अध्यायः 223

मार्कण्डेयेन युधिष्ठिरम् प्रति विस्तरेणाग्नीनां वंशकथनम् ॥ 1 ॥

मार्कण्डेय उवाच KK03-11-223-001
गुरुभिर्नियमैर्युक्तो भरतो नाम पार्थिव । KK03-11-223-001a
अग्निः पुष्टिमतिर्नाम तुष्टः पुष्टिं प्रयच्छति ॥ KK03-11-223-001c
'सततं भरतश्रेष्ठ पावकोयं महाप्रभः' । KK03-11-223-002a
अग्निर्यश्च शिवो नाम शक्तिपूजायनिश्च सः । KK03-11-223-002c
दुःखार्तानां स सर्वेषां शिवकृत्सततं शिवः ॥ KK03-11-223-002e
तपसस्तु फलं दृष्ट्वा सम्प्रवृत्तं तपोमयम् । KK03-11-223-003a
उद्धर्तुकामो मतिमान्पुत्रो जज्ञे पुरन्दरः ॥ KK03-11-223-003c
उष्मा चैवोष्मणो जज्ञे सोऽग्निर्भूतेषु लक्ष्यते । KK03-11-223-004a
अग्निश्चापि मनुर्नाम प्राजापत्यं सकारणम् ॥ KK03-11-223-004c
शम्भुमग्निमथ प्राहुर्ब्राह्मणा वेदपारगाः । KK03-11-223-005a
आवसथ्यं द्विजाः प्राहुर्दीप्तमग्निं महाप्रभम् ॥ KK03-11-223-005c
ऊर्जस्करान्हव्यवाहान्सुवर्णसदृशप्रभान् । KK03-11-223-006a
अग्निस्तपो ह्यजनयत्पञ्च यज्ञसुतानिह ॥ KK03-11-223-006c
प्रततोऽग्निर्महाभाग परिश्रान्तो गवाम्पतिः । KK03-11-223-007a
असुराञ्जनयन्घोरान्मर्त्यांश्चैव पृथिग्विधान् ॥ KK03-11-223-007c
तपसश्च मनुं पुत्रं भानुं चाप्यङ्गिराः सृजत् । KK03-11-223-008a
बृहद्भानुं तु तं प्राहुर्ब्राह्मणा वेदपारगाः ॥ KK03-11-223-008c
भानोर्भार्या महाराज बृहद्भासा तु सोमजा । KK03-11-223-009a
षट्पुत्राञ्जनयामास तदा सा कन्यया सह । KK03-11-223-009c
भानोराङ्गिरसस्याथ शृणु तस्य प्रजाविधिम् ॥ KK03-11-223-009e
दुर्बलानां तु भूतानामसून्यः सम्प्रयच्छति । KK03-11-223-010a
तमग्निं बलदं प्राहुः प्रथमं भानुजं सुतम् ॥ KK03-11-223-010c
यः प्रशान्तेषु भूतेषु मन्युर्भवति दारुणः । KK03-11-223-011a
अग्निः स मन्युमान्नाम द्वितीयो भानुजः सुतः ॥ KK03-11-223-011c
दर्शे च पौर्णमासे च यस्येह हविरुच्यते । KK03-11-223-012a
विष्णुर्नामेह योऽग्निस्तु धृतिमान्नाम सोङ्गिराः ॥ KK03-11-223-012c
इन्द्रेण सहितं यस्य हविराग्रयणं स्मृतम् । KK03-11-223-013a
अग्निराग्रयणो नाम भानोरेवान्वयस्तु सः ॥ KK03-11-223-013c
चातुर्मास्येषु नित्यानां हविषां यो निरग्रहः । KK03-11-223-014a
चतुर्भिः सहितः पुत्रैर्भानोरेवान्वयस्तु सः ॥ KK03-11-223-014c
निशां त्वजनयत्कन्यामग्नीषोमावुभौ तथा । KK03-11-223-015a
मनोरेवाभवद्भार्या सुषुवे पञ्च पावकान् ॥ KK03-11-223-015c
पूज्यते हविषा योऽग्रे चातुर्मास्येषु पावकः । KK03-11-223-016a
पर्जन्यसहितः श्रीमानग्निर्वैश्वानरस्तु सः ॥ KK03-11-223-016c
अस्य लोकस्य सर्वस्य यः प्रभुः परिपठ्यते । KK03-11-223-017a
सोऽग्निर्विश्वपतिर्नाम द्वितीयस्तापसः सुतः ॥ KK03-11-223-017c
कन्या या हरिणी नाम हिरण्यकशिपोः सुता । KK03-11-223-018a
कर्मणाऽसौ बभौ भार्या स वह्निः स प्रजापतिः । KK03-11-223-018c
प्राणानाश्रित्य यो देहं प्रवर्तयति देहिनाम् । KK03-11-223-019a
तस्य सन्निहितो नाम शब्दरूपस्य साधनः ॥ KK03-11-223-019c
शुक्लं कृष्णं वपुर्देवो यो बिभर्ति हुताशनः । KK03-11-223-020a
अकल्मषः कल्मषाणां कर्ता क्रोधाश्रितस्तु सः ॥ KK03-11-223-020c
कपिलं परमर्षिं च यं प्राहुर्यतयः सदा । KK03-11-223-021a
अग्निः स कपिलो नाम साङ्ख्ययोगप्रवर्तकः ॥ KK03-11-223-021c
योऽन्तर्यच्छति भूतानि येन चेष्टन्ति नित्यदा । KK03-11-223-022a
कर्मस्विह विचित्रेषु सोऽग्रणीर्वह्निरुच्यते ॥ KK03-11-223-022c
इमामन्यान्समसृजत्पावकान्प्रथितौजसः । KK03-11-223-023a
अग्निहोत्रस्य दुष्टस्य प्रायश्चित्तार्थमुल्बणान् ॥ KK03-11-223-023c
संस्पृशेयुर्यदाऽन्योन्यं कथञ्चिद्वायुनाऽग्नयः । KK03-11-223-024a
इष्टिरष्टाकपालेन कार्या वै शुचयेऽग्नये ॥ KK03-11-223-024c
दक्षिणाग्निर्यदा द्वाभ्यां संसृजेत तदा किल । KK03-11-223-025a
इष्टिरष्टाकपालेन कार्या वै वीतयेऽग्नये ॥ KK03-11-223-025c
यद्यग्नयो हि स्पृश्येयुर्निवेशस्था दवाग्निना । KK03-11-223-026a
इष्टरष्टाकपालेन कार्या तु शुचयेऽग्नये ॥ KK03-11-223-026c
अग्निं रजस्वला वै स्त्री संस्पृशेदाग्निहौत्रिकम् । KK03-11-223-027a
इष्टिरष्टाकपालेन कार्या वसुमतेऽग्नये ॥ KK03-11-223-027c
मृतः श्रूयेत यो जीवन्परासुरशुचिर्यथा । KK03-11-223-028a
इष्टिरष्टाकपालेन कार्या सुरभिमतेऽग्नये ॥ KK03-11-223-028c
आर्तो न जुहुयादग्निं त्रिरात्रं यस्तु ब्राह्मणः । KK03-11-223-029a
इष्टिरष्टाकपालेन कार्या तन्तुमतेऽग्नये ॥ KK03-11-223-029c
दर्शश्च पौर्णमासश्च यस्य तिष्ठेत्प्रतिष्ठितम् । KK03-11-223-030a
इष्टिरष्टाकपालेन कार्या पथिकृतेऽग्नये ॥ KK03-11-223-030c
सूतिकाग्निर्यदा चाग्निं संस्पृशेदाग्निहौत्रिकम् । KK03-11-223-031a
इष्टिरष्टाकपालेन कार्यां चाग्निमतेऽग्नये ॥ KK03-11-223-031c

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि त्रयोविंशत्यधिकद्विशततमोऽध्यायः ॥ 223 ॥

3-223-9 भानोर्भार्या सुप्रजा तु बृहद्भासा तु मूर्यजा इति झ. पाठः ॥ 3-223-14 भानोरेवान्वयस्तुभः इति झ. पाठः ॥ 3-223-18 कन्या सा रोहिणी इति झ. पाठः ॥ 3-223-20 शुक्ककृष्णगतिर्देवो यो बिभर्ति हुताशनम् इति झ. पाठः ॥