अध्यायः 224

मार्कण्डेयेन युधिष्ठिरम्प्रत्यग्निवंशादिकीर्तनम् ॥ 1 ॥

मार्कण्डेय उवाच KK03-11-224-001
आपस्य मुदिता भार्या सा चास्य परमाप्रिया । KK03-11-224-001a
भूपतिं भूतकर्तारं जनयामास पावकम् ॥ KK03-11-224-001c
भूतानां साऽपि सर्वेषां यं प्राहुः पावकं पतिम् । KK03-11-224-002a
आत्मा भुवनकर्ता च सोऽध्वरेषु द्विजातिभिः ॥ KK03-11-224-002c
महतां चैव भूतानां सर्वेषामिह यः पतिः । KK03-11-224-003a
भगवान्स महातेजा नित्यं चरति पावकः ॥ KK03-11-224-003c
अग्निर्गृहपतिर्नाम नित्यं यज्ञेषु पूज्यते । KK03-11-224-004a
आज्यं वहति यो हव्यं सर्वलोकस्य पावकः ॥ KK03-11-224-004c
अपाङ्गर्भो महाभागः सत्वभुग्यो महाद्भुतः । KK03-11-224-005a
भूपतिर्भूतकर्ता च महतः पतिरुच्यते ॥ KK03-11-224-005c
मता वहन्तो हव्यानि तस्याग्नेरग्रजाऽभवन् । KK03-11-224-006a
अग्निष्टोमस्तु नियतः क्रतुश्रेष्ठो भवत्युत ॥ KK03-11-224-006c
[स वह्निः प्रथमो नित्यं देवैरन्विष्यते प्रभुः] । KK03-11-224-007a
आयान्तं नियतं दृष्ट्वाप्रविवेशार्णवं भयात् ॥ KK03-11-224-007c
देवास्तं नाधिगच्छन्ति मार्गमाणा यथातथम् । KK03-11-224-008a
दृष्ट्वा त्वग्निरथर्वाणं ततो वचनमब्रवीत् ॥ KK03-11-224-008c
देवानां वह हव्यं त्वमहं वीर सुदुर्बलः । KK03-11-224-009a
अथ त्वं गच्छ मध्वक्षं प्रियमेतत्कुरुष्व मे ॥ KK03-11-224-009c
प्रेष्य चाग्निरथर्वाणमन्यं देशं ततोऽगमत् । KK03-11-224-010a
मत्स्यास्तस्य समाचख्युः क्रुद्धस्तानग्निरब्रवीत् । KK03-11-224-010c
भक्ष्या वै विविधैर्भावैर्भविष्यथ शरीरिणाम् ॥ KK03-11-224-010e
अथर्वाणं तथा चापि हव्यवाहोऽब्रवीद्वचः ॥ KK03-11-224-011ac
अनुनीयमानो हि भृशं देववाक्यान्वितेन सः । KK03-11-224-012a
नैच्छद्वोढुं हविः सर्वं शरीरं चापि सोऽत्यजत् ॥ KK03-11-224-012c
स तच्छरीरं सन्त्यज्य प्रविवेश धरां तदा । KK03-11-224-013a
भूमिं स्पृष्ट्वाऽसृजद्भ्रातून्पृथक्पृथगतीव हि ॥ KK03-11-224-013c
आस्यात्सुगन्धं तेजश्च अस्थिभ्यो देवदारु च । KK03-11-224-014a
श्लेष्मणः स्फाटिकं तस्य पित्तान्मारकतं तथा ॥ KK03-11-224-014c
वातात्कृष्णायसं तस्य त्रिभिरेतैर्बहु प्रजाः । KK03-11-224-015a
त्वचस्तस्याभ्रपटलं स्नायुजं चापि विद्रुमम् ॥ KK03-11-224-015c
शरीरास्थिविधाश्चान्ये धातवोऽस्याभवन्नृप । KK03-11-224-016a
एवं कृत्वा शरीरं च परमे तपसि स्थितः ॥ KK03-11-224-016c
भृग्वङ्गिरादिभिर्भूयस्तपसोत्थापितस्तदा । KK03-11-224-017a
भृशं जज्वाल तेजस्वी तपसाऽऽप्यायितः शिखी ॥ KK03-11-224-017c
दृष्ट्वा ऋषीन्भयाच्चापि प्रविवेश महार्णवम् । KK03-11-224-018a
तस्मिन्नष्टे जगद्भीतमथर्वाणमथाश्रितम् । KK03-11-224-018c
अर्चयामासुरेवैनमथर्वाणं सुरादयः ॥ KK03-11-224-018e
अथर्वाणं श्रिताल्ँलोकानात्मन्यालोच्य पावकः । KK03-11-224-019a
मिषतां सर्वभूतानामुन्ममज्ज महार्णवात् ॥ KK03-11-224-019c
एवमग्निर्भगवता नष्टः पूर्वमथर्वणा । KK03-11-224-020a
आहूतः सर्वभूतानां हव्यं वहति सर्वदा ॥ KK03-11-224-020c
एवं त्वजनयद्धिष्ण्यान्वेदोक्तान्विबुधान्बहून् । KK03-11-224-021a
विचरन्विविधान्देशान्भ्रममाणस्तु तत्र वै ॥ KK03-11-224-021c
सिन्धुवर्ज्याः पञ्च नद्यो देविकाऽथ सरस्वती । KK03-11-224-022a
गङ्गा च शतकुम्भा च सरयू गण्डसाह्वया ॥ KK03-11-224-022c
चर्मण्वती मही चैव मेध्या मेधासृतिस्तदा । KK03-11-224-023a
इरावती वेत्रवती नद्यस्तिस्रोऽथ कौशिकी ॥ KK03-11-224-023c
तमसा नर्मदा चैव नदी गोदावरी तथा । KK03-11-224-024a
वेण्णा प्रवेणी भीमा च मरुदा चैव भारत ॥ KK03-11-224-024c
भारती सुप्रयोगा च कावेरी मज्जुरा तथा । KK03-11-224-025a
तुङ्गवेणा कृष्णवेणा कपिला शोण एव च ॥ KK03-11-224-025c
एता नद्यस्तु धिष्ण्यानां मातरो याः प्रकीर्तिताः ॥ KK03-11-224-026ac
अद्भुतस्य प्रिया भार्या तस्याः पुत्रो विडूरथः । KK03-11-224-027a
यावन्तः पावकाः प्रोक्ताः सोमास्तावन्त एव तु ॥ KK03-11-224-027c
अत्रेश्चाप्यन्वये जाता ब्रह्मणो मानसाः प्रजाः । KK03-11-224-028a
अग्निः पुत्रान्स्रष्टुकामस्तानेवात्मन्यधारयत् ॥ KK03-11-224-028c
तस्य तद्ब्रह्मणः कायान्निर्हरन्ति हुताशनाः । KK03-11-224-029a
एवमेते महात्मानः कीर्तितास्तेऽग्नयो यथा ॥ KK03-11-224-029c
अप्रमेया यथोत्पन्नाः श्रीमन्तस्तिमिरापहाः । KK03-11-224-030a
अद्भुतस्त तु माहात्म्यं यथा वेदेषु कीर्तितम् ॥ KK03-11-224-030c
तादृशं विद्धि सर्वेषामेको ह्येषु हुताशनः । KK03-11-224-031a
एक एवैष भगवान्विज्ञेयः प्रथमोऽङ्गिराः ॥ KK03-11-224-031c
बहुधा निःसृतः कायाज्ज्योतिष्टोमः क्रतुर्यथा । KK03-11-224-032a
इत्येष वंशः सुमहानग्नीनां कीर्तितो मया । KK03-11-224-032c
पावको विविधैर्मन्त्रैर्हव्यं वहति देहिनाम् ॥ KK03-11-224-032e

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि चतुर्विंशत्यधिकद्विशततमोऽध्यायः ॥ 224 ॥

3-224-8 अथर्वाणमङ्गिरसं तीव्रतपसं दृष्ट्वा ॥ 3-224-9 गच्छ मा द्वेषमिति ध. पाठः. मध्वक्षं पिङ्गाक्षमग्निम् । भावप्रधानो निर्देशः. तथाच निक्षिपाम्यहमग्नित्वं त्वमग्निः प्रथमो भवेत्युपक्रमस्योपसंहारेण सहैकवाक्यता भवति ॥ 3-224-10 प्रेष्य आदिश्य ॥ 3-224-11 तथाचापि तथैव मत्स्यैराख्यातोपि । वचस्त्वं मध्वक्षो भवेति पूर्वोक्तमेव ॥ 3-224-13 धातून् मनःशिलादीन् ॥ 3-224-15 यत्कृष्णायसं = त्रिभिरेव बभुः प्रजाः । नखास्तस्याभ्रपटलं शिराजालानि विद्रुमम् । इति झ. पाठः ॥ 3-224-16 शरीराद्विविधाश्चान्ये=एवं त्यक्त्वा शरीरम् इति झ. पाठः । अन्ये स्वर्णपारदादयः ॥ 3-224-17 तपसा सामर्थ्येन । उत्थापितः समाधेश्च्यावितः ॥ 3-224-19 अथर्वा त्वसृजल्लोकानात्मना लोक्यपावकम् । =अन्ममाथ महार्णवमिति झ. पाठः ॥ 3-224-21 एवन्त्विति । अग्नेरङ्गिरास्ततो बृहस्पतिस्तः शंय्वादिक्रमेण वेदोक्तान् धिष्ण्यान् नानास्थानानि अजनयत् ॥ 3-224-27 यावन्तः पावका धिष्ण्याः सन्ति तावन्तः सोमाः सोमयागाः ॥ 3-224-32 योर्चितो विविधैः इति झ. पाठः ॥