अध्यायः 222

मार्कण्डेयेन युधिष्ठिरम् प्रत्यग्न्युत्पत्तिकथनम् ॥ 1 ॥

मार्कण्डेय उवाच KK03-11-222-001
काश्यपो ह्यथ वासिष्ठः प्राणश्च प्राणपुत्रकः । KK03-11-222-001a
अग्निराङ्गिरसश्चैव च्यवनस्तीव्रवर्चकः ॥ KK03-11-222-001c
अचरत्स तपस्तीव्रं पुत्रार्थे बहुवार्षिकम् । KK03-11-222-002a
पुत्रं लभेयं धर्मिष्ठं यशसा ब्रह्मणा समम् ॥ KK03-11-222-002c
महाव्याहृतिभिर्ध्यातः पञ्चभिस्तैस्तदा त्वथ । KK03-11-222-003a
जज्ञे तेजोमयार्चिष्मान्पञ्चवर्णः प्रभाकरः ॥ KK03-11-222-003c
समिद्धोऽग्निः शिरस्तस्य बाहू सूर्यनिभौ तथा । KK03-11-222-004a
त्वङ्नेत्रे च सुवर्णाभे कृष्णे जङ्घे च भारत ॥ KK03-11-222-004c
पञ्चवर्षः स तपसा कृतस्तैः पञ्चभिर्जनैः । KK03-11-222-005a
पाञ्चजन्यः श्रुतो देवः पञ्चवंशकरस्तु सः ॥ KK03-11-222-005c
दशवर्षसहस्राणि तपस्तप्त्वा महातपाः । KK03-11-222-006a
जनयत्पावकं घोरं पितॄणां स प्रजाः सृजन् ॥ KK03-11-222-006c
बृहद्रथन्तरौ मूर्ध्ना वक्त्राच्च तपसा हरिम् । KK03-11-222-007a
शिवं नाभ्यां बलादिन्द्रं प्राणाद्वायुं च भारत ॥ KK03-11-222-007c
बाहुभ्यामनुदात्तौ च विश्वे भूतानि चैव ह । KK03-11-222-008a
एतान्सृष्ट्वा ततः पञ्च पितॄणामसृजत्सुतान् ॥ KK03-11-222-008c
बृहद्रथस्य प्रणिधिः काश्यपश्य महत्तरः । KK03-11-222-009a
भानुरङ्गिरसो धीरः पुत्रो वर्चस्य सौरभः ॥ KK03-11-222-009c
प्राणस्य चानुदात्तस्तु व्याख्याताः पञ्च वंशजाः । KK03-11-222-010a
देवान्यज्ञमुषश्चान्यान्सृजन्पञ्चदशोत्तरान् ॥ KK03-11-222-010c
सुभीममतिभीमं च भीमं भीमबलाबलम् । KK03-11-222-011a
एतान्यज्ञमुषः पञ्च देवानप्यसृजत्ततः ॥ KK03-11-222-011c
सुमित्रं मित्रवन्तं च मित्रज्ञं मित्रवर्धनम् । KK03-11-222-012a
मित्रधर्माणमित्येतान्देवानभ्यसृजत्ततः ॥ KK03-11-222-012c
सुरप्रवीरं वीरं च सुरेशं च सुवर्चसम् । KK03-11-222-013a
सुराणामपि भर्तारं पञ्चैतानसृजत्ततः ॥ KK03-11-222-013c
त्रिविधं संस्थिता ह्येते पञ्चपञ्च पृथक्पृथक् । KK03-11-222-014a
मुष्णन्त्यत्र स्थिता ह्येते स्वर्गतान्यज्ञयाजिनः ॥ KK03-11-222-014c
तेषामिष्टं हरन्त्येते निघ्नन्ति च महद्धविः । KK03-11-222-015a
स्पर्धया हव्यवाहानां निघ्नन्त्येते हरन्ति च ॥ KK03-11-222-015c
बहिर्वेद्यां तदादानं कुशलैः सम्प्रवर्तितम् । KK03-11-222-016a
तत्रैते नोपसर्पन्ति यत्र चाग्निः स्थितो भवेत् ॥ KK03-11-222-016c
चितोऽग्निरुद्वहन्यज्ञं पक्षाभ्यां तान्प्रबाधते । KK03-11-222-017a
मन्त्रैः प्रशमिता ह्येते नेष्टं मुष्णन्ति यज्ञियम् ॥ KK03-11-222-017c
तपस्ये बृहदुक्थस्य पुत्रो भूमिमुपाश्रितः । KK03-11-222-018a
अग्निहोत्रे हूयमाने पृथिव्यां सद्भिरीड्यते ॥ KK03-11-222-018c
रथन्तरश्च तपसः पुत्रोऽग्निः परिपठ्यते । KK03-11-222-019a
मित्रविन्दा तथा भार्या हविरध्वर्यवो विदुः ॥ KK03-11-222-019c
'एतैः सह महाभाग तपस्तेजस्विभिर्नृप' । KK03-11-222-020a
मुमुदे परमप्रीतः सह पुत्रैर्महायशाः ॥ KK03-11-222-020c

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि द्वाविंशत्यधिरकद्विशततमोऽध्यायः ॥ 222 ॥

3-222-2 काश्यप इति त्रयाणां सम्बन्धः । अत्र पाठक्रमादर्थक्रमस्य बलीयस्त्वात् आद्ययोः श्लोकयोर्व्यत्यासेनार्थो ग्राह्यः । अचरदिति ॥