अध्यायः 225
मार्कण्डेयेन युदिष्ठिरम् प्रति कुमारोत्पत्तिप्रकारकथनारम्भः ॥ 1 ॥ देवसेनानां नायकसम्पादनाय चिन्तयता इन्द्रेण मानसशैले कस्याश्चित्कन्याया अवलोकनम् तस्याः कुलचिकीर्षितादिप्रश्नश्च ॥ 2 ॥
मार्कण्डेय उवाच KK03-11-225-001
अग्नीनां विविधा वंशाः कीर्तितास्ते मयाऽनघ । KK03-11-225-001a
शृणु जन्म तु कौरव्य कार्तिकेयस्य धीमतः ॥ KK03-11-225-001c
अद्भुतस्याद्भुतं पुत्रं प्रवक्ष्याम्यमितौजसम् । KK03-11-225-002a
जातं सप्तर्षिभार्याभिर्ब्रह्मण्यं कीर्तिवर्धनम् ॥ KK03-11-225-002c
देवासुराः पुरा यत्ता विनिघ्नन्तः परस्परम् । KK03-11-225-003a
तत्राजयन्सदा देवान्दानवा घोररूपिणः ॥ KK03-11-225-003c
वध्यमानं बलं दृष्ट्वा बहुशस्तैः पुरन्दरः । KK03-11-225-004a
स सैन्यनायकार्थाय चिन्तयामास वासवः ॥ KK03-11-225-004c
देवसेनां दानवैर्हि भग्नां दृष्ट्वा महाबलः । KK03-11-225-005a
पालयेद्वीर्यमाश्रित्य स ज्ञेयः पुरुषो मया ॥ KK03-11-225-005c
स शैलं मानसं गत्वा ध्यायन्नर्थमिमं भृशम् । KK03-11-225-006a
शुश्रावार्तस्वरं घोरमथ मुक्तं स्त्रिया तदा ॥ KK03-11-225-006c
अभिधावतु मां कश्चित्पुरुषस्त्रातु चैव ह । KK03-11-225-007a
पतिं च मे प्रदिशतु स्वयं वा पतिरस्तु मे ॥ KK03-11-225-007c
पुरन्दरस्तु तामाह मा भैर्नास्ति भयं तव । KK03-11-225-008a
एवमुक्त्वा ततोऽपश्यत्केशिनं स्थितमग्रतः ॥ KK03-11-225-008c
किरीटिनं गदापाणिं धातुमन्तमिवाचलम् । KK03-11-225-009a
हस्ते गृहीत्वा कन्यां तामथैनं वासवोऽब्रवीत् ॥ KK03-11-225-009c
अनार्यकर्मन्कस्मात्त्वमिमां कन्यां जिहीर्षसि । KK03-11-225-010a
वज्रिणं मां विजानीहि विरमास्याः प्रबाधनात् ॥ KK03-11-225-010c
केश्युवाच KK03-11-225-011
विसृजस्व त्वमेवैनां शक्रैषा प्रार्थिता मया । KK03-11-225-011a
क्षमं ते जीवतो गन्तुं स्वपुरं पाकशासन ॥ KK03-11-225-011c
एवमुक्त्वा गदां केशी चिक्षेपेन्द्रवधाय वै । KK03-11-225-012a
तामापतन्तीं चिच्छेद मध्ये वज्रेण वासवः ॥ KK03-11-225-012c
अथास्य शैलशिखरं केशी क्रुद्धो व्यवासृजत् । KK03-11-225-013a
'महामेघप्रतीकाशं चलत्पावकसङ्कुलम् ॥ KK03-11-225-013c
तदापन्ततं सम्प्रेक्ष्य शैलशृङ्गं शतक्रतुः । KK03-11-225-014a
बिभेद राजन्वज्रेण भुवि तन्निपपात ह ॥ KK03-11-225-014c
पतता तु तदा केशी तेन शृङ्गेण ताडितः । KK03-11-225-015a
हित्वा कन्यां महाभागां प्राद्रवद्भृशपीडितः ॥ KK03-11-225-015c
अपयातेऽसुरे तस्मिंस्तां कन्यां वासवोऽब्रवीत् । KK03-11-225-016a
कासि कस्यासि किं चेह कुरुषे त्वं शुभानने ॥ KK03-11-225-016c
इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि पञ्चविंशत्यधिकशततमोऽध्यायः ॥ 225 ॥
3-225-2 अद्भुतस्याग्नेः । अद्भुतम् अभिवनम् ॥ 3-225-6 स्त्रिया देवसेनाभिमानिदेवतया ॥