयत्तदा । KK03-11-226-039a
सा तस्य च्छिद्रमन्वैच्छच्चिरात्प्रभृति भामिनी । KK03-11-226-039c
अप्रमत्तस्य देवस्य न च पश्यत्यनिन्दिता ॥ KK03-11-226-039e
सा तं ज्ञात्वा यथावत्तु वह्निं वनमुपागतम् । KK03-11-226-040a
तत्त्वतः कामसन्तप्तं चिन्तयामास भामिनी ॥ KK03-11-226-040c
अहं सप्तर्षिपत्नीनां कृत्वा रूपाणि पावकम् । KK03-11-226-041a
कामयिष्यामि कामार्तं तासां रूपेण मोहितम् । KK03-11-226-041c
एवं कृते प्रीतिरस्य कामावाप्तिश्च मे भवेत् ॥ KK03-11-226-041e

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि षड्विंशत्यधिकद्विशततमोऽध्यायः ॥ 226 ॥

3-226-12 अप्यमावस्यमावासी चामामास्यप्यमामसीति शब्दार्णवः ॥ 3-226-20 अग्निश्च तैर्गुणैर्युक्तः सर्वैरग्निश्च देवतेति झ. पाठः ॥